________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते (5 / 2 / 20) इति आनश्प्रत्ययः / 'अतो म आने' (4|4|114) मोऽन्तः / / पश्यति रूपतर्कम् कार्षापणं तमन्यः प्रयुङ्क्ते // 9 // नाथः // 2 // 2 // 10 // ___ अणिकर्ता णाविति निवृत्तं पृथग्योगात् / आत्मनेपदविषयस्य नायतेाप्यं कर्म वा स्यात् / आत्मनेपदविषयत्वं चास्याशिष्येवेति तत्रैवायं विधिः। सर्पिषो नाथते / सर्पि थते / सर्पिर्मे भूयादित्याशास्त [आशंसां करोति] इत्यर्थः / सर्पिषो नाथमानः [कर्मपक्षे सम्बन्धे षष्ठी सर्वत्र भवति] सर्पि थमानः / सर्पिषो नाथ्यते सर्पिर्नाभ्यते / आत्मन इत्येव / पुत्रमुपनाथति [उपयाचते प्रार्थयते] पाठाय // 10 // अ० अस्य नाथतेः 'आशिषि नाथः' (3 / 3 / 36) इत्यात्मनेपदत्वम् / तत्रैव आशिष्येवार्थे कर्मत्वविकल्पः न याचनार्थे // 10 // . स्मृत्यर्थदयेशः // 2 // 2 // 11 // स्मरणार्थानां दयतेरीशश्च व्याप्यं कर्म वा स्यात् / मातुः स्मरति मातरं स्मरति / मातुः 'स्मयते माता स्मर्यते / मातुः स्मर्तव्यम् माता स्मर्तव्या [मातुः स्मृतं] इत्यादि / एवं मातुरध्येति मातरमध्येति / मातुर्ध्यायति मातरं ध्यायति इत्यादि / सर्पिषो दयते सर्पिदयते / लोकानामीष्टे लोकानीष्टे / व्याप्यमित्येव / कथासु स्मरति / गुणैः स्मरति // 11 // अ० १“क्ययङाशीर्ये' (4 / 3 / 10) इति गुणः // 11 // कृगः प्रतियत्ने // 2 // 2 // 12 // पुनर्यत्नः प्रतियत्नः। सतो गुणाधानाय [सतो विद्यमानार्थस्य गुणान्तरकरणार्थः] / अपायपरिहाराय वा अशुभ उत्तारणार्थ वा समीहा प्रतियत्नवृत्तेः करोतेाप्यं कर्म वा स्यात् / एधोदकस्योपस्कुरुते / एधोदकमुपस्कुरुते / शस्त्रपत्रस्योपस्कुरुते / शस्त्रपत्रमुपस्कुरुते // 12 // ____ अ० अथवा प्रतियत्नस्यायमर्थः / सतोऽर्थस्य सम्बन्धाय वृद्धये तादवस्थ्याय वा समीहा / कोऽर्थः ? सतोऽसम्बद्धस्य सम्बन्धाय लाभाय, लब्धस्य वा वृद्धये आधिक्याय, वृद्धस्य वा तादवस्थ्याय / सा पूर्वावस्था / तदवस्थं वस्तु तस्य भावः / अपायपरिहारेणाभिमतावस्थासंरक्षणं प्रतियत्नमुच्यते / / उपस्कुरुतेऽत्र ‘उपाश्रूषासमवायप्रतियत्नविकारवाक्याध्याहारे' (4 / 4 / 92) इति सूत्रेण स्सट् / / एधांश्च उदकानि च एधोदकं 'अप्राणिपश्वादेः' (3 / 1 / 136) इति एकत्वं तत्र प्रतिययते / यत्नं करोतीत्यर्थः / देशाक (?) केशादेः सौगन्ध्यादिना / वृक्षादेः सेकादिना / कुङ्कुमादेः स्नेहनिमीलनादिना // 12 // रुजार्थस्याज्वरिसन्तापेर्भावे कर्तरि // 2 // 2 // 13 // रुजा पीडा / तदर्थस्य धातोज़रिसन्तापिवर्जितस्य व्याप्यं वा कर्म स्यात् / भावे कर्तरि भावश्चेत् रुजार्थस्य कर्ता भवति / चौरस्य रुजति रोगः। चौरं रुजति रोगः / अपथ्याशिनां रुज्यते रोगेण, अपथ्याशिनो रुज्यन्ते रोगेण / चौरस्यामयति / चौरमामयति रोगः इत्यादि / रुजार्थस्येति किम् ? 'एति जीवन्तमानन्दः' / वरिसन्तापिवर्जनं किम् ? आयूनं ज्वरयति / अत्याशिनं सन्तापयति / कर्तरीति किम् ? चैत्र रुजत्यत्यशने वातः / भाव इति किम् ? चैत्रं रुजति श्लेष्मा / अत्र श्लेष्मा द्रव्यं न भावः / रोगो व्याधिरामयः शिरोऽतिरित्यादयो