________________ 102 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते सिद्धम् // 115 // __इयशवः // 2 / 1 / 116 // [श्यश्च शवश्च तस्मात् ] श्यात् शवश्च परस्य अतुरन्तादेशः स्यात् ईङयोः परयोः / [श्यः] दीव्यन्ती। [शव्] भवन्ती। चोरयन्ती। धारयन्ती स्त्री कुले वा / श्यशव इति किम् ? जरती // 116 // . अ० 'दिवूच् क्रीडे' इति दण्डकधातुः / दिव् / दीव्यतीति शतृ / 'दिवादेः श्यः' (3 / 4 / 72) इति श्यप्रत्ययः / 'भ्वादेर्नामिनो०' (2 / 1 / 63) इति दीर्घः / भवन्ती / अग्रतो दशन्ती / सजन्ती ‘दंशसञ्जः शवि' (4 / 2 / 49) उपान्त्यनलोपः / इत्यपि उदाहरणद्वयं ज्ञातव्यम् / 'धृग् धारणे' धरन्तं प्रयुङ्क्ते णिग् धारयतीति / 'धारीडोऽकृच्छ्रेऽतृश्' (5 / 2 / 25) // 116 / / दिव औः सौ // 2 / 1 / 117 // दिवोऽन्तस्य सौ परे औः स्यात् / द्यौः / प्रियद्यौः / हे द्यौः / साविति किम् ? दिवं पश्य / द्यामिति द्यौशब्दस्य ‘आ अम्शसोऽता' (1 / 4 / 75) इत्याकारे रूपम् // 117 // अ० द्योशब्दो दिवशब्दश्च गगनस्वर्गवाचकौ स्त्रीलिङ्गौ / द्यौ / प्रथमा सिः / 'ओत औः' (1 / 4 / 74) द्यौः / दिव् / प्रथमासिः / 'दिव औः सौ' इति द्यौः / प्रथमासिविभक्तौ परे द्योदिवशब्दयोरेकसदृशं रूपं भवति / प्रिया द्यौर्यस्य स प्रियद्यौः / द्योशब्दः / अम् / 'आ अम् शसोता' / (1 / 4 / 75) इति ओकारस्य आकारः // 117|| उः पदान्तेऽनूत् // 2 / 1 / 118 // [न ऊत् अनूत् 'अन् स्वरे' (3 / 2 / 129)] पदान्ते वर्तमानस्य दिवोऽन्तस्य उकारो भवति सचानूत् / तस्य तूकारस्य न दीर्घः युभ्याम् / युभिः। [दिवं गतः] युगतः / युकामः / विमला दिनम् / पदान्ते इति किम् ? दिव्यति / दिव्यम् / दिवि / अनूदिति किम् ? अद्यौर्योर्भवति युभवति / ऊकारप्रतिषेधाद्वृद्धिर्भवत्येव द्यौकामिः / दिवाश्रयः दिवौकसः इति तु पृषोदरादित्वादकारागमे भविष्यति / वृत्तिविषये वाऽकारान्तो दिव्शब्दोऽस्ति // द्वितीयस्याध्यायस्य प्रथमः पादः // ग्रन्थाग्रम् 354 // ___ अ० सचानूत् इति विधिर्न धुभ्यामित्यादिषु, किन्तु युभवतीत्यत्र अनूत् इति ज्ञातव्यम् / दिव् / 'कमूङ् कान्तौ' कम् / ‘कमेर्णिङ्' (3 / 4 / 1) 'ग्णिति' (4 / 3 / 50) द्यां कामयते द्युकामः / ‘शीलिकामिभक्ष्याचरीक्षिक्षमो णः' (6 / 1 / 73) इति णः प्रत्ययः / ‘णेरनिटि' (4 / 3 / 83) णिग्लोपः / 'उः पदान्ते०' (2 / 1 / 118) इति उकारः / विमला द्यौर्गगर्ने यत्र दिने तत् विमलद्युः / दिवमिच्छति क्यन् / दिवि भवं दिव्यम् / 'दिगादिदेहांशाद्यः' (6 / 3 / 124) इति यः / 'दिव् अग्रे भवति / अद्यौ?र्भवतीति वाक्ये 'कुम्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्विः' (7 / 2 / 126) इति च्चिप्रत्ययः / 'अप्रयोगीत्' (1 / 1 / 37) इति च्विलोपः / 'उः पदान्ते' इति उकारः / अत्र 'दीर्घश्च्वियङ्यक्क्येषु च' (4 / 3 / 108) इति दीर्घप्राप्तावपि अनूत् इति व्यावृतिबलात् दीर्घो न भवति / युकामस्यापत्यं द्यौकामिः / 'अत इञ्' (6 / 1 / 31) 'वृद्धिः स्वरे०' (7 / 4 / 1) वृद्धिः औ / दिवि आश्रयो यस्य। दिवाश्रयः। दिवि ओको गृहं येषां ते दिवौकसो देवाः / 'पृषोदरादयः' (3 / 2 / 155) इति अकारो वर्णागमः // 118 / / इति श्रीसिद्धहेमशब्दानुशासने द्वितीयस्याध्यायस्य मध्यमवृत्त्यवचूरिभ्यामलङ्कृतः प्रथमः पादः समाप्तः // 1|| 1,2 अत्र 'नामसिदयव्यञ्जने' इति सूत्रे यादिप्रत्ययस्यनिषेधात् पदसञ्ज्ञाऽभावात् वकारस्य पदान्तत्वं नास्ति /