________________ 110 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते / किम् ? चौरं हन्ति / आहन्ति वा // 15 // ____ अ० निप्र० / अत्र द्विवचनप्राप्तौ यद्हुवचनं तत् निप्रयोः समस्तव्यस्तविपर्यस्तसङ्ग्रहार्थम् / निप्रौ द्वावपि मिलितौ समस्त इति उच्यते / निः पृथक् प्रः पृथक् इति व्यस्य इत्युच्यते / पूर्वं प्रः पश्चात् निः इति विपरीतत्वं विपर्यस्तमित्युच्यते / उदाहरणे तथा दर्शयिष्यति सूरिः / प्रणिहन्तीत्यत्र 'नेदापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्पतिहन्तिदेग्धौ' (2 / 3 / 79) इत्यनेन नेर्णकारः // निप्रहण्यते अत्र 'हनः' (2 / 3 / 82) इति सूत्रेण हनो नकारस्य णकारः // 15 / / विनिमेयद्यूतपणं पणव्यवहोः // 2 // 2 // 16 // विनिमेयः क्रेयविक्रेयोऽर्थः / यूतपणो यूतजेयं (धनम्) / पणतेय॑वपूर्वस्य च हरतेाप्यौ विनिमेयद्यू. तपणौ कर्मसंज्ञो वा भवतः / शतस्य पणायति, शतं पणायति / दशानां व्यवहरति, दश व्यवहरति / विनिमेयद्यूतपणमिति किम् ? साधून पणायति-स्तौतित्यर्थः / शलाकां व्यवहरति विगणयन् गोपायतीत्यर्थः // 16 // अ० 'पणि व्यवहारस्तुत्योः' पण् / 'गुपौधूपविच्छिपणिपनेरायः' (3 / 4 / 1) इति आयप्रत्ययः / क्रय विक्रये घूतपणत्वे वा / तद्वस्तु धनादिकं नियुक्ते इत्युदाहरणार्थः // 16 // उपसगोद्दिवः // 2 // 2 // 17 // उपसर्गात्परस्य दिवो व्याप्यो विनिमेययूतपणौ कर्म वा भवतः / शतस्य प्रदीव्यति / शतं प्रदीन्यति ['भ्वादेनोमिनो दीर्घोऊळअने' (2 / 1 / 63) इति दीर्घः] / शतस्य शतं वा प्रदीन्यते इत्यादि // 17 // अ० आदिशब्दात् शतस्य प्रद्यूतम् / शतं प्रद्यूतम् / शतस्य प्रदेवितव्यम्, शतस्य शतं वा सुप्रदेयम् // 17 // न // 2 // 2 // 18 // उपसर्गरहितदिवो व्याप्यौ विनिमेययूतपणौ कर्म न स्याताम् / शतस्य दीन्यति / निषिद्धे च कर्मणि षष्ठयेव / शतस्य दीन्यते इत्यादि / विनिमेययूतपणमित्येव / जिनं दीव्यति / भूमिं दीव्यति / यूतं दीव्यति। अक्षान् दीव्यति / अत्र क्रिया तत्साधनं च व्याप्यं न तु पणः // 18 // ___ अ० पूर्वेण उपसर्गपूर्वकस्य दिवो विकल्पविधानादत्र सूत्रार्थेऽनुपसर्ग इति प्रतिषेध उक्तः / आदिशब्दात् सहस्रस्य द्यूतं शतस्य देवितव्यम् दीव्यतेस्म द्यूतम् ‘क्लीबे क्तः' (5 / 3 / 123) 'अनुनासिके च०' (4 / 1 / 108) इति अट्। शतस्य देवितव्यम् / दीव्यते 'तव्यानीयौ' (5 / 1 / 27) / शतस्य सुदेवमत्र / भावे आत्मनेपदक्तकृत्यखलः सिद्धाः / सुखेन दीव्यते सुदेवं 'दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल्' (5 / 3 / 139) तथा सुदेवमित्यत्र सु इति निपातान्तरम्, नोपसर्गः, अत एक सुस्थितं दुःस्थितमित्यादौ 'स्थासेनि०' (2 / 3 / 40) इत्यनेन षत्वं न भवति / यथा च सु इति निपातान्तरं नोपसर्गः; तथा दुर् इत्यपि निपातान्तरं नोपसर्गः / जिनं दीव्यति-जिनं स्तौतीत्यर्थः / भूमि दीव्यति-समर्थेन सह सन्धिं कृत्वाऽन्येषां हीनानां भूमिं विजिगीषते इत्यर्थः / अत्रेत्यादि-यूतं दीव्यति, अत्र द्यूतरूपा क्रिया तत्साधनं अक्षा इत्यर्थः / भावे आत्मनेपदम् // 18|| करणं च // 2 // 2 // 19 // दीन्यतेः करणं कर्मसंज्ञं चकारात् करणसंज्ञं च भवति [कर्मकरणसंज्ञे युगपदाश्रयतीत्यर्थः] अक्षान् दीव्यति।