________________ 106 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते गत्यर्थाश्च बोधार्थाश्च आहारार्थाश्च शब्दकर्माणश्च नित्याकर्माणश्च तेषाम् / नीश्च खादिश्च अदिश्च ह्वाश्च शब्दायश्च क्रन्दश्च ते नीखाद्यदिह्वाशब्दायक्रन्दाः / अनीखाद्येति / / गतिः देशान्तरप्राप्तिः / देशान्तरप्राप्तिरूपा एव गत्यर्था इह गृह्यन्ते / बोधो ज्ञानमात्रं सामान्यज्ञानविशेषज्ञानवृत्तयो बोधार्था धातवो ज्ञातव्याः / कर्म क्रिया एकार्थाः / शब्दः कर्म, शब्दो व्याप्यं येषां ते शब्दकर्मधातव उच्यन्ते / न कर्म येषां ते अकर्माणः / नित्यं सदा अकर्माणःयेषां धातूनां प्रायः कथमपि कर्म न भवति ते धातवो नित्याकर्माण उच्यन्ते / णिगि सति नित्याकर्माणोऽपि धातवः / कर्मत्वं आश्रयन्ति तदेव सूत्रार्थे दर्शयति-अणिगवस्थायामित्यादि / अत्र नित्यग्रहणं पूर्वसूत्रे अविवक्षितकर्मकपरिग्रहार्थम् / नित्यग्रहणं विना अकर्मकाणामित्युक्ते विभागो न ज्ञायत इति भावः / / ___ यत्र गमिर्देशान्तरप्राप्तौ न वर्तते तत्र स्त्रियं गमयतीति प्रयोगः / अत्र मैत्रं न कर्म जातम् / चेत्तु पुरुषु कन्हा स्त्री गमावइ कोऽर्थः ? मैत्रकन्हा स्त्री रहइ सेवावइ इत्यर्थः / जानातेः परे णिगि कृते ज्ञापयति इति भवति / ज्ञापयति गुरुः शिष्यं धर्मम् / विशेषबोधे विशेषज्ञाने प्रयोगाः- पश्यति रूपतर्कः कार्षापणम्, वणिग् दर्शयति रूपतर्क कार्षापणम् / एवं जिघ्रति मैत्र उत्पलम् / घ्रापयति मैत्रमुत्पलम् / स्पृशति मैत्रो वस्त्रम् / स्पर्शयति मैत्रं वस्त्रम्। शृणोति शिष्यो धर्मम् / श्रावयति शिष्यं धर्मम् / स्मरति शिष्यः शास्त्रम् / स्मारयति शिष्यं शास्त्रम् / अधीते शिष्य आगमम् / अध्यापयति शिष्यमागममिति / नित्यग्रहणं सूत्रे यत्कृतं तत् पूर्वसूत्रे वाऽकर्मणामित्यत्र अविवक्षितकर्मकपरिग्रहार्थमिति भावः / ह्वाययति / ‘ढेङ् स्पर्धायां वाचि' ह्वे / 'आत्सन्ध्यक्षरस्य' (4 / 2 / 1) ह्वा। ह्वान्तं प्रयुङ्क्ते / णिग् / 'पाशाच्छासावेव्याह्वो यः' (4 / 2 / 20) इति सूत्रेण योऽन्तः / वर्तमानातिव् शव् गुणः / . शब्दाययति / शब्द / शब्दं करोति / 'शब्दादेः कृतौ वा' (3 / 4 / 35) इति क्यङ् / ततः शब्दायते इति क्विप् / पुनः शब्दायं करोतीति 'णिज् बहुलम्०' (3 / 4 / 42) णिच् / / 5 / / भक्षेहिंसायाम् // 2 / 2 / 6 // +भक्षेहिँसार्थस्य अणिग् कर्ता णौ सति कर्मसंज्ञः स्यात् / भक्षयति सस्यं बलीवर्दान्मैत्रः / उक्ते च कर्मणि-भक्ष्यन्ते यवं बलीवर्दाः / भक्ष्यते यवो बलीवर्दान् मैत्रेण इति वा / हिंसायामिति किम् ? भक्षयति पिण्डी शिशुना / भक्षयति राजद्रव्यं नियुक्तेन मैत्रः / अत्र भक्षिराक्रोशे // 6 // अ० +स्वार्थिकण्यन्तस्य / वनस्पतीनां प्रसवप्ररोहवृद्धयादिमत्त्वेन चेतनत्वात्तद्विशेषस्य सस्यस्य प्राणवियोगस्तद्भक्षणात् स्वाम्युपाघातो वा अत्र हिंसेति भक्षेहिँसार्थता / 'भक्षण अंदने' भक्ष् / 'चुरादिभ्यो णिच्' (3 / 4 / 17) भक्षयन्ति सस्यं बलीवर्दाः / बलीवर्दान् मैत्रः प्रयुङ्क्ते 'प्रयोक्तृव्यापारे' (3 / 4 / 20) भक्षयति पिण्डी शिशुः / तं शिशु पिता प्रयुङ्क्ते / णिग् / / भक्षयति राजद्रव्यं नियुक्तोऽधिकारी / तं भक्षयन्तं नियुक्तं मैत्रः प्रयुङ्क्ते / णिग् // 6 // वहेः प्रवेयः // 2 // 2 // 7 // वहेरणिकर्ता प्रवेयो णौ सति कर्मसंज्ञः स्यात् / वाहयति भारं बलीवान् नियन्ता / वाहयति भारस्य ['कर्मणि कृतः' (2 / 2 / 83) इत्यनेन षष्ठी] बहीवन, वाहयिता बलीव नां भारम् / वाह्यन्ते भारं बलीवर्दाः / प्रवेय इति किम् ? वाहयति भारं मैत्रेण / अत्र मैत्रो बलीव दिवत् न प्रवेयः [न नोदनीयः // 7 // ___ अ० प्रपूर्व 'अज क्षेपणे च' अज् / प्रवीयते प्राजतिक्रियया व्याप्यते यः स प्रवेयः / 'अघञ्क्यबलच्यजेवीं' (4 / 4 / 2) इति सूत्रेण अधातुस्थाने वी आदेशः / तदनन्तरं ‘य एच्चातः' (5 / 1 / 28) इति यप्रत्ययः / 'नामिनो