________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 117 गङ्गा / गङ्गायां घोषः / योगोदाहरणम्-रक्तः कम्बलः, रक्तेन रागेण युक्तः कम्बलोऽपि रक्त इति भावः / साधनोदाहरणम्-अन्नं प्राणाः, आयुर्घतम् आधि-पत्योदाहरणम्-ग्रामधिपतिामः / ननु उच्चैः नीचैः इत्यादि अव्ययेभ्यः परत एकत्वादिसङ्ख्याऽभावादनेन नाम्नः प्रथमेति लक्षणेन प्रथमा न प्राप्नोति ? सत्यम्-वक्ष्यमाण 'अव्ययस्य' (3 / 27) इति सूत्रे विभक्तीनां लुप् विधाना-द्विधिर्ज्ञायते, विभक्तिमध्यवर्तित्वात् प्रथमाया अपि विधिर्भवति / तस्य फलम् / अथो स्वस्ते गृहम् अथो स्वस्तव गृहमित्यादि ‘सपूर्वात्प्रथमान्ताद्वा' (2 / 1 / 32) इति विकल्पेन ते-मे आदेशौ भवतः / विभक्तिविधानात्पदसंज्ञापि सिद्धेति सर्वमव्ययस्येति सूत्रे वक्ष्यत इत्यर्थः / नन्ता सङ्ख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः / तथाव्ययाश्चादयश्च निपाता लिङ्गसङ्ख्यां च नाश्रयन्ति इति अलिङ्गसङ्ख्यमिति / अत्रापि प्रथमेति भावः / प्रादीत्युपसर्गा धातोः प्राक् धात्वर्थं द्योतयन्ति इति द्योत्यमर्थमात्रं भवति / त्याद्यन्तं पदं अस्तीत्यादिकं ज्ञेयम् // 31 // - आमन्त्र्ये // 22 // 32 // प्रसिद्धतत्सम्बन्धस्य किमप्याख्यातुमभिमुखीकरणमामन्त्रणम् / तद्विषय आमन्त्र्यः। तस्मिन्नर्थे वर्तमानात् नाम्न एकद्विवही यथासङ्ग्यं प्रथमाविभक्तिर्भवति / हे देव / हे देवौ / हे देवाः / हे पचन् / आमन्त्र्य इति किम् ? राजा भव षष्ठीप्राप्तौ वचनम् [सूत्रम्] // 32 // अ० प्रसिद्धेन आमन्त्र्यवाचिना देवदत्तादिशब्देन सह सम्बन्धः तत्सम्बन्धः / प्रसिद्धतत्सम्बन्धो यस्य स प्रसिद्धतत्सम्बन्धः / तस्य देवदत्तादिः आमन्त्र्य इत्युच्यते / आमन्त्र्यार्थे आमन्त्र्यामन्त्रणभावे विषयविषयिभावे वा सम्बन्धेऽत्र षष्ठी प्राप्नोति / तद्बाधनार्थमिदं 'आमन्त्र्ये' इति सूत्रं कृतम् / / तुं राजा होउ इत्यर्थः / राजा भवेत्यत्र राजा नामन्त्र्यः किंतु राजा एव विधीयते त्वमस्य लोकस्य राजा स्वामी भवति // 32 // - गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेनतेनैर्द्वितीया // 2 // 2 // 33 // [गौणात्समयेत्यारभ्य 'कालाध्वनोळप्तौ' (2 / 2 / 42) इत्यन्तं यावत् द्वितीयाविभक्त्यधिकारे सूत्रदशकं 10 ज्ञेयम्] आख्यातपदेनासमानाधिकरणं गौणम्, गौणानाम्नः समयादिभिर्निपातैर्युक्तादेकद्विवहौ यथासङ्ग्यं अम्औ-शस्-रूपा द्वितीया विभक्तिः स्यात्, षष्ठ्यापवादः / समया पर्वतं नदी [पर्वतसमीपे नदी इत्यर्थः] / निकषा गिरिं वनम् [गिरिसमीपे वनम्] / हा मैत्रं व्याधिः / धिक् जाल्मम् / अन्तरा [मध्ये] निषधं नीलं च विदेहाः। अन्तरेण धर्म सुखं न भवति [विनार्थेऽन्तरेणशब्दः] / अतिवृद्धं कुरून्महदलम् / येन पश्चिमां गतः / तेन पश्चिमां नीतः // हा तात धिग् जाल्म हा सुभु इत्यादावामन्यतया विवक्षा, न हादियुक्तत्वेनेति न भवति / बहुवचनादन्येनापि युक्ताद्भवति-न देवदत्तं प्रति भाति किञ्चित् / बुभुक्षितं न प्रति भाति किञ्चित् / वृणीष्व भद्रे प्रति भाति यस्त्वाम् / धातुसम्बद्धोऽत्र प्रतिस्तेन 'भागिनि चे' त्यनेन सिद्धयति / गौणादिति किम् ? अन्तरा गार्हपत्यमाहवनीयं च वेदिः / अत्र प्रधानाद्वेदिशब्दान भवति // 33 // ___ अ० तथा अन्तरेण गन्धमादनं माल्यवन्तं चोत्तराः कुरवः इति अन्तरेण शब्दस्य मध्यार्थस्य उदाहरणं ज्ञातव्यम् / विदेह इत्यस्याग्रे अन्तराशब्दो निपातोऽव्ययो मध्यं आधेयप्रधानमर्थमाचष्टे, अन्तरेणशब्दस्तु निपातोऽव्ययो मध्यं आधेयप्रधानमर्थं विनार्थं च आचष्टे / अन्तरेण गन्धमादनं माल्यवन्तं चोत्तराः कुरवोऽत्र मध्यार्थे, अन्तरेण धर्मं सुखं नहि-अत्र विनार्थे अन्तरेणशब्दः, तेनेह न भवति-राजधान्या अन्तरायां पुरि वसति, बहिरर्थोऽन्तरशब्दः /