________________ 119 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः ज्ञाप्यते मातृविषये साधुत्वप्रकारं मैत्रः प्राप्त इत्युदाहरणार्थः / / स्यात्- 'असक् भुवि' अस् / सप्तमीयात् 'नास्त्योर्लुक्' (4 / 2 / 90) इति सूत्रेण असो अकारस्य लोपः // दीयताम्-दा धातुः / पञ्चमीताम् / 'ईर्व्यञ्जनेऽयपि' (4 / 3 / 97) इति सूत्रेण दा-आकारस्य ईकारः / अत्र-एतद् / एतस्मिन्नत्र / 'सप्तम्याः' (7 / 2 / 94) इति सूत्रेण त्रप्प्रत्ययः 'ककुत्रानेह' (7 / 2 / 93) इति सूत्रेण एतद्स्थाने अकारः / यो भागो मम आयाति स मम भवत्वित्यर्थः / यदत्र मां प्रति स्यात्तद्दीयताम्, यदत्र मां परि स्यात्तद्दीयतां, यदत्र मामनु स्यात्तद्दीयतामित्युदाहरणत्रयम् / त्रयस्यापि यो मम भाग आभवति स मे दीयतामित्यर्थः // 36 / / __भागिनी च प्रतिपर्यनुभिः // 2 // 2 // 37 // - स्वीक्रियमाणोंऽशो भागः / तत्स्वामी भागी [भागस्वामी] / तत्र [भागिनि अर्थे], लक्षणादिषु चार्थेषु वर्तमानात्प्रति-परि-अनुभिर्युक्ताद्रौणानाम्नो द्वितीया स्यात् / भागिनि-यदत्र मां प्रति मां परि मामनु स्यात्तहीयताम् / लक्षणे-वृक्षं प्रति वृक्षं परि वृक्षमनु विद्योतते विद्युत् / वीप्स्ये-वृक्षं वृक्षं प्रति परि अनुसेचनम् / इत्थंभूते-साधुर्देवदत्तो मातरं प्रति परि अनु / एष्विति किम् ? अनु वनस्याशनिर्गता // 37 // __ अ० वृक्षं वृक्षं परि वृक्षं वृक्षमनुसेचनम् / मातरं परि / मातरमनु / समीपे इत्यर्थः // 37 // __ हेतुसहार्थेऽनुना // 22 // 38 // हेतुर्जनकः, सहार्थस्तुल्ययोगो विद्यमानता च; तद्विषयोऽपि सहार्थ उपचारात् / तयोर्वर्तमानादनुना युक्ताद्गौणानाम्नो द्वितीया स्यात् / जिनजन्मोत्सवमन्वागच्छन्सुराः / देवेन्द्रोपपाताध्ययनमन्वागच्छद्देवेन्द्रः / तेन हेतुनेत्यर्थः / पर्वतमन्ववसिता सेना। नदीमन्ववसिता पुरी। गिरिनदीभ्यां सह सम्बद्धेत्यर्थः / तृतीयापवादो योगः // 38 // ___ अ० निमित्तं / ननु तुल्याद्यर्थयोगे सहादय एव शब्दा वर्तन्ते, न पर्वतादिशब्दा इति कथं पर्वतादिभ्यो द्वितीया इत्याह-तद्विषयोऽपीति / जिनजन्मोत्सवः / तेन हेतुना तेन कारणेन निमित्तेन सुरा आगता इत्यर्थः / देवेन्द्रोपपाताध्ययनध्यानं वर्त्तते, तेन हेतुना तेन निमित्तेन देवेन्द्रः शक्र आगत इत्यर्थः / देवेन्द्रं उप समीपे पातयति कोऽर्थः ? आनयति, अध्ययनध्याता मुनिरिति देवेन्द्रोपपातः / 'कर्मणोऽण्' (5 / 3 / 14) / / अवसितेति-'षोंच अन्तकर्मणि' षो 'षः सो०' (2 / 3 / 98) इति सो / अवपूर्वम्, अवस्यति स्म / अवसिता / गत्यर्थाकर्मक० (5 / 1 / 11) इति क्तः / 'दोसोमास्थ इ.' (4 / 4 / 11) इति सूत्रेण सोन्तस्य इकारः // 38 // उत्कृष्टेऽनूपेन // 2 // 2 // 39 // उत्कृष्टेऽर्थे वर्तमानादनु-उपाभ्यां युक्ताद्गौणानाम्नो द्वितीया स्यात् / अनुसिद्धसेनं कवयः। उपोमास्वाति सङ्ग्रहीतारः / उपजिनभद्रक्षमाश्रमणं व्याख्यातारः [कवयः] तस्मादन्ये हीना इत्यर्थः // 39 // ___ अ० सङ्ग्रहीतीति सङ्ग्रहीतारः / ‘णकतृचौ' (5 / 1 / 48) / ‘स्ताद्यशितोऽत्रोणादेरिट्' (4 / 4 / 32) 'गृलोऽपरोक्षायां दीर्घः' (4 / 4 / 34) / / 39 / / कर्मणि // 2 // 2 // 40 // * गौणानाम्नो द्वितीया स्यात्, कर्मणि कारके / घटं करोति / ओदनं पचति / रविं पश्यति / गां दोन्धि पयः [अजां नयति ग्रामम्] / अथेह कथं न भवति ? क्रियते कटः / कृतः कटः / शत्य पटः / आरूढवानरो