________________ 112 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते प्रत्येकमभिसम्बन्धः स्यात् / यथा 'उपान्वध्याङ् वसः' इत्यत्र / 'वाऽभिनि०' इत्यत्र सूत्रे वाशब्दो व्यवस्थितविभाषार्थः / न विकल्पार्थः // 22 // कालाध्वभावदेशं वा कर्म चाकर्मणाम् // 2 // 2 // 23 // अकर्मकाणां धातूनां प्रयोगे कालादिराधारः कर्म वा भवति [अत्र कर्मसंज्ञा], अकर्म च भवति [अत्र अकर्मसंज्ञा] / काल, मासमास्ते मास आस्यते / दिवसं स्वपिति शेते वा, दिवसः शय्यते / अध्वा, क्रोशं स्वपिति क्रोशः सुप्यते / योजनमास्ते योजनमास्यते / भावः गोदोहमास्ते गोदोह आस्यते / ओदनपाकं शेते ओदनपाकः शय्यते / देश. कुरूनास्ते कुरव आस्यन्ते / ग्रामं वसति ग्राम उष्यते / सकर्मका अपि अविवक्षितकर्माणोऽकर्मकाः / मासं पचति मासः पच्यते / क्रोशमधीते क्रोशोऽधीयते / ओदनपाकं पठति ओदनपाकः पठ्यते / पक्षे रात्रौ सुप्यते / क्रोशे शय्यते / गोदोहे आस्ते / ग्रामे वसति / ग्रामेवासी। रात्रावधीतम् / दिने भुक्तम् / कालाध्वभावेति किम् ? गृहे आस्ते / अकर्म चेति किम् ? मासमास्यते, क्रोशम् सुप्यते, गोदोहमासितः इदं गोदोहमासितम्, गोदोहमास्यते, कुरून् सुप्यते; एषु 'तत्साप्यानाप्यात्' (3 / 3 / 21) 'गत्याकर्मकपिबभुजेः' (5 / 1111) 'अद्यर्थाच्चाधारे' (5 / 1 / 12) इति भावे कर्त्तर्याधारे च यथायथमात्मनेपदक्तौ भवतः / अकर्मणामिति किम् ? अह्नयध्ययनमधीतम् / कथं पचत्योदनं मासम्, भक्षयति धानाः क्रोशम्, पिबति पयो गोदोहम्, भजति सुखं कुरून् ? द्विकर्मकत्वात्कर्तुाप्यं कर्मेत्येव भविष्यति // 23 // ___अ० कालो मुहूर्तदिनपक्षमाससंवत्सरादिः / अध्वा गन्तव्यं क्षेत्रं क्रोशयोजनादिः / भावः क्रिया पाकगोदोहनादिः / देशो जनपदपुरग्रामनदीपर्वतादिः / कालश्च अध्वा च भावश्च देशश्च कालाध्वभावदेशम् / / कर्म वा भवतीत्यादियत्रैव कर्मसंज्ञा तत्रैव अकर्मसंज्ञापि भवतीत्यर्थः / स्वपितीत्यत्र 'रुत्पश्चकाच्छिदयः' (4 / 4 / 88) इति इट् / शेतेऽत्र च 'शीङ ए: शिति' (4 / 3 / 104) / शय्यतेऽत्र 'ङिति यि शय्' (4 / 3 / 105) इति शय् आदेशः / अनुक्ते अकर्मणि द्वितीया / कर्मणि भावे आत्मनेपदम् / उष्यते 'वसं निवासे' वस् / वर्तमानाते 'क्यः शिति' (3 / 4 / 70) 'यजादिवचेः किति' (4 / 1 / 79) यवृत् ‘घस्वसः' (2 / 3 / 36) इत्यनेन सस्य षकारः / इदं गोदोहमासितमित्यत्र 'अद्यर्थाच्चाधारे' (5 / 1 / 12) इत्यनेन क्तप्रत्ययः / अमुक आस्ते स्म 'गत्यर्थाकर्मक०' (5 / 1 / 11) इति क्तः / आसितः / द्विकर्मकत्वात्कर्तुरित्यादि-प्रापणोपसर्जनेषु, पचनादिषु, पचभक्षादयो धातवो वर्तन्ते / मासं प्राप्य पठति। क्रोशं सस्यं भक्षयतीत्यर्थः, इत्यादिः // 23 // साधकतमं करणम् // 2 // 2 // 24 // [करणसंज्ञाधिकारसूत्रमिदमेकमेव] क्रियासिद्धौ यत्प्रकृष्टोपकारकत्वेनाव्यवधानेन विवक्षितं तत्साधकतमं कारकं करणसंज्ञं भवति / दानेन भोगानाप्नोति / दात्रेण लुनाति / अस्य च कारकान्तरापेक्षया प्रकर्षो न स्वकक्षायां (न स्ववर्गे) / तेनैकस्यां क्रियायामनेकमपि करणं भवति / नावा नदी स्रोतसा व्रजति / रथेन पथा दीपिकया याति // 24 // कर्माभिप्रेयः सम्प्रदानम् // 2 // 2 // 25 // ('सम्प्रदानसंज्ञाधिकारे कर्माभिप्रेयेत्यादि" ___ नोपसर्गात्क्रुद्रुहो इत्यन्तं चत्वारि 4 सूत्राणि ज्ञातव्यानि) कर्मणा व्याप्येन क्रियया वा करणभूतेन यमभिप्रेयते स कर्माभिप्रेयः कारकं सम्प्रदानसंज्ञं भवति / देवाय