________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 111 अक्षाणां देवनम् [कर्मणि च “कर्मणि कृतः" इत्यनेन षष्ठी] अक्षा दीन्यन्ते / अक्षा देवितव्याः [दीव्यन्ते देवितव्याः] अक्षाः सुदेवाः / अक्षदेवः [अक्षान् दीव्यतीति 'कर्मणोऽण्' (5 / 1 / 72)] अक्षा द्यूताश्चैत्रेण / एषु कर्मत्वे द्वितीयाषष्ठी-आत्मनेपद-तव्य-खल्-अण्-क्तप्रत्ययास्तनिमित्ताः [कर्मनिमित्ताः] सिद्धाः / अझैर्दीव्यति इत्यादि पूर्ववत्। करणमिति किम् ? गृहे दीव्यति // 19 // मत्र: BHILali/ ____ अ० अक्षा दीव्यन्ते इत्यादि उदाहरणेषु आत्मनेपदक्यादिप्रत्ययैः कर्म उक्तम् / उक्तकर्मत्वात् प्रथमा / दीव्यन्ते स्म द्यूताः / 'गत्यर्थाकर्मक०' (5 / 1 / 11) इति क्तः / सुखेन दीव्यन्ते सुदेवाः / 'दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल्' (5 / 3 / 139) / ___ अक्षैर्दीव्यति / अत्र 'करणं च' इति सूत्रेण करणत्वम्, करणत्वे तृतीया भवति / करणत्वविषये विशेषोदाहरणानि सूरिदर्शयति-अक्षैर्देवनम् / अझैर्दीव्यति / अक्षैर्देवितव्यम् / अझैः सुदेवं मैत्रेण / अक्षैर्वृतं मैत्रेण / अक्षा देवनाः। एतेषु करणत्वे करणकार्याणि तृतीया-अनटौ तथा भावे आत्मनेपदादयश्च सिद्धाः / / 19 / / . अधेः शीस्थास आधारः // 2 // 2 // 20 // ___ अधेः सम्बद्धानां शीङ्-स्था-आस् इत्येषां य आधारस्तत्कारकं कर्मसंज्ञं स्यात् / ग्राममधिशेते / ['शीङ ए: शिति' (4 / 3 / 104) इति एकारः] ग्रामस्याधिशयनम् / ग्रामोऽधिशय्यते ['क्ङिति यि शय् (4 / 3 / 105) इति-शय् आदेशः] ग्रामोऽधिशयितः। ग्राममधितिष्ठति / ग्राममध्यास्ते। *अत्राकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति सकर्मकत्वं सिद्धम्, आधारवाधार्थ तु वचनम् / आधार इति किम् ? ग्रामोऽधिशयितो मैत्रेण / पौरुषेणाधितिष्ठति / कर्तृकरणे न भवतः // 20 // * अ० *अत्र-सूत्रे ग्राममधिशेते इत्यादि उदाहरणेषु // यदि सकर्मत्वं सिद्भम् तर्हि सूत्रं किमिति इत्याह आधारेति // 20 // पुरुषस्य कर्म भावो वा पौरुषम् / 'पुरुषहृदयादसमासे' (7 / 1 / 70) इति सूत्रेण अण् / उपान्वध्याङ् वसः // 2 / 2 / 21 // उप-अनु-अधि-आभिर्विशिष्टस्य वसतेराधारः कर्म स्यात् / ग्राममुपवसति / ग्राम उपोषितः / ग्रामस्योपवसनम् / ग्राम उपोष्यते / पर्वतमनुवसति / पुरमधिवसति / आवसथम् [गृहं] आवसति // 21 // .. अ० 'उपान्वध्याङ् वस' इति सूत्रे वस्धातु/दिर्गृह्यते-न तु अदादिः / उपोषितः- 'वसं निवासे' वस् / उपपूर्वम्, उपोष्यते स्म 'क्तक्तवतू' (5 / 1 / 174) 'यजादिवचेः किति' (4 / 179) वृत्, 'क्षुधवसस्तेषाम्' (4 / 4 / 43) इति इट् 'घस्वसः' (2 / 3 / 36) इति सूत्रेण षकारः / 'कर्मणि कृतः' (2 / 2 / 83) षष्ठी // 21 // वाभिनिविशः // 2 / 2 / 22 // - अभिनिना युक्तस्य विशेराधारः कर्म स्यात्, वा / ग्राममभिनिविशते / ग्रामोऽभिनिविश्यते / ग्रामोडभिनिविष्टः / व्यवस्थितविभाषेयम् / तेन कचित् कर्मैव, कचिदाधार एव / कल्याणेऽभिनिविशते / अर्थेऽभिनिविष्टः // 22 // अ० अभिः पूर्वो यस्मात् नेः सोऽभिपूर्वः / अभिपूर्वश्चासौ निश्च अभिनिः / अभिनेः परो विट् अभिनिविट् / तस्य अभिनिविशः / 'मयूरव्यंसकेत्यादयः' (3 / 1 / 116) इति पूर्वपरयोर्लोपः / अथवा अभेनिः अभिनिः / अभिनिना युक्तो विट् तस्य इति क्रियते / अभिश्च निश्चेति द्वन्द्वो न कर्तव्यः द्वन्द्वे सति अभि-निशब्दयोः