________________ 120 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते वृक्षः / त्यादिकृत्तद्धितसमासैरभिहितत्वात् लोकशास्त्रयोश्चाभिहितेऽर्थे शब्दप्रयोगायोगात् / यत्र पुनरेकद्रव्याधारा प्रधानाप्रधानक्रियाविषयाऽनेका शक्तिर्भवति तत्र प्रधानक्रियाविषयायां शक्ती प्रत्ययैरभिहितायामप्रधानक्रियाविषया शक्तिः / प्रधानशक्त्यनुरोधात् [सामर्थ्यात्] अभिहितवत्प्रकाशमाना विभक्त्युत्पत्ती निमित्तं न भवति / यथा ओदनः पक्त्वा भुज्यतें देवदत्तेन / अत्र भावाभिधायिना क्त्वाप्रत्ययेन ओदनाधिकरणा[ओदनाश्रया] प्रधानपचिक्रियाविषया कर्मशक्तिरनभिहिताऽपि प्रधानभुजिक्रियाविषयात्मनेपदेनाभिहिता [प्रधानभुजिक्रियाविषया तेन आत्मने पदं भवति] इति [इति हेतोः] तद्वत् [अभिहितवत्] प्रकाशमाना द्वितीयोत्पत्तौ निमित्तं न भवति। यथा च ग्रामो गन्तुमिष्यते देवदत्तेनेत्यत्र ग्रामस्य प्रधानेषिक्रियाविषयां कर्मशक्तिमात्मने पदेनाभिदधताऽ. प्रधानगमिक्रियाविषयापि कर्मशक्तिरुपभुक्तेति हितोः कर्मशक्ति] तदभिधानाय [उक्तये] द्वितीयाचतुर्थ्यो न भवतः। गौणत्वं क्रियापेक्षं नाम्नो ज्ञातव्यम्, तेन अजां नयति ग्राममित्यादौ द्विकर्मकप्रयोगे ग्रामाद्यपेक्षयाऽजादेः प्रधानत्वेऽपि गौणत्वं न विहन्यते / इह तु कृतपूर्वी कटम् / भुक्तपूर्वी ओदनम् / व्याकरणं सूत्रयतीत्यादौ यः कृतादिभिः कटादेरभिसम्बन्धः स प्रत्ययेऽर्थान्तराभिधायिन्युत्पन्ने कृतादीनामुपसर्जनत्वानिवर्तते / क्रियया तु सह सम्बन्धोऽस्तीति व्याप्यत्वाव्दितीया भवति // 40 // ___अ० शतेन क्रीतः पटः शत्यः / ‘शतात्केवलादतस्मिन्येको' (6 / 4 / 131) इति सूत्रेण यप्रत्ययः / 'अवर्णेवर्णस्य' (7 / 4 / 68) अकारलोपः / आरूढो वानरो यं वृक्षं स आरूढवानरो वृक्षः / / त्यादिनिष्पन्ना क्रिया प्रधाना शुद्धा इत्युच्यते / कृत्निष्पन्ना क्रिया अशुद्धा अप्रधानक्रिया इत्युच्यते कर्तृकर्मादिकारकरूपाः। एवं स्थिते ग्रामस्य द्वितीयचतुर्हो न भवत इति सम्बन्धः / 'गतेर्नवानाप्ते' (2 / 2 / 63) इति सूत्रेण. द्वितीयचतुर्थ्यां प्राप्नुतः / ग्रामं ग्रामाय गन्तुमिष्यते देवदत्तेन इति प्रयोगो न भवतीति भावः / अयमभिप्रायः-प्रधानाप्रधानक्रियाद्वयस्यापि युगपत्प्रयोगे प्रधानत्यादिक्रियापेक्षयैव विभक्तिर्भवति नाप्रधानकृतक्रियाविषया विभक्तिः / इति ओदनं पक्त्वा भुज्यते देवदत्तेन इति प्रयोगो न भवत्येव / एवं घटः कृत्वा दीयते इति भवति, न तु घटं कृत्वा दीयते इत्यर्थः / कृतपूर्वमनेन इति वाक्ये 'पूर्वमनेन सादेश्चन्' (7 / 1 / 167) इति सूत्रेण इन्प्रत्ययः / 'अवर्णेवर्णस्य' (7 / 4 / 68) सि, ‘इन्हन्पूषार्यम्णः शिस्योः' (1 / 4 / 87) इति दीर्घः / कं कृतपूर्वीकटं इति कटादिसम्बन्धः / एवं भुक्तपूर्वी / भुक्तं पूर्वमनेन इत्यादि / व्याकरणं. अग्रे सूत्रम् / व्याकरणस्य सूत्रं करोतीति वाक्ये 'णिज्बहुलं०' (3 / 4 / 42) णिच्प्रत्ययः। ननु व्याकरणशब्दाद्वाक्ये षष्ठी दृश्यते / उत्पन्ने च णिच्प्रत्यये कथं द्वितीया विभक्तिर्जाता ? उच्यते / योऽसौ सूत्रव्याकरणयोः सम्बन्धः स उत्पन्ने प्रत्यये निवर्तते / सूत्रयतिक्रियासम्बन्धी तु द्वितीयैव भवतीत्यर्थः / सम्बन्धः इनरूपे / गौणत्वात् / क्रियया सहेत्यादि कोऽभिप्रायः ? क्रियावता तद्धितादिप्रत्ययवाच्येन का कटादिसम्बद्धयमानस्तत्क्रियया व्याप्यते इति कर्मत्वं कटस्य सिद्धम् // 40 // क्रियाविशेषणात् // 2 // 2 // 41 // क्रियाया यद्विशेषणं तद्वाचिनो गौणानाम्नो द्वितीया स्यात् / स्तोकं पचति / मन्दं याति / सुखं तिष्ठति / दुःखं जीवति / साधु भाषते / द्वितीयार्थं वचनं न कर्मसंज्ञार्थम् / तेन कृयोगे कर्मनिमित्ता षष्ठी न भवति / ओदनस्य शोभनं पक्ता / सुखं स्थाता / चिरमासिता // 41 // अ० शोभनम् इत्यत्र // 41 //