________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते ईङौ वा // 2 // 11109 // अनोऽकारस्य ईकारे डौ च परे लुग्वा भवति / [औ] साम्नी / सामनी / सुराज्ञी / सुराजनी कुले / [डि] राज्ञि राजनि / दघ्नि दधनि ['दध्यस्थि०' (1 / 4 / 63) इति अन्] // 109 // __ अ० इह तावत् सप्तमीविभक्तिसम्बन्धिङिः / तत्साहचर्यादीकारोऽपि विभक्तिरूप एव ग्राह्यः / तेन औकारस्थानिनि ईकारे परे 'ईडौ वा' (2 / 1 / 109) इत्यनेन अनोऽकारस्य विकल्पेन लोपः / ङीप्रत्यये तु सति राज्ञी इत्यादिषु 'अनोऽस्य' (2 / 1 / 108) इत्यनेन नित्यमेवाऽनोकारस्य लोप इति भावः // 109 / / पादिहन्धृतराज्ञोऽणि // 2 / 1 / 110 // षकारादेरनो हन्धृतराजनित्येतयोश्चाकारस्याऽणि [तद्धितविषयेऽणि] प्रत्यये परे लुक् स्यात् / ताक्ष्णः / भ्रौणप्नः / वात्रघ्नः / धार्तराज्ञः / षादीनामिति किम् ? सामनः // 110 // __ अ० ष आदिर्यस्य स षादिः / षादिश्च हन् च धृतराट् च षादिहन्धृतराजानः / तस्य / तक्षन् तक्ष्णोऽपत्यम् 'डसोऽपत्ये' (6 / 1 / 28) इति अण् / भ्रूण 'हनंक हिंसागत्योः' हन् / भ्रूणं हतवान् / एवं वृत्रं हतवान् वृत्रहा / 'ब्रह्मभ्रूणवृत्रात्विप्' (5 / 1 / 161) / भ्रूणघ्नोऽपत्यम् / वृत्रघ्नोऽपत्यम् / 'उसोऽपत्ये' अण् / 'षादिहन्धृते'ति हन् इति अकारस्य लोपः / ततो 'हनो हो धनः' (2 / 1 / 112) इति ह्र इत्यस्य घ्न आदेशः / णकारो वृद्धयर्थः / 'वृद्धिः स्वरे०' (7 / 4 / 1) वृद्धिः / धृतराज्ञोऽपत्यं अण् / 'तवर्गस्य श्चवर्ग०' (1 / 3 / 60) इति नस्य ञ् // 110 // न वमन्तसंयोगात् // 2 / 1 / 111 // . वकारान्तात् मकारान्ताच्च संयोगात्परस्यानोऽस्य [अकारस्य] लुग् न भवति / पर्वणे [तत्त्वं दृष्टवान् ] तत्त्वदृश्वना / कर्मणा / संयोगादिति किम् ? साम्ना / वमन्तेति किम् ? मूर्ना // 111 // अ० वश्च मश्च / वमावन्ते यस्य वमन्तः / वमन्तश्चासौ संयोगश्च / तस्मात् // 111 / / हनो हो घ्नः // 2 / 1 / 112 // हन्तेर्ह इति रूपस्य घ्न इत्यादेशः स्यात् / भ्रूणघ्नी स्त्री कुले। भ्रूणघ्ना [टा] / घ्नन् / घ्नन्ति / अघ्नन् / [ह्यस्तनीअन्] / हन इति किम् ? अहः / अह्नि / ह्र इति किम् ? वृत्रहणौ / वृत्रहयति // 112 // ____ अ० भ्रूणघ्नी / भ्रूणं हतवान् / 'ब्रह्मभ्रूण०' (5 / 1 / 161) इति किप् / 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (2 / 4 / 1) / अथवा 'औरीः' (1 / 4 / 56) 'अनोऽस्य' (2 / 1 / 108) इति अकारलोपः / घ्नन् / हन्तीति घ्नन् ‘शत्रानशावेष्यति०' (5 / 2 / 20) / शतृ / घ्नन्ति / हन्, वर्तमानाअन्ति / ‘गमहनजनखनघसः स्वरेऽनङि क्ङिति लुक्' (4 / 2 / 44) / अनोऽकारस्य लोपः / वृत्रं हयति / वृत्रहन् / वृत्रहणमाचष्टे / 'णिज्बहुलम्०' (3 / 4 / 42) णिग् / 'त्र्यन्त्यस्वरादेः' (7 / 4 / 43) अन्त्यस्वरादिलोपः / वृत्रशब्दः // 112 / / लुगस्यादेत्यपदे // 2 / 1 / 113 // [अत् एत् सप्तमीडि] अपदे अपदादौ अकारे एकारे च परे अकारस्य लुक् स्यात् / सः / तौ / ते युष्मभ्यम् पठन्ति / यजे [वर्तमानाए] अदेतीति किम् ? श्रमणे / अपद इत्येव / दण्डाग्रम् / तवैषा // 113 // डित्यन्त्यस्वरादेः // 2 / 1 / 114 //