________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते अ० सूत्रे पाद् इति पादशब्दस्य लुप्ताकारस्य अथवा पादयतेः कृतणिलोपस्य निर्देशः कृतः / निर्दिश्यमानानामादेशिनामादेशा' इति न्यायात् केवलस्यैव पाद् इत्यस्य पद् इत्यादेशो भवति, नतु तदन्तस्य सर्वस्य समुदायस्य / व्याघ्रस्येति वाक्ये कृते 'पात् पादस्याऽहस्त्यादेः' (7 / 3 / 148) इति सूत्रेण पादशब्दस्य पाद् / व्याघ्रपदोऽपत्यम् / 'गर्गादेर्यञ्' (6 / 1 / 42) 'स्वः पदान्तात् प्रागैदौत्' (7 / 4 / 5) इति / वयविचाले ऐ इत्यागमः / ततो 'यस्वरे पादः०' इति सूत्रेण पाद इति स्थाने पद् इत्यादेशः / वैयाघ्रपद्य इति सिद्धम् / द्वौ पादावस्य द्विपाद् / 'सुसङ्ख्यात्' (7 / 3 / 150) इति पादस्य पाद् / शस् / त्रयः पादा अस्याः त्रिपदी / 'सुसङ्ख्यात्' पाद् / 'वा पादः' (2 / 4 / 6) इति सूत्रेण डी / व्याघ्रस्येव पादावस्याः / अनयोर्वा / स्त्रियां ‘वा पादः' (2 / 4 / 6) ङी / 'क्लीबे तु 'औरीः' (1 / 4 / 56) द्वौ पादौ ददाति द्विपदिकां त्रीन् पादान् ददाति त्रिपदिकां ददाति / 'सङ्ख्यादेः पादादिभ्यो दानदण्डे चाकल् लुक् च' (7 / 2 / 152) इति अकल् प्रत्ययः पादस्य अन्त्य अकारलोपश्च / आप् / 'अस्यायत्तत्क्षिपकादीनाम्' (2 / 4 / 111) इकारः / द्वौ पादावस्य द्विपाद् / 'सुसङ्ख्यात्' इत्यनेन पादशब्दस्य पाद् इति व्यञ्जनान्तः / तदनन्तरं द्विपदे हितं इति वाक्यं कार्यम् / पदः इत्यत्र व्यपदेशिवद्भावेन पादन्तत्वम् / व्याघ्रपादमिच्छति क्यन् / व्याघ्रपद इवाचरति क्यङ् // 102 / / उदच उदीच // 2 / 1 / 103 // उदचो नाम्नो अणिक्यघुटि यादौ स्वरादौ च प्रत्यये परे उदीच् इत्यादेशः स्यात् / उदीच्यः / उदीचः पश्य / उदीची स्त्री कुले वा / उदीचा / अणिक्यघुटीत्येव / उदयति / उदच्यति / उदच्यते / उदञ्चौ / उदञ्चि कुलानि // 10 // ___ अ० उदच् इति उत्पूर्वस्य अञ्चतेः कृतनलोपस्य निर्देशः / उदच् / उदचि भव उदीच्यः / अथवा उदग्भव उदीच्यः / 'थुप्रागपागुदक्प्रतीचो यः' (6 / 3 / 8) इति यः / उदश्चमाचष्टे ‘णिज् बहु०' (3 / 4 / 42) 'त्र्यन्त्यस्वरादेः' (7 / 4 / 43) / उदञ्चमिच्छति उदगिवाचरति // 103 / / अच्च् प्राग्दीर्घश्च // 2 / 1 / 104 // अच् इति नाम च चकारमात्रं स्यात् / अणिक्यघुटि यादौ स्वरादौ प्रत्यये परे / प्राक् [कोऽर्थः] पूर्वोsनन्तरः स्वरश्च दीर्थो भवति / प्राच्यः / प्रतीच्यः / प्राचः / दधीचा / मधूचः / पितृचः / पितृचा / प्राची। प्रतीची / स्त्री कुले वा / अन्वाचय [गौण] शिष्टत्वाहीर्घत्वस्य तदभावेऽपि [दीर्घाभावेऽपि] चादेशो भवति / दृषच्चा / दृषच्चे / अच् इति लुप्तनकारस्याञ्चेहणादिह न भवति / साध्वञ्चः / साध्वञ्चा। साध्वञ्चे // 10 // ___अ० प्राचि भवः प्राच्यः / प्राग्भवो वा प्राच्यः / प्रत्यग्भवः प्रतीच्यः / 'धुप्रागपा०' (6 / 3 / 8) इति यः / दधिअञ्चतीति मधुअञ्चतीति पितरमञ्चतीति क्विप् / प्राञ्चतीति प्राङ् / स्त्री चेत् प्राची / प्रत्यञ्चतीति प्रतीची साधुमश्चतीति पूजयतीति साध्वञ्चः / 'अञ्चोऽनर्चायाम्' (4 / 2 / 46) इति अनर्चायां अपूजायां नकारलोपः / अर्चायां पूजायां नकारलोपो न भवति / यत्र च नकारलोपः तत्रैव 'अच् प्रा०' (2 / 1 / 104) इति सूत्रं प्रवर्तते इत्यर्थः / / 104|| कसुष्मतौ च // 2 // 14105 // [कस् उष् मतुः] णिक्यघुड्वर्जयादौ स्वरादौ प्रत्यये परे मतौ च परे कस् उष् भवति / विदुष्यः / विदुषः [शस् डस्] / विदुषा / विदुषी स्त्री कुले वा / वैदुषम् / पेचुषः [शस् डस्] / पेचुषा / पैचुषम् / [विद्वानस्यास्तीति मतुः] विदु