________________ 118 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते किं ते केशवार्जुनयोरन्तरेण गतेन / विशेषणज्ञातेन ? / अतिवृद्धं कुरून्महद्वलमित्यस्यार्थोऽयम्-कुरूणामतिक्रमण पाण्डवानां महद् बृहदलं वर्तते इत्यर्थः / येन पश्चिमेति / अत्र येनतेनशब्दौ लक्ष्यलक्षणभावं द्योतयतः / तथाहि / पश्चिमां दिशं प्रति लक्ष्यीकृत्य गत इत्यर्थः / अयं मैत्रः कां प्रति गतः ? पश्चिमाम् / पश्चिमया लक्षणेन मैत्रस्य अप्रसिद्धं गमनं लक्ष्यते / / अत्र सूत्रे बहुवचनं विशेषार्थं सूचयति / अन्येनापीति द्विधा व्याख्येयम्-समयादिव्यतिरिक्तेन यावत्तावच्छब्दादिना नाम्ना, नामव्यतिरिक्तेन धात्वादिनापि योगे गौणानाम्नो द्वितीया भवतीति / देवदत्त रहइ कनभावइ ‘भागिनि च प्रतिपर्यनुभिः' (2 / 2 / 37) इति सूत्रे प्रतिशब्दो गौणो गृह्यते / प्रतिभाति इत्यत्र क्रियासम्बद्धो न गौण इति न प्राप्तिः / अतोऽनेन सूत्रेण द्वितीया विधीयते / / 33 / / द्वित्वेऽधोऽध्युपरिभिः // 2 // 2 // 34 // ___ अधस्-अधि-उपरिभिर्युक्ताद्गौणानाम्न एषामेव द्वित्वे सति द्वितीया स्यात्, षष्ठ्यपवादः। अधोऽधो ग्राम ग्रामाः / अध्यधिग्रामं [क्षेत्राणि] / उपर्युपरि ग्रामं ग्रामाः। द्वित्वे इति किम् ? अधः प्रासादस्य / हर्म्यस्योपरि प्रासादः // 34 // ___ अ० सूत्रे बहुवचनं एकद्विबहाविति यथासङ्ख्यनिवृत्त्यर्थं कृतम् / अधोऽधो ग्रामं इत्यादिषु अधस्-अधिउपरिशब्दानां 'सामीप्येऽधोऽध्युपरि' (7 / 4 / 79) इति सूत्रेण द्वित्वम् / गौणात्समयेति बहुवचनबलेन / अधोऽधो ग्रामं ग्रामाः सन्ति / अध्यधि ग्रामं क्षेत्राणि / उपर्युपरि ग्रामं ग्रामाः सन्ति इति ज्ञातव्यानि / एषां अधस्-अधि-उपरि-शब्दानाम् / अधः प्रासादेभ्य इत्यादिषु उत्तराऽधर्यमात्रं विवक्षितम्, न सामीप्यम्, इति द्वित्वाभावः // 34 // सर्वोभयाभिपरिणा तसा // 2 // 2 // 35 // सर्वादिभिस्तसन्तैर्युक्तागौणानाम्नो द्वितीया स्यात् / सर्वतो ग्रामम्, उभयतो ग्रामम् वनानि / अभितो ग्रामं क्षेत्राणि // 35 // ___ अ० तसा-तस्प्रत्यययुक्तात् / / सर्वतो ग्रामं वनातीति ज्ञेयम् / सर्वस्मात् / सर्वतः-'किमन्यादि०' (7 / 2 / 89) इति तस् / उभययोरुभयतः- 'आद्यादिभ्यः' (7 / 2 / 84) तस् / तथा अभिशब्दात् 'पर्यभेः सर्वोभये' (7 / 2 / 83) इति सूत्रेण तस् / अभितः, कोऽर्थः ? उभयतः / परितः, कोऽर्थः ? सर्वतः // 35 // लक्षणवीप्स्येत्थम्भूतेष्वभिना // 2 // 2 // 36 // एष्वर्थेषु वर्तमानादभिना युक्ताद्गौणानाम्नो द्वितीया भवति / वृक्षमभि विद्योतते विद्युत् / अत्र वृक्षो लक्षणम् / विद्योतमाना विद्युल्लक्ष्यम् / अनयोश्च लक्षणलक्ष्यभावः सम्बन्धोऽभिना द्योत्यते / वृक्षवृक्षमभिसेकः। साधुमैत्रो मातरमभि। लक्षणादिष्विति किम् ? यदत्र ममामि स्यात्तदीयताम् / अत्राभिना भागसम्बन्धो योत्यते / योऽत्र मम भागः स्यादित्यर्थः // 36 // ___ अ० इत्थम्भूतः किश्चित्प्रकारमापन्नः / लक्षण-वीप्स्य-इत्थम्भूतेषु अर्थेषु / लक्ष्यते दर्यते येन तल्लक्षणं चिदं वृक्षादि अवयवशः समुदायस्य क्रियया गुणेन द्रव्येन जात्या वा / युगपत्प्रयोक्तुः साकल्येन व्याप्तुमिच्छा वीप्सा तत्कर्म वीप्स्यम् / केनचिद्विवक्षिते विशेषेण भाव इत्थम्भावः तद्विषय इत्थम्भूतः किश्चित्प्रकारमापन्नः सेकः साध्यः वृक्षः साधनं इति साध्यसाधनलक्षणः सम्बन्धो ज्ञातव्यः एकैकस्य वृक्षस्य सेक इत्युदाहरणार्थः / साधुमैत्रो मातरमभि इत्यत्र विषयविषयिसम्बन्धो द्योत्यते / यथा माता विषयः, मैत्रो विषयी, तयोः सम्बन्धः साधुत्वप्रकारजनितोऽभिना