________________ 104 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलङ्कृते गां व्रजः / पृच्छयते पन्थाश्छात्रम् / अवचीयते वृक्षः फलानि / उच्यते शिष्यो धर्मम् / शिष्यते शिष्यो धर्मम् / जीयते शतं चैत्रः / गर्गाः शतं दण्ड्यन्ताम् / देवासुरैरमृतमम्बुनिधिर्ममन्थ इत्यादि / नी-वहिहरत्यादीनां तु प्रधाने कर्मणि कर्मजः प्रत्ययः-नीयते ग्राममजा। उह्यते भारो ग्रामम् / इत्यादि / तथा गत्यर्थानां [णिगन्तानां] अकर्मकाणां च णिगन्तानां प्रधाने एव कर्मणि कर्मजः प्रत्ययः-गमयति मैत्रं ग्रामम् / गम्यते मैत्रो ग्रामं चैत्रेण / [आस्ते मैत्रः तं चैत्रः प्रयुङ्क्ते] आसयति मासं मैत्रम् / आस्यते मासं मैत्रः / बोधाहारार्थशब्दकर्मणां तु णिगन्तानामुभयत्र-बोधयति शिष्यं धर्म गुरुः / बोध्यते शिष्यो धर्मम् / बोध्यते शिष्यं धर्मों गुरुणा / भोजयत्यतिथिमोदनम् / भोज्यतेऽतिथिरोदनम् / भोज्यतेऽतिथिमोदनः / पाठयति शिष्यं ग्रन्थ गुरुः / पाम्यते शिष्यो ग्रन्थम् / पाम्यते शिष्यं ग्रन्थो गुरुणा इत्यादि // 3 // ___ अ० यत् असत् जायते जन्मना वा प्रकाश्यते तन्निवर्यं कर्म उच्यते-घटं करोति पुत्रं प्रसूते / तथा विकार्यते - प्रकृत्युच्छेदेन गुणान्तराधानेन वा यत् विकृतिमापद्यते अन्यथात्वं लभ्यते तद्विकार्यं कर्मकाष्ठं दहति / यत्र तु क्रियाकृतो विशेषो नास्ति तत्प्राप्यं कर्म-आदित्यं पश्यति / यत् स्वरुच्याऽवाप्तुं क्रिया आरभ्यते तत् इष्टं कर्म-कलामीहते। यच्च द्विष्टं प्राप्यते तत् अनिष्टम्-अहिं लश्यति / विषं भक्षयति / यत्र च नेच्छा न च द्वेषः तत् अनुभयम्ग्रामं गच्छन् वृक्षमूलान्युपसर्पति / समीपेन यातीत्यर्थः / वृक्षच्छायां लक्ष्यति / दुह्यर्थ-भिक्षार्थ-रुध्यर्थ-प्रच्छयर्थचिगर्थ-ब्रूगर्थ-शास्वर्थधातुप्रयोगे / याचि-जयति-दण्डि-कृषि-कृग्-मन्थ्-नीह-वह-मुष्-ग्रह-पचि-धातुप्रयोगे प्रधानं कर्म भवति / यथाक्रमं दुहादीनां धातूनां प्रयोगान् दर्शयति / गां दोग्धि पयः इत्यादि / / गां दोन्धि पयः / गां स्रावयति पयः / गां क्षारयति पयः / इत्यादिषु कर्मद्वयं द्वयम् / परं एक प्रधानम् / यदर्थं गाढं प्रयत्नः तत् प्रधानं मुख्यं कर्म / पयोऽर्थे दोहनम् अतः पयः प्रधानं कर्म / गो इति अप्रधानं गौणं कर्म / यत् स्वार्थाय अन्यत् क्रियया व्याप्यते तत् गो इति अप्रधानम् / एवमग्रेऽपि स्वबुद्ध्या युक्त्या प्रधानाप्रधानकर्मभावना विमर्शनीया / अथवा प्रधानाप्रधानकर्मविवक्षाऽग्रेतनप्रयोगेषु गौर्दुह्यते पयो मैत्रेण इत्यादिषु आचार्यो दर्शयिष्यति, तया युक्त्या प्रधानाप्रधानकर्मद्वयविचारो ज्ञातव्यः / 'इं दुं दुं शुं सुं गतौ' सु / सवन्ती गां प्रयुङ्क्ते / अथवा स्रवत् पयः प्रयुङ्क्ते / पौरवमित्यत्र 'पुरुमगधकलिङ्गसूरमसद्विस्वरादण' (6 / 1 / 116) इति अण् / 'भिक्षि याच्ञायाम्' 'मृगणि अन्वेषणे' / व्रजं सेवमानां गां सेवते गोपाल इत्यर्थः / 'चिंग्ट् चयने' 'शासूकि अनुशिष्टौ' / याचिरिहानुनयार्थः / तेन भिक्षार्थाद्भेदः / / मोचयति / / तन्दुलान् विक्लेदयन् विकुर्वन् ओदनं करोतीत्यर्थः / / पुनरप्रधानं कर्म प्रकारान्तरेण दर्शयति। दुहादीनामित्यादि / कर्मजः प्रत्ययः क्यः / आत्मनेपदं वा यत्र भवति / तत्र क्य-आत्मनेपदादिभिः कर्म उक्तम् / उक्ते सति प्रथमा भवति / 'उक्ते सर्वत्र प्रथमा इति वचनात्' यत् उक्तं कर्म तदप्रधानं कर्म ज्ञातव्यम् / गो इति अप्रधानं कर्म / पय इति प्रधानं कर्म / एवमग्रेऽपि यत्र यत्र प्रथमाविभक्तिः तत् तत् अप्रधानं कर्म इत्यर्थः / गौटुंह्यते, गौर्दुग्धा, गौर्दोह्या पयो मैत्रेण इति प्रयोगाः कर्मजप्रत्यये ज्ञातव्याः / 'शासूकि अनुशिष्टौ' शास् ते 'क्यः शिति' (3 / 4 / 70) / क्यः / 'इसासः शासोऽङ् व्यञ्जने' (4 / 4 / 118) इति इसादेशः / नीयते ग्राममजा, नीता ग्राममजा, नेतव्या ग्राममजा इत्यपि प्रयोगाः कर्मजे प्रत्यये ज्ञातव्याः / अकर्मणां अस्त्यादीनां णिगन्तानामित्यर्थः; सेट्क्तयोः णिलुक् गम्यते / गमिता गम्यो वा मैत्रो ग्रामं चैत्रेण इति कर्मजप्रत्यये ज्ञातव्याः / उभयत्र इति कोऽर्थः ? प्रधाने कर्मणि वाच्ये कर्मजः प्रत्ययो भवति / अप्रधानेऽपि कर्मणि वाच्ये कर्मजः प्रत्ययो भवति / कर्मजे प्रत्यये