________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः भावरूपाः कंतर इति // 13 // ___अ० अपथ्यं 'अशश् भोजने' अश् / अपथ्यमश्नोत्येवंशीलाः अपथ्याशिनः / 'अजातेः शीले' (5 / 1 / 154) णिन् / 'अमण रोगे' 'चुरादिभ्यो णिच्' (3 / 4 / 17) / 'इंण्क् गतौ' वर्तमानातिव् / गुणः / एति-‘एति जीवन्तमानन्दो नरं वर्षशतादपि / कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे // ' आङ् / 'दिवूच क्रीडने' दिव् / आदीव्यते स्म / 'गत्यर्थाकर्मक०' (5 / 1 / 11) इति क्तः / 'पूदिव्यञ्चे शाङ्तानपादाने' (4 / 2 / 72) इत्यनेन तकारस्य नकारः। 'अनुनासिके च च्छ्ः शूट्' (4 / 1 / 108) इति वस्य ऊकारः / आयून औदरिकः / बहुजुताजीत्यर्थः (बहुभोजीत्यर्थे लोकभाषाशब्दः सम्भाव्यते) / अत्यशनशब्दो भावप्रत्ययान्तोऽस्ति परं न कर्त्ता किंतु अधिकरणे यस्तु वातः कर्ता स द्रव्यं न भावः // 13 // जासनाटक्राथपिषो हिंसायाम् // 2 // 2 // 14 // एषां हिंसायां वर्तमानानां व्याप्यं वा कर्म भवति / चौरस्योज्जासयति चौरमुज्जासयति / चौरस्योज्जा-1 स्यते चौर उज्जास्यते चैत्रेण / चौरस्योन्नाटयति चौरमुन्नाटयति चौरस्योत्क्राथयति चौरमुत्कथयति / चौरस्य / पिनष्टि / चौरं पिनष्टि // जासनाटकाथानामाकारोपान्त्यनिर्देशो यत्राकारश्रुतिस्तत्र यथास्यादित्येवमर्थम् / तेनेह भवति-दस्युमुदजीजसत् / अनीनटत् / उदचिक्रथत् // हिंसायामिति किम् ? चौरं बन्धनाज्जासयति / नटं नाटयति // अभावकर्तृकार्थं वचनम् // 14 // ___ अ० चौरस्योज्जासयतीत्यत्र ‘ब्रूसपिसजसबर्हण हिंसायाम्' 'जसण् ताडने' इति चुरादिपठितो जस् इह गृह्यते न 'जसूच मोक्षणे' इति देवादिकः / तस्य देवादिकजसोऽहिंसार्थत्वात् / चौरस्योन्नाटयतीत्यत्रापि 'नटण् अवस्यन्दने' इत्ययं चुरादिपठितो नट् गृह्यते न तु ‘णट नृतौ' इति भ्वादिः / तस्याहिंसार्थत्वात् / उदजीजसत् / 'ब्रूसपिसजसबर्हण हिंसायाम्' जस् / उत्पूर्वं / णिच् / 'ञ्णिति' (4 / 3 / 50) वृद्धिः / अद्यतनीदि ‘णिश्रिद्रुसुकमःकर्तरि ङः' (3 / 4 / 58) इत्यनेनाङ्प्रत्ययः / णिचोऽग्रे ‘उपान्त्यस्यासमानलोपिशास्वृदितो डे' (4 / 2 / 35) इति सूत्रेण धातोर्हस्वः ततो द्विर्वचनश्च इति द्वित्वम् / 'व्यञ्जनस्यानादेर्लुक्' (4 / 1 / 44) 'असमानलोपे सन्वल्लघुनि डे' (4 / 1 / 63) इति सूत्रेण द्वित्वे सति पूर्वस्य इकारः / ‘लघोर्दीघोऽस्वरादेः' (4 / 1 / 64) द्वित्वे पूर्वस्य इकारस्य ईकारः / ‘णेरनिटि' (4 / 3 / 83) णिग्लोपः / अट् / उदजीजसत् / / एवं अनीनटत् / उदचिक्रथत् / नवरं उदचिक्रथत् इत्यत्र 'लघोदीर्घोऽस्वरादेः' (4 / 1 / 64) इति ई न क्रियते / अप्राप्तेः / चौरं रिपुं वा // मोचयन्तीत्यर्थः / नर्तयति // चौरस्योत्क्राथयतीत्यत्रापि 'क्रय अर्दिण् हिंसायाम्' इत्ययं धातुश्चरादौ यौजादिको न गृह्यते / किंतु 'स्नथ-क्नथक्रथ-क्लथ हिंसार्थाः' इति घटादिक्रथ इह गृह्यते / बृहद्वृत्तौ 'जासनाटकाथानामाकारोपान्त्यनिर्देशो यत्राकारश्रुतिस्तंत्र यथास्यादित्येवमर्थः कृतः / अत एव क्राथेः कर्मप्रतिषेधपक्षे ह्रस्वत्वाभावः / यथा चौरस्य क्राथयति कर्मत्वे च ह्रस्वत्वमेव / यथा चौरमुत्क्रथयतीति / ' उक्तमस्ति अतः क्राथो घटादिः / न तु चुरादिः / उत्क्रथन्तं प्रयुङ्क्ते णिच् ‘घटादेहस्वो, दीर्घस्तु वा ञिणम्परे' (4 / 2 / 24) इति ह्रस्वः // 14 // निप्रेभ्यो नः // 22 // 15 // [हन् षष्ठी जस्] * निप्राभ्यां परस्य हिंसायां हन्तेाप्यं वा कर्म भवति / चौरस्य निप्रहन्ति / चौरं निप्रहन्ति / चौरस्य चौरं वा निहन्ति प्रहन्ति वा / प्रणिहन्ति // चौराणां निप्रहन्यते / चौरा निप्रहण्यन्ते राज्ञा / निप्रेभ्य इति