________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः बलिं दत्ते / शिष्याय धर्ममुपदिशति / याचकायार्थ प्रयच्छति / क्रियाभिप्रेयः खल्वपि [सम्प्रदानं दर्शयति / पत्ये शेते / युद्धाय सन्नह्यते / देवेभ्यो नमति / निवेद्यतां महाराजसुग्रीवाय / राज्ञे कार्यमाचष्टे / अभिग्रहणादिह न भवति-ध्नतः पृष्ठं ददाति / रजकस्य वस्त्रं ददाति / इह च भवति-वाताय चक्षुर्दत्ते / छात्राय चपेटां दत्ते / सम्प्रदानप्रदेशा 'दामः सम्प्रदाने.' (2 / 2 / 52) इत्यादयः // 25 // अ० मनोऽभिलाषे सम्प्रदानं नान्यत्र / हन् / हन्तीति नन् / शतृ / अत् तिष्ठति / षष्ठी डस् ‘अनोऽस्य' (2 / 1 / 108) इति अनोऽकारलोपः / 'हनो ह्रो ध्नः (2 / 1 / 112) // 25 // स्पृहेाप्यं वा // 2 // 2 // 26 // स्पृहयतेप्प्यं सम्प्रदानं वा भवति / पुष्पेभ्यः पुष्पाणि वा स्पृहयति / व्याप्यमिति किम् ? पुष्पेभ्यः स्पृहयति वने // 26 // ___ अ० 'स्पृहेाप्यं वा' इति सूत्रे विशेषोऽयं ज्ञातव्यः / सम्प्रदानसंज्ञापक्षे धातोरकर्मकत्वं ज्ञातव्यम् / तेन पुष्पेभ्यः स्पृह्यते मैत्रेण, पुष्पेभ्यः स्पृहयितव्यम्, पुष्पेभ्यः सुस्पृहम्, पुष्पेभ्यः स्पृहितो मैत्रः, एषु भावे आत्मनेपदतव्यखलः कर्तरि च क्तः सिद्धः / वने इत्यत्र आधारे मा भूत् सम्प्रदानम् // 26 // . क्रुद्धहेासूयार्थैर्य प्रति कोपः // 2 // 2 // 27 // क्रोधाद्यर्थैर्धातुभिर्योगे यं प्रति कोपस्तत्कारकं सम्प्रदानं स्यात् / मैत्राय कुध्यति, कुप्यति, रुष्यति / मैत्राय छैद्यति, अपकरोति, अपचिकीर्षति / मित्रायेय॑ति, मैत्रायेयति, असूयति / मैत्रायासूयति / यं प्रतीति किम् ? 'मनसा क्रुध्यति, मनसा द्रुह्यतीत्यादि / कोप इति किम् ? *शिष्यस्य कुप्यति विनयार्थम्, धनिनो द्रुह्यति धनार्थी // 27 // ____ अ० शब्दशक्तिस्वाभाव्यात् क्रुध-दुहधातूपसर्गरहितौ अकर्मकावेव / सम्बन्धषष्ठयां प्राप्तायां सम्प्रदानसंज्ञा विधीयते इति भावः / अमर्षः क्रोधः / विनाशबुद्धिोहः / ईर्ष्या परसम्पत्तौ चेतसः कालुष्यम् / गुणेषु दोषाविष्करणं असूया / क्रोधार्थ-द्रोहार्थ-ईर्ष्यार्थ-असूयार्थैर्धातुभिर्योगे // 'क्रुधंच् कोपे' 'दुहौच जिघांसायाम्' अशुभं करोति चिन्तयति / असु इति सौत्रो धातुः . कण्ड्वादौ / असु / 'धातो कण्ड्वादेर्यक्' (3 / 4 / 8) इति यक् / 'दीर्घश्च्वियङ्' (4 / 3 / 108) इति असूयति / 'करणस्य सम्प्रदानं मा भूत् / तृतीयाटा *अत्र अविनयस्योपरि कोपो न शिष्यस्य / धनस्योपरि क्रोधो नतु धनिनः // 27 / / नोपसर्गात्क्रुद्रुहा // 2 // 2 // 28 // _ उपसर्गात्पराभ्यां क्रुध्द्रुहिभ्यां योगे यं प्रति कोपस्तत्सम्प्रदानं न स्यात् / मैत्रमभिक्रुध्यति / अभिद्रुह्यति वा // 28 // अ० क्रुद्रुहौ सोपसर्गौ स्वभावतः सकर्मकौ इति द्वितीया / / 28 / / अपायेऽवधिरपादानम् // 2 // 2 // 29 // सावधिकं गमनं अपायः / तत्र यदवधिभूतं तत्कारकमपादानसंज्ञं भवति / ग्रामादागच्छति / पर्वतादवरोहति / वृक्षात्पर्ण पतति / धावतोऽश्वात्पतितः / अपादानं च त्रिविधम्-निर्दिष्टविषयम् 1 उपात्तविषयम् 2 अपेक्षितक्रियं च 3 / तथा अपायश्चापि कायसंसर्गपूर्वको बुद्धिसंसर्गपूर्वको वा विभाग उच्यते / अधर्मा