________________ 114 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते ज्जुगुप्सते / अधर्माद्विरमति / धर्मात्प्रमायति / अत्र बुद्धिसंसर्गपूर्वकोऽपायः / चौरेभ्यो विभेति, उद्विजते / चौरेभ्यस्त्रायते, रक्षति / तथा अध्ययनात्पराजयते यवेभ्यो गां रक्षति / यवेभ्यो गां निषेधयति / कूपादन्धं वारयति / उपाध्यायादन्तर्धत्ते / तथा शृङ्गाच्छरो जायते / गोमयाद्वृश्चिको जायते गोलोमाविलोमभ्यो [गोलोमानि अविलोमानि वा तेभ्यः] दूर्वा जायते / बीजादडरो जायते / हिमवतो गङ्गा प्रभवति / चैत्रान्मैत्रः पटुः / अयमस्मादधिकः ऊनो [अयमस्मादून इति] वा / विवक्षान्तरे त्वपादनत्वाभावे यथायोगं विभक्तयो भवन्ति / बलाहके विद्योतते, बलाहकं विद्योतते [बलाहकं मेघं प्राप्य विद्योतते विद्युत् अन्तर्भूतण्यर्थो वा बलाहकं विद्योतयतीत्यर्थः]। अधर्म जुगुप्सते / अधर्मेण जुगुप्सते मौख्येण प्रमाद्यति / चौरैर्भयम्, चौरैर्बिभेति, चौरेषु बिभेति, चौराणां बिभेति / भोजनेन पराजयते / शत्रून् पराजयते / यवेषु गां वारयति / शृङ्गे शरो जायते // 29 // अ० 'इण्क् गतौ' अपपूर्वम्, अपायनं अपायः / 'युवर्णवृदृवशरणगमृद्ग्रहः' (5 / 3 / 28) इति अल् / अपवर्जयित्वा। आ मर्यादायां मर्यादीकृत्य दीयते खं म्वतेअस्मादित्यपादानम् / 'भुजिपत्यादिभ्यः कर्मापादाने' (5 / 3 / 128) अनट् / विवक्षावशात् कारकान्तरस्पृष्टम् / उप समीपे धातुना धात्वन्तरस्यात्तः स्वीकृतो विषयोऽर्थो यत्र तत् उपात्तविषयम् / यत्र प्रयोगे धातुनाऽपायलक्षणो विषयो निर्दिश्यते तन्निर्दिष्टविषयं अपादानम् / यथा ग्रामादागच्छति वृक्षात्पर्णं पततीत्यादि / यत्र तु धातुर्धात्वन्तरार्थाङ्गं (धात्वन्तरार्थोऽङ्ग विशेषणं यस्य धात्वन्तरार्थस्य वाङ्गम्) स्वार्थमाह तदुपात्तविषयमपादानम् यथा कुशूलात्पचति / अत्रापादानाङ्गे पाके पचिर्वर्तते / यत्र तु क्रियावाचि पदं न श्रूयते केवलं स्वयमेव क्रिया प्रतीयते तदपेक्षितक्रियं अपादानम्-यथा माथुरेभ्यः पाटलिपुत्रका अभिरूपतराः / अभिमतं रूपं येषां ते प्रकृष्टा अभिरूपतराः, निर्धार्यन्ते इति क्रियापदमत्र प्रतीयते / अथवा चैत्रान्मैत्रः पटुरिति-दृश्यते क्रियापदं प्रतीयते / इति त्रिविधमपादानम् / / बुद्धिसंसर्गपूर्वके-अधर्माज्जुगुप्सतीत्यादि उदाहरणत्रयम्- अत्र प्रेक्षापूर्वकारी विवेकी भवति, स दुःखहेतुमधर्म पापं कुबुद्धया प्राप्यापि अनेन न मे कार्यमिति बुद्ध्याऽधर्मानिवर्तते; नास्तिकंस्तु धर्मं श्रुत्वापि प्राप्यापि न एनं धर्मं करिष्यामीति ततो निवर्तते इति निवृत्त्यङ्गेषु जुगुप्साविरामप्रमादरूपेषु एते धातवो वर्तन्ते इति बुद्धिसंसर्गपूर्वकोऽपायाऽत्र ज्ञातव्यः / प्रमाद्यतीत्यत्र 'शम्सप्तकस्य श्ये' (4 / 2 / 111) इति सूत्रेण दीर्घः। चौरेभ्यो बिभेत्यादिषु इयं भावना-कश्चित् बुद्धिमान् वधबन्धपरिक्लेशकारिणश्चौरान् बुद्धया ज्ञात्वा प्राप्य वा तेभ्यो बिभेति तेभ्यो निवर्तते / तथा चौरेभ्यस्त्रायते-अत्रापि कश्चित् सुहृद् यदि इमं चौराः पश्येयुस्तदा नूनमस्य धनमपहरेयुरिति बुद्धया उपायेन चौरेभ्यो निवर्तयतीति बुद्धिसंसर्गपूर्वोऽपायोऽत्रापि / अध्ययनात्परेति / अत्र अध्ययनं असहमानस्ततो निवर्तत इत्यपाय एव // यवेभ्यो गामित्यादि / इहापि गो- अन्धयोर्यवादिसम्पर्कबुद्ध्या दृष्ट्वा अन्यतरस्य विनाशं पश्यन् अन्धौ यवकूपान्निवर्तयतीत्यपाय एव / / उपाध्यायादन्त० मा उपाध्यायो मा द्राक्षीदिति प्रच्छन्नो भवतीत्यत्राप्यपाय एव ज्ञेयः // शृङ्गाच्छरो० इत्यादि उदाहरणेषु शृङ्गादिभ्यः शरादयो निःक्रामन्ति निःसरन्तीति प्रकट एवापायः / / हिमवतो गङ्गेति / अत्रापि आपः सङ्क्रामत्यपायोस्ति / कश्चिदाह-यथा मैत्रः पुरात् सर्वथा निर्गत एव पुरं मुक्तं तथा शरादयोऽपि यदि निःक्रामन्ति तदा किं अत्यन्तं न निःक्रामन्तीति पृच्छा / सूरिराह-सन्ततत्वात् अन्यान्यप्रादुर्भावाद्वा निःक्रामन्त एव सन्ति कोऽर्थः ? निःक्रमणस्य सन्ततत्वादिति / कोऽभिप्रायः। एके अवयवा निःक्रान्ताः अन्ये निष्क्रामन्तः सन्तीति भावः / 'गुपि गोपनकुत्सनयोः' 'गुतिजो०' (3 / 4 / 5) सनि ‘सन्यङश्च' (4 / 1 / 3) 'गहोर्जः' (4 / 1 / 40) प्रमाद्यति / 'मदीच् हर्षे' प्रपूर्वः / 'दिवादेः श्यः' (3 / 4 / 72) 'शम्सप्तकस्य