________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः 101 स्वराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डिति परे लुग्भवति / मुनौ / साधौ / पितुः / पिता / महाकारः। महाघासः / जलजम् / त्रिंशकम् / आसन्नचताः // 114 // अ० महाकरः महतः करो महाकरः / 'महतः करघासविशिष्टे डाः' (3 / 2 / 68) / यदि च महत्याः करः महाकरः इति वाक्यं क्रियते तदा 'स्त्रियाम्' (3 / 2 / 69) इति सूत्रेण डा इत्यन्तादेशः / जले जायते जले जातं जलजम् / 'सप्तम्याः ' (5 / 1 / 169) इति डः / त्रिंशता क्रीतं त्रिंशकम् / 'त्रिंशविंशतेर्डकोऽसंज्ञायामाईदर्थे' (6 / 4 / 129) इति सूत्रेण डकप्रत्ययः / त्रिंशकं इति निष्पत्तिः / आसन्नाश्चत्वारो येषां ते आसन्नचताः / 'प्रमाणीसङ्ख्याड्डः' (7 / 3 / 128) इति डप्रत्ययः / आसन्नचताः इति सिद्धम् // 114 / / ___अवर्णादश्नोऽन्तो वाऽतुरीङयोः // 2 / 1 / 115 // [अतृ षष्ठी डस्] भावर्जादवर्णात्परस्य अतुः स्थाने [अतृस्थाने] अन्त इत्यादेशो वा भवति, ईड्यो / तुदन्ती / तुदती / कुले स्त्री वा / भान्ती / भाती / करिष्यन्ती / करिष्यती / कुले स्त्री वा / अवर्णादिति किम् ? अदती। सुन्वती / रुन्धती / तन्वती / स्त्री कुले वा / अधीयती स्त्री कुले / जरती स्त्री कुले / अन इति किम् ? क्रीणती। अवर्णादिति विशेषणात् अन इति प्रतिषेधाच लोपदीर्घाभ्यां पूर्वमेवानेनान्तः / भूतपूर्वतया वा पश्चात् / ददती स्त्री ददती कुले इत्यत्र तु कृतेऽप्यन्तादेशे 'अन्तो नो लुक्' (4 / 2 / 94) इति नलोपः॥११५॥ ____ अ० ईङयोः / कोऽर्थः / औकारस्थाने ईप्रत्यये परे डीप्रत्यये परे च / तुदति / अथवा तुदत इति / तुदती / 'शत्रानशावेष्यति तु सस्यौ' (5 / 2 / 20) इति शतृप्रत्ययः / 'तुदादेः शः' (3 / 4 / 81) इति शः / 'अधातूदृदितः' (2 / 4 / 2) इति डीप्रत्ययः / अथवा / औ / औरीः / भातीति अथवा भात इति भान्ती भाती / डी औश्च / करिष्यति / करिष्यतीति अथवा करिष्यत इति करिष्यन्ती / अत्र स्यपूर्वकशतृप्रत्ययः / ङी औश्च / सर्वत्र ‘अवर्णादश्नो०' (2 / 1 / 115) इत्यनेन अतृस्थाने अन्त इत्यादेशो विकल्पेन भवति / अदतीत्यादि / 'अदंप्सांक् भक्षणे' अत्तीति अदती / 'पुंग्ट् अभिषवे' सुनोतीति सुन्वती / 'स्वादेः श्रुः' (3 / 4 / 75) 'रुबॅपी आवरणे' रुणद्धीति रुन्धती / तनोतीति तन्वती / अत्र सर्वत्र 'शत्रानशावे.' (5 / 2 / 20) शतृ / पश्चात् श्रुः / 'रुधां स्वराच्छ्नो न लुक्च / (3 / 4 / 82) इति 'रुध् विचाले' नः / 'कृगतनादेरुः' (3 / 4 / 83) इति उः / यथाक्रमं. 'अधातूदृदितः' (2 / 4 / 2) इति ङीः / 'इङ् अध्ययने' अधि सुखेनाधीते / अधीयती / 'धारीडोऽकृच्छ्रेऽतृश् (5 / 2 / 25) / इति अतृश् / 'अप्रयोगीत्' (1 / 1 / 37) अत् / डी / - 'जृष्ष् च जरसि' / जृ / जीर्यतिस्म जरती / 'वृषोऽतृः' (5 / 1 / 173) इत्यनेन अतृप्रत्ययः / ङी / 'ददती स्त्री इत्यादि 'डुदांग्क् दाने' ददातीति ददती / अथवा दत्त इति ददती / 'शत्रानशा०' शतृ / 'अप्र०' अत् / 'अधातू०' डी / औ / 'औरीः' (1 / 4 / 56) इति ई / अत्र 'नश्चातः' (4 / 2 / 96) इति सूत्रेण दा इति आकारलोपः प्राप्नोति / 'समानानां तेन.' (1 / 2 / 1) इति दीर्घोऽपि प्राप्नोति / उभयप्राप्ते किं विधेयम् ? तत्राह सूरिःअवर्णादिति विशेषणात् अश्नेत्यादि / सूत्रे अवर्णात् इति करणात् अश्न इति प्रतिषेधकरणाच्च / लोपदीर्घ बाधित्वा पूर्वं 'अवर्णादश्नोऽन्तो०' (2 / 1 / 115) इति सूत्रेण अत् स्थाने अन्त आदेशः / अथवा भूतपूर्वेत्यादिलोपे कृतेऽपि भूतपूर्वकत्वेन स्थानिवत्त्वेन वा अवर्णान्तसम्भवः / इति पश्चादपि अन्तादेशः सिद्ध एवेति भावः / पुनः कोऽपि पृच्छति-यदि अवर्णान्तत्वादन्तादेशोऽभवत् / तर्हि ददतीति कथं सिद्धयति ? तत्राह ददतीत्यत्र तु कृतेऽपीत्यादि / अन्तादेशे कृतेऽपि 'अन्तो नो लुग्' (4 / 2 / 94) इति सूत्रेण अन्त इत्यस्य नकारलोपो भवतीत्यर्थः / इति ददतीति