________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः उक्तं कर्म / उक्ते प्रथमा भवति / यत्र प्रथमा तत् अप्रधानं गौणं कर्म उच्यते इति भावः // बोधयति / भोजयति / पाठयतीति प्रयोगे णिगन्तेन कर्मद्वयं दर्शयित्वा बोध्यते भोज्यते पाठ्यते इति विधिना कर्मजप्रत्ययेन उक्तं कर्म दर्शयति // 3 // वाऽकर्मणामणिक्कर्ता णौ // 2 // 2 // 4 // ___ अविवक्षितकर्मणां धातूनां प्रयोगे णिगः प्राग् यः कर्ता स णौ णिगि सति कर्मसंज्ञो वा स्यात् / पचति चैत्रः / [पाचयति चैत्रः पक्षे] / पाचयति चैत्रेण मैत्रः [मैत्रपुरुष चैत्रपुरुषकनी पचावइ इसइ अर्थि उक्ति जाणिवी] / एवं लेखयति मैत्रं मैत्रेण वा / गत्यर्थादीनां तु परत्वान्नित्य एव विधिः // 4 // अ० अविवक्षितकर्मणामित्यादि / उत्तरसूत्रे नित्याकर्मणामिति ग्रहणात् इह वाऽकर्मणामिति सूत्रे पचत्यादिधातवः सकर्मका एव / परं कर्म न विवक्ष्यते इति अविवक्षितकर्मणां धातूनां प्रयोगे इति प्रोक्तम् / पचिधातुः लिखधातुः सकर्मक एवास्ति / किं पचति / किं पाचयति / किं लिखति / किं लेखयति इत्यादि कर्म न विवक्ष्यते / / पचति चैत्रः / पचन्तं चैत्रं मैत्रः प्रयुङ्क्ते इति हेत्वर्थे णिग् प्रत्ययः / चैत्रः कर्ता आसीत् परं णिगि कृते चैत्रमिति कर्मपदं जातम् / किं पचति किं लिखति इति कर्मव्याप्यं न विवक्षितम् / इयता कृत्वा अविवक्षितकर्मणां सूत्रार्थे उक्तम् / / 4 / / गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम् // 2 // 25 // गत्यर्थ-बोधाभं-आहारार्थानां शब्दकर्मणां नित्याकर्मणां च धातूनां नीखादिअदिह्वयतिशब्दायतिक्रन्दवर्जितानामणिगवस्थायां [णिगः पूर्व] यः कर्ता स णौ सति [णिगि सति] कर्मसंज्ञः स्यात् / गत्यर्थ. गच्छति मैत्रो ग्रामम् / गमयति मैत्रं ग्रामं चैत्रः / गत्यर्थादन्यत्र स्त्रियं गमयति मैत्रेण चैत्रः [प्रयोज्यकर्तरि तृतीयैव] / भजनार्थोऽत्र [सेवनार्थः] गमिः // सामान्यबोधार्थ. बुध्यते शिष्यो धर्मम् / बोधयति गुरुः शिष्यं धर्मम् / एवं जानाति ज्ञापयति उपलम्भयति ['लभः' (4 / 4 / 103) इति सूत्रेण नोऽन्तः] अवगमयतीत्यादिविशेषबोधार्थं पश्यतीत्यादि // आहारार्थ. भुङ्क्ते बटुरोदनम् / भोजयति बटुमोदनम् / एवं अनाति बटुर्भक्तम् / आशयति बटुं भक्तम् // शब्दक्रिया. [शब्दकर्म] जल्पति मैत्रौ द्रव्यम्, जल्पयति मैत्रं द्रव्यम् / एवं [आलपति मित्रं मैत्रः] आलापयंति [सम्भाषते मैत्रो भार्याम्] सम्भाषयति मैत्रं भार्याम् // ____ शब्दव्याप्य. शृणोति शब्द मैत्रः / श्रावयति शब्दं मैत्रम् / अधीते बटुर्वेदम् / अध्यापयति बटुं वेदम्। एवं जल्पयति / [मित्रं वाक्यम् ] विज्ञापयति गुरुं वाक्यम् / उपलम्भयति [शिष्यं विद्याम्] // नित्याकर्मक. आस्ते मैत्रः / आसयति मैत्रं चैत्रः / एवं शेते शाययति [शेते मैत्रः शाययति मैत्रं चैत्रः] // कालाध्वभावदेशैश्च सर्वेऽपि धातवः सकर्मका एवेत्यन्यकर्मापेक्षया नित्याकर्मका ज्ञातव्याः // गत्यर्थादीनामिति किम् ? पचत्योदनं चैत्रः। पाचयत्योदनं चैत्रेण मैत्रः [प्रयोज्यकर्त्तरि तृतीयाऽत्र भवति] / अणिकर्तेत्येव-गमयति चैत्रो मैत्रम्, तं अपरः [जिनदत्तादिः] प्रयुङ्क्ते / गमयति चैत्रेण मैत्रं जिनदत्तः / नयत्यादिवर्जनं किम् ? नयति भारं चैत्रः / नाययति भारं चैत्रेण / एवं खादयति / आदयति ओदनं मैत्रेण / ह्वाययति / शब्दाययति चैत्रं मैत्रेण / एवं क्रन्दयति // 5 // अ० गतीत्यादि / अर्थशब्दः गत्यादिभिः सह सम्बध्यते / गत्यर्थ-बोधार्थ-आहारार्थ / गतिश्च बोधश्च आहारश्च गतिबोधाहाराः, तेषामर्थो येषाम् / शब्दः कर्म येषां ते शब्दकर्माणः / नित्यं अकर्म येषां ते नित्याकर्माणः /