________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः / अहँ क्रियाहेतुः कारकम् // 2 // 2 // 1 // क्रियाया हेतुः कारणं कादि कारकसंज्ञं भवति / तच्च द्रव्याणां स्वपराश्रयसमवेतक्रियानिर्वर्तकं सामय॑म् / करोतीति कारकमित्यन्वर्थसंज्ञाश्रयणाचानाश्रितव्यापारस्य निमित्तत्वमात्रेण हेत्वादेः कारकसंज्ञा न भवति / कारकप्रदेशाः 'कारकं कृता' (3 / 1 / 68) इत्येवमादयः // 1 // __ अ० कारकशब्दोऽयमव्युत्पन्नः क्रियानिमित्तपर्यायः स्वभावानपुंसकलिङ्गः / तच्च कारकं द्रव्याणां घटादीनां सामर्थ्य शक्तिरूपं भवतीति सम्बन्धः / कीदृशं सामर्थ्यम् ? स्वपरेति / स्वश्च परश्च स्वपरौ / स्वपरयोराश्रयः / स्वपराश्रये : समवेता समवस्थिता या क्रिया / क्रिया च त्रिधा भवति-चैत्र आस्ते इति स्वाश्रिता क्रिया / घटं करोति इति पराश्रिता क्रिया / अन्योऽन्यमाश्लिष्यते मित्रे इत्युभयाश्रिता क्रिया / तस्यास्त्रिविधक्रियाया निर्वर्तकं निष्पादकं एवंविधं सामर्थ्य शक्तिः कारकमुच्यते / अनुगतोऽर्थो यस्यां साऽन्वर्था / सा चासौसंज्ञा च / हेतोः / हेतुकर्तुः' / आदिशब्दात्सम्बन्धस्य सहार्थस्य कारकसंज्ञा न भवति / / 1 / / स्वतन्त्रः कर्ता // 2 // 2 // 2 // क्रियाहेतुभूतो यः क्रियासिद्धावपरायत्ततया प्राधान्येन विवक्ष्यते स कारकविशेषः कर्तृसंज्ञो भवति / देवदत्तः पचति / मित्रेण कृतम् / प्रयोजकोऽपि कर्तेव-पचन्तं देवदत्तं प्रयुङ्क्ते / देवदत्तेन पाचयति चैत्रः। कर्तृप्रदेशा 'इङितः कर्तरि' (3 / 22) इत्यादयः // 2 // ___ अ० स्व आत्मा तन्त्रं प्रधानं यस्य व्यापारकाले स स्वतन्त्रः / प्रेरयिता / प्रेरकः / हेतुरपि कर्ता भवति हेतुः कर्ता इति // 2 // कर्तृाप्यं कर्म // 2 // 2 // 3 // [कर्मसंज्ञाधिकारे ‘कर्तुाप्यं कर्मे'त्यादि आरभ्य 'कालाध्वभावदेशं वा कर्म चाकर्मणाम्' (2 / 2 / 23) इत्यन्तं यावत् एकविंशति 21 सूत्राणि ज्ञातव्यानि / ] का क्रियया यद् विशेषेणाप्नुमिष्यते तन्याप्यम्, तत्कारकं कर्मसंज्ञं भवति / प्रसिद्धस्यानुवादेनाप्रसिद्धस्य विधानं लक्षणार्थः / तेन यत्कर्म का क्रियते तत् व्याप्यसंज्ञं भवतीत्यपि सूत्रार्थः / तत्कर्म त्रेधा-निर्वयम्, विकार्यम्, प्राप्यं च / पुनरेतत् कर्म त्रिविधम्-इष्टं अनिष्टं अनुभयं च / पुनस्तत् कर्म द्विविधम्-प्रधानाप्रधानभेदात् / तच्च द्विकर्मकेषु धातुषु दुहि-भिक्षि-रुधि-प्रच्छि-चिग्-ब्रूग्-शास्वर्थेषु, याचि-जयति-प्रभृतिषु च भवति / दुह्यर्थ,-गां दोन्धि पयः [अम्] / गां म्रावयति पयः / भिक्ष्यर्थ.-पौरवं गां भिक्षते / [पौरवं गां] याचते / चैत्रं शतं मृगयते / [चैत्र शतं] प्रार्थयते / गामवरूणद्धि ब्रजम् / छात्रं पन्थानं पृच्छति / वृक्षमवचिनोति फलानि / शिष्यं धर्मं ब्रूते / शिष्यं धर्ममनुशास्ति / अविनीतं याचते विनयम् / गर्गान् शतं जयतिदण्डयति / ग्रामं शाखां कर्षति / काशान् कटं करोति / अमृतमम्बुनिधि मथ्नाति / अजां ग्रामं नयति / ग्रामं भारं हरति-वहति / सैन्धवमश्वं मुष्णाति / शतानीकं शतं गृह्णाति / तन्दुलानोदनं पचति / अप्रधानकर्म.दुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययो भवति / गौर्दुह्यते पयो मैत्रेण याच्यते। भिक्ष्यते गां पौरवः / अवरुध्यते 1. हेतुस्वरूपकर्तुः / गमनकर्ता चैत्रो मैत्रनिष्ठगमनक्रियां प्रति निमित्तमात्रमेव / / यदा तु यत्र आदेशनिर्देशादिना प्रेरयति तदा तत्र स प्रयोजककर्ता भवति / नतु तस्य दर्शनमात्रम् /