________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः मान् / मतौ चेत्येव / विद्वद्भिः / अणिक्यघुटीति किम् ? विद्वांसमाचष्टे विद्वयति [विद्वांसमिच्छति,] विद्वस्यति / [विद्वानिवाचरति] विद्वस्यते / विद्वांसः / विद्वांसि कुलानि // 105 // __“अ० 'विदंक् ज्ञाने' वेत्तीति विद्वान् / 'वा वेत्तेः कसुः' (5 / 2 / 22) विदुषि साधुः विदुष्यः / 'तत्र साधौ' (7 / 1 / 15) इति यप्रत्ययः / पश्चात् 'क्वसुष्मतौ च' (2 / 1 / 105) कस् स्थाने उष् कार्यः / विदुष्यः इति सिद्धम् / / विदुष इदं वैदुषं 'तस्येदम्' (6 / 3 / 160) इति अण् / 'वृद्धिः स्वरेष्वादेफ्रिति तद्धिते' (7 / 4 / 1) वृद्धिः / वैदुषम् / पेचुषः इति 'डुपचींष् पाके' पच् / पपाच / / पेचिवान् / 'तत्र कसुकानौ तद्वत्' (5 / 2 / 2) वसुः / 'अनादेशादेरेकव्यञ्जनमध्येऽतः' (4 / 1 / 24) इति सूत्रेण पचोऽकारस्य एत्वम् द्वित्वाभावश्च / 'घसेकस्वरातः कसोः' (4 / 4 / 82) इतीट् / / पेचुष इदं पैचुषम् / 'तस्येदम्' (6 / 3 / 160) इति अण् / कसुष्मतौं च' (2 / 1 / 105) इति कसःस्थाने उष् / पैचुषं इति सिद्धम् // 10 // श्वन्युवन्मघोनो ङी-स्याद्यघुट्स्वरे व उः // 2 / 1 / 106 // श्वन्युवन्मघवन् इत्येषां सस्वरो वकार उकारो भवति / ङी-स्याद्यघुट्स्वरे परे / शुनी / प्रियशुनी कुले [औ] / शुनः / शुने [अतिक्रान्ता युवानम्] / अतियूनी स्त्री। यूनः / यूना / मघोनी / मघोना / मघोनः / डी स्याद्यघुट्स्वर इति किम् ? शौवनम् / यौवनम् / माघवनम् / श्वानौ / युवानौ / नान्तनिर्देशादिह न भवति / गोष्ठश्वेन / युवतीः पश्य / युवत्या / मघवतः पश्य / अर्थवद्ग्रहणादिह न भवति / तत्त्वदृश्वना। मातरिश्वना // 106 // अ० श्वन् / शुन इदं शौवनम् / 'तस्येदम्' (6 / 3 / 160) अण् / 'द्वारादेः' (7 / 4 / 6) इति सूत्रेण शकारवकारविचाले वृद्धिरागमः / औ / शौवनमिति सिद्धम् / तथा यूनो भावो यौवनम् / 'युवादेरण' (7 / 2 / 67) / वृद्धिः / मघवा देवता अस्य माघवनम् / 'देवता' (6 / 2 / 101) इति सूत्रेण अण् / गोष्ठे श्वेव / 'गोष्ठातेः शुनः' (7 / 3 / 110) इति सूत्रेण अट् समासान्तः / 'नोऽपदस्य तद्धिते' (7 / 4 / 61) अन्त्यस्वरादिलोपः / गोष्ठश्च / तृतीयाटा / मघो ज्ञानं सुखं वास्यास्तीति / 'तदस्या०' (7 / 2 / 1) इति मतुः / 'मावर्णान्तो०' (2 / 1 / 94) मस्य वः / तत्त्व अग्रे ‘दृशुं प्रेक्षणे' दृश् तत्त्वं दृष्टवान् / तत्त्वदृश्वा / ‘दृशः कनिप्' (5 / 1 / 166) / टा / मातरि अन्तरिक्षे श्वयति गच्छति वर्द्धत इति मातरिश्वा / वातः / 'श्वन्मातरिश्वन्मूर्धन्प्लीहन्नर्यमन्विश्वप्सन्परिज्वन्महन्नहन्मघवन्नर्थवनिति' (902) इति उणादिसूत्रेण निपातः / अत्र 'तत्पुरुषे कृति' (3 / 2 / 20) इति सप्तम्या अलुक् / तृतीयाटा। मातरिश्वना इति सिद्धम् / / 106 / / लुगातोऽनापः // 2 / 1 / 107 // ङी-स्याद्यघुट्स्वरे परे आप्वर्जिताकारस्य लुग्भवति / [कीलालं पिबतीति] कीलालपः / कीलालपा / अनाप इति किम् ? शालाः // 107 // ___ अ० क्त्वा / अग्रे ङस् / ना डस् / 'लुगातोऽनापः' (2 / 1 / 107) क्त्वः / नः / इति रूपं ज्ञातव्यम् / लुगातोऽत्र सूत्रे // 107 // अनोऽस्य // 2 / 1 / 108 // अनोऽकारस्य ङी-स्यायघुट्स्वरे लुग्भवति / राज्ञी / राज्ञः / राज्ञा // 108 //