________________ 116 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते प्रथमेति विज्ञायते / [एवं स्थिते] तत्र द्वितीयादिविमुक्तः स्वार्थद्रव्यलिङ्गसङ्ग्याशक्तिलक्षणोऽसमग्रः [एकैको द्वयं वा] / समग्रो वा पञ्चको नामार्थोऽर्थमात्रमुच्यते (घटादि नाम) / तेषु यथाक्रममुदाहरणानि / डित्थः / डवित्थः / गौः / अश्वः / शुक्लः / पाचकः / दण्डी / राजपुरुषः / औपगवः / पश्चालाः 1 // इयं जातिः / अयं गुणः / इदं कर्म 2 / स्त्री / पुमान् / नपुंसकम् / एकः / द्वौ / बहवः / वृक्षः / वृक्षौ / वृक्षाः 3 // क्रियते कटः / कृतकटः / पचति चैत्रः / स्नानीयं चूर्णम् / दानीयो ब्राह्मणः / प्रश्रवणो गिरिः / भयानको व्याघ्रः / स्थानीयं नगरम् / गोदोहनी पारी / गोमान् मैत्रः / चित्रगुश्चैत्रः // तथा उपचरितमप्यर्थमात्रं ज्ञायते / यथा साहचर्यात् / स्थानात् / तादात् / वृत्तात् / मानात् / धरणात् / सामीप्यात् / योगात् / साधनात् / आधिपत्यात् / अलिङ्गमप्यर्थमात्रम्-त्वं / अहं / पञ्च / कति / अलिङ्गसङ्ग्यमप्यर्थमात्रम् नीचैःस्वः / शक्तिप्रधानमप्यर्थमात्रम्-यतः / यत्र / यथा / यदा / द्योत्यमपि-प्रपचति / प्रतिष्ठति / प्रति पालयति / तदयं वस्तुसङ्केपस्त्याद्यन्तपदसामानाधिकरण्ये प्रथमा / यत्रापि त्यायन्तं पदं न श्रूयते-वृक्ष इति, तत्रापि गम्यते / यदाह-'यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिभवन्तीतिपरः प्रयुज्यते' // 31 // . .. अ० स्वार्थस्वरूपमुच्यते / शब्दस्यार्थे विशेष्ये प्रवृत्तिनिमित्तं विशेषणं स्वरूपजातिगुणक्रियाद्रव्यसम्बन्धादिरूपं त्वतलादिप्रत्ययाभिधेयं स्वार्थः उच्यते / स च स्वार्थो भावो विशेषणं गुण इति पर्यायेण आख्यायते / स्वार्थे उदाहरणानि-डित्थः / डवित्थः इत्यादि 1 / यत्पुनः इदं तत् इत्यादिना वस्तूपलक्षणेन सर्वनाम्ना व्यपदिश्यते / स्वार्थेन विशेषणेन व्यवच्छेद्यं लिङ्गसङ्ख्याशक्त्याद्याश्रयः सत्त्वभूतं तत् द्रव्यमुच्यते, विशेष्यमिति लोकरूढम् / अत्रोदाहरणानि-इयं जातिः / अयं गुणः / इदं कर्मेति / जातिर्नित्यत्वएकत्वे सति अनेकत्वसमवेतत्वं स्वार्थः, तेन द्रव्यादिभ्यो व्यवच्छिद्यते / रूपरसगन्धादयो द्रव्यगुणत्वं स्वार्थः, तेन कर्मादिभ्यो व्यवच्छिद्यते / इदं कर्मेति कर्मत्वं प्रवृत्तिनिमित्तम्, तेन गुणादिभ्यो व्यवच्छिद्यते द्रव्यम् / यतोऽर्थे विशेष्ये वस्तुनि सद् असद् वा शब्दत एवावसीयते तत् ड्याबादिसंस्कारहेतुः स्त्रीपुमान्नपुंसकमिति लिङ्गमुच्यते / स्त्री पुमान् नपुंसकम् // यस्यां एकवचनद्विवचनबहुवचनानि भवन्ति सा भेदप्रतिपत्तिहेतुरेकत्वादिका सङ्ख्या उच्यते-एकः / द्वौ / बहवः। वृक्षः / वृक्षौ / वृक्षाः / इति / यस्यां त्यादिविभक्तिआख्यातकृत्प्रत्ययतद्धितवृत्तिसमासैरनभिहितायां द्वितीयाद्या व्यतिरेकविभक्तयः षष्ठी च भवति, सा स्वपराश्रयाश्रितक्रियोत्पत्तिहेतुः कारकरूपा तत्पूर्वकसम्बन्धरूपा च शक्तिरुच्यते / सा च शक्तिरभिहिता सती अर्थमात्रं भवति / अत्रोदाहरणावली / / क्रियते कट इत्यादि / कृधातुः / वर्तमानाते / 'क्यः शिति' (3 / 4 / 70) 'रिः शक्याशीर्ये' (4 / 3 / 110) इत्यनेन रि आदेशः / स्नात्यनेन स्नानीयं 'बहुलं' (5 / 1 / 2) इति सूत्रेण अनीयः / दीयते तस्मै वा इति दानीयो ब्राह्मणः / अत्रापि 'बहुलं' / / प्रस्रवतीति प्रस्रवणः अनट् / / 'त्रिभीक् भये' बिभेत्यस्माज्जन इति भयानकः / ‘शीभीराजेश्चानकः' (71) इति आनकप्रत्यय औणादिकः // तिष्ठन्त्यस्मिन् प्रजाः इति स्थानीयं नगरम् // गावो दुह्यन्ते अस्यां गोदोहनी / 'करणाधारे' (5 / 3 / 129) इति अनट् / साहचर्योदाहरणम् कुन्ताः प्रविशन्ति / कुन्तसेल्लसहिताः पुरुषाः कुन्ता उच्यन्ते / छत्रिणो गच्छन्ति-छत्रसहचरिताः पुरुषा गच्छन्ति // स्थानोदाहरणम्-मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषा अपि मञ्चाः / गिरिर्दह्यते गिरिस्थितो वृक्षादिरपि गिरिः / तादोदाहरणम्-इन्द्रः स्थूना, प्रदीपो मल्लिका / वृत्तेदाहरणम्-यमोऽयं राजा, यम इव वर्तमानत्वात् राजापि यमः / कुबेरोऽयं राजा दानशीलत्वात् / मानोदाहरणम्-प्रस्थो व्रीहिः, प्रस्थेन मितो व्रीहिरपि प्रस्थः / धरणोदाहरणम्-तुलाचन्दनम् / तुलया धृतं चन्दनं-तुलाचन्दनमित्यर्थः / सामीप्यात् गङ्गातटं