________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 115 श्ये' इति दीर्घः / अन्तर्धत्ते-अन्तर् धाधातुः वर्तमानाते 'हवः शिति' (4 / 1 / 12) धा इति द्वित्वम् 'हस्वः' (4 / 1 / 39) 'धागस्तथोश्च' (2 / 1 / 78) इति आदितस्य धत्वम् 'भश्चातः' (4 / 2 / 96) अकारलोपः / 'अघोषे प्रथमो०' (1 / 3 / 50) धस्य त् / जायते- 'जनैचि प्रादुर्भावे'ऽतो 'दिवादेः श्यः' 'जा ज्ञाजनोऽत्यादौ' (4 / 2 / 104) इत्यनेन जनेर्लादेशः / चैत्रान्मैत्रः पटुः इत्यादि उदाहरणेषु मैत्रादयः पुंस्त्वादिना संसृष्टाः, पटुत्वादिधर्मेण चैत्रादिभ्यो विभक्ताः प्रतीयन्ते इति सर्वत्रापायविवक्षा ज्ञातव्या / / 29 / / / क्रियाश्रयस्याधारोऽधिकरणम् // 2 // 2 // 30 // क्रियाश्रयस्य कर्तुः कर्मणो वा य आधारस्तत्कारकमधिकरणसंज्ञं भवति / अत्रापि प्रसिद्धानुवादेनाप्रसिद्धस्य विधानमिति लक्षणार्थ इति यत्क्रियाश्रयस्याधिकरणं तदाधारसंज्ञं स्यादित्यपि सूत्रार्थः / कटे आस्ते। स्थाल्यां पचति / तच्चाधिकरणं षोढा-वैषयिकं 1 औपश्लेषिकं 2 अभिव्यापकं 3 सामीप्यकं 4 नैमित्तिकं 5 औपचारिकं 6 च यथाक्रमं उदाहरणानि दिवि देवाः, नभसि तारकाः, भुवि मनुष्याः, पाताले पन्नगाः 1 कटे आस्ते, पर्यङ्के शेते, गृहे तिष्ठति 2 तिलेषु तैलम्, दध्नि सर्पिः, तन्तुषु पटः, गवि गोत्वम् 3 गङ्गायां घोषः, गुरौ वसति, बन्धुष्वास्ते 4 युद्धे सन्नह्यते, शरदि पुष्यन्ति, आतपे क्लाम्यति, छायायामाश्वसिति 5 अङ्गुल्यग्रे करिशतमास्ते / स मे मुष्टिमध्ये तिष्ठति / यो यस्य द्वेष्यः स तस्याक्ष्णोः प्रतिवसति / यो यस्य प्रियः स तस्य हृदये वसति / अधिकरणाधारप्रदेशाः "सप्तम्यधिकरणे" (2 / 2 / 95) “अद्यर्थाचाधारे" (5 / 1 / 12) इत्यादयः // 30 // . . - अ० प्रसिद्ध- आधारभणनेन अप्रसिद्धस्य अधिकरण इति संज्ञालक्षणस्य / कटे आस्ते; अत्राधारकारकत्वभावनेयम्मैत्रसम्बद्धायामासिक्रियायां आसिक्रियाश्रयं मैत्रं धारयन् कटादिर्हेतुतां कट आधारत्वं आश्रयति / स्थाल्यां पचतीत्यत्र-तन्दुलसम्बद्धायां उत्कलनक्रियायां तदाश्रयान् तन्दुलान् धारयन्ती स्थाली हेतुत्वं स्थाली आधारत्वं भजतीत्यर्थः / / यस्यान्यत्र न भवनं अन्यत्र न विषयः तद्वैषयिकम्। विषयासक्तं वैषयिकम् 'तस्मै योगादेः शक्ते' (6 / 4 / 94) इतीकण् / वैषयिकोदाहरणम्-दिवि देवादयः 1 / एकदेशमात्रसंयोग उपश्लेषः / उपश्लेषे भवं औपश्लेषिकं 'अध्यात्मादिभ्य इकण्' (63 / 78) कटे आस्ते इत्यादि उदाहरणमत्र 2 / यस्य आधेयेन सह सर्वावयवसंयोगः तदभिव्यापकम् / कृत् 'बहुलं' (5 / 122) इति कर्मण्यपि णकः / आधेयमभिव्याप्नोत्याधारस्तिलादिकर्त। अत्रोदाहरणानि]० तिलेषु तैलमित्यादि 3 / यत् आधेयसन्निधिमात्रेण क्रियाहेतुः तत्सामीप्यकम् / समीपमेव सामीप्यं 'भेषजादिभ्यष्टयण' समीप्यमेव सामीप्यकम् ‘यावादिभ्यः कः' (7 / 3 / 15) / अत्र गङ्गायां घोष इत्यादि उदाहरणम् 4 // निमित्तमेव नैमित्तिकम् 'विनयादिभ्य' (7 / 2 / 169) इकण् अत्र युद्धे सन्नह्यते इत्यादि उदाहरणानि 5 / उपचारे भवऔपचारिकम् / . 'अध्यात्मादिभ्य इकण्' / 6 / 3 / 78 / अत्रोदाहरणानि ‘अङ्गुल्यग्रे करिशतादीनि यदा तु कर्तृकर्मान्तरितक्रियाधारत्वं न विवक्ष्यते तदा हेतौ तृतीयैव / आतपेन क्लाम्यति / छाययाऽऽश्वसितीत्यादि इति भोज आह // 30 // नाम्नः प्रथमैकद्विबहौ // 2 // 2 // 31 // [एकः इत्यत्र सिविभक्त्या एकत्वसङ्ख्या नाभिधीयते, एकत्ववतो यत् एकत्वं तदभिधीयते, तस्मिन् एकत्वे विभक्तिः प्रवर्तते] * एकत्वद्वित्वबहुत्वविशिष्टेऽर्थे वर्तमानानाम्नः परा यथासङ्ग्यं सि-औ-जस्लक्षणा प्रथमाविभक्तिर्भवति / कर्मादिशक्तिषु द्वितीयादिविभक्तिनां विधास्यमानत्वादिह सूत्रे विशेषानभिधानाच परिशिष्टे [उद्धरिते]ऽर्थमात्रे