________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः गुणोऽङिति' (4 / 3 / 1) गुणः / वहन्ति. वहन्तीति कोऽर्थः ? देशान्तरं प्राप्नुवन्तीत्यर्थः / भारं बलीवर्दाः / बलीवर्दान् भारं वहतः / सारथिनियन्ता प्रयुङ्क्ते / णिग् / वाहयति / इति सिद्धम् / / 7 / / हक्रोर्नवा // 2 // 28 // ____ हरतेः करोतेश्चाणिकर्ता णौ कर्मसंज्ञो वा भवति / प्राप्ते चाप्राप्ते चायं विकल्पः / प्राप्ते-विहारयति देशमाचार्यमाचार्येण वा। आहारयत्योदनं बालकं बालकेन वा। विकारयति सैन्धवान् सैन्धवैर्वा / विकारयति स्वरं क्रोष्टारं क्रोष्टुना वा / अप्राप्ते-हारयति द्रव्यं मैत्रं मैत्रेण वा / कारयति कटं चैत्रं चैत्रेण वा // 8 // अ० विहरति देशमाचार्यः / आचार्य विहरन्तं सङ्घः प्रयुङ्क्ते 'अनतोऽन्तोऽदात्मने' (4 / 2 / 114) अत् / विकुर्वते सैन्धवाः / सैन्धवान् विकुर्वतो मैत्रः प्रयुङ्क्ते / विकुरुते स्वरं क्रोष्टा / तं प्रयुक्ते मैत्रः / विहारयति देशम् / आहारयत्योदनं० / विकारयति सैन्धवान् / विकारयति स्वरः क्रोष्टारम् / अत्र यथाक्रमं गत्यर्थ-आहारार्थनित्याकर्मक-शब्दकर्मकत्वेन पूर्वसूत्रेण प्राप्तिः / प्राप्तौ सत्यां 'हक्रोर्नवा' इत्यनेन विकल्पः कृतः कर्मणः / विहारयति देशमाचार्य-विहारयति देशमाचार्येण सङ्घ इत्यादि / हरति द्रव्यं मैत्रः / हरन्तं मैत्रं चैत्रः प्रयुङ्क्ते / करोति कटं चैत्रः / तं मैत्रः प्रयुङ्क्ते / हारयति द्रव्यं मैत्रम् / पक्षे हारयति द्रव्यं मैत्रेण / कारयति कटं चैत्रः / कारयति कटं चैत्रेण / हारयतीत्यत्र हरतिश्चौर्यार्थो न प्रापणार्थः इति अप्राप्तिः / यदि प्रापणार्थो विवक्ष्यते तदा प्राप्ते विभाषा / तथा कारयिता घटस्य देवदत्तम् / कारयिता घटस्य देवदत्तेन / कारयिता घटं देवदत्तस्य / कारयिता घटं देवदत्तेन / अत्र कर्मणि षष्ठी ‘कर्मणि कृतः' (2 / 2 / 83) इत्यनेन / 'हक्रोर्नवा' इत्यत्र विशेषोऽयम् // 8 // दृश्यभिवदोरात्मने // 2 / 2 / 9 // दृशेरभिपूर्वस्य वदतेश्चात्मनेपदविषयेऽणिकर्ता णौ कर्मसंज्ञो वा स्यात् / दर्शयते राजा भृत्यान् भृत्यैर्वा / अभिवादयते गुरुः शिष्यं शिष्येण वा / अथवा अभिवादयते गुरुं शिष्यं शिष्येण वा मैत्रः / एवं दर्शयमानो राजा भृत्यान् भृत्यैर्वा / अभिवादयमानो गुरुः शिष्यं शिष्येण वा / आत्मने इति किम् ? दर्शयति रूपतक कार्षापणम् / अभिवादयति गुरुं शिष्येण // 9 // अ० अभिपूर्व 'वद व्यक्तायां वाचि' वदधातुः / आत्मनेपदसप्तमीडी / सूत्रत्वात् पदेन सार्द्धं विभक्तेर्लोपः / दृशेर्बोधार्थत्वेन नित्यं कर्मत्वे प्राप्ते अभिवदतेस्तु नित्यं अप्राप्ते 'दृश्यभिवदोरात्मने' इति सूत्रेण विकल्पः कृतः / यदाभिवदिधातुः प्रणामार्थो न विवक्ष्यते किन्तु शब्दक्रियो विवक्ष्यते तदाभिवादयते गुरुं शिष्यं मैत्रः इति नित्यं कर्मत्वे प्राप्ते विभाषा ज्ञातव्या / / अभिपूर्ववदव्यक्तेति धातुना सूरिरभिवादयते गुरुः शिष्यं शिष्येणेति साधयति / परं णिजन्तस्यापि वर्णिगि कर्मत्वमिच्छन्त्येके / तथाहि- ‘वदिण् भाषणे' इति युजादौ चुरादिधातुः / 'चुरादिभ्यो णिच्' (3 / 4 / 17) / अभिवादयति आशिषं प्रयुङ्क्ते गुरुः शिष्यं तं गुरुमभिवादयन्तं शिष्यः प्रयुङ्क्ते / अभिवादयते गुरुं शिष्यः गुरुणा वा / शिष्य आत्मनि आशिषं प्रयोजयतीत्यर्थः / पश्यन्ति भृत्या राजानम् / तान् भृत्यान् राजा एवानुकूलाचरणेन प्रयुङ्क्ते णिग् / दर्शयते राजा भृत्यान् / दर्शयते राजा भृत्यैः; अत्र ‘अणिकर्मणिक्कतृकाण्णिगोऽस्मृतौ' (3 / 3 / 88) इत्यात्मनेपदम् / अभिवदति कोऽर्थः ? कायेन प्रणमति गुरु शिष्यः / तं शिष्यं गुरुः प्रयुङ्क्ते / अभिवदिः प्रणामार्थे / कायेन प्रणामोऽभिवाद उच्यते / अत्र दर्शयते दर्शमानः 'शत्रानशावेष्यति०'