________________ 121 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः कालाध्वनोाप्तौ // 2 // 2 // 42 // स्वेन सम्बन्धिना द्रव्येण गुणक्रियारूपेण कात्स्न्येन सम्बन्धो व्याप्तिः / अत्यन्तसंयोग इति यावत् / व्याप्तौ द्योत्यायां काले अध्वनि च गौणानाम्नो द्वितीया भवति / [काले] मासं गुडधानाः / मासं कल्याणी। मासमधीते / [अध्वनि] क्रोशं गिरिः / क्रोशं कुटिला नदी / क्रोशमधीते / व्याप्ताविति किम् ? +मासस्य मासे वा ब्यहं गुडधानाः // 42 // - अ० स्वेन कालाध्वनोरित्यपेक्षया आत्मीयेन द्रव्यगुणक्रियारूपेण / कालाध्वनोाप्ताविदं सूत्रं षष्ठयाः सप्तम्या वा बाधकम् / तेन मासम् अधीते क्रोशमधीते इत्यकर्मत्वे उदाहरणद्वयं सूत्रे दर्शितम् / कर्मत्वे पुनः कर्मणीत्यनेन द्वितीया सिद्धा / भावादपीच्छन्त्यन्ये / गोदोहं बुद्धदाः / +मासस्य मासे वा व्यहमित्यस्याग्रे मासस्य मासे वा एकरात्रं कल्याणी / मासस्य मासे वा द्विरधीते / क्रोशस्य क्रोशे वा एकदेशे पर्वतः / क्रोश० कुटिला नदी इत्यादि / कालाध्वभावदेशानामिति द्वितीया / अध्वनि // गुडेन मिश्रा धानाः गुडधानाः / द्वि. अहन्. द्वयोरहोः समाहारे 'द्विगोरनहोऽट्' (7 / 3 / 99) इत्यनेन अट् समासान्तः। 'नोऽपदस्य तद्धिते' (74 / 61) इत्यनेन अन्त्यस्वरादिलोपः / / न्यहम् अत्र समाहारेऽपि 'अहनिर्वृहकलहाः' इति पाठात्पुंस्त्वम् / / 42 / / - सिद्धौ तृतीया // 2 // 2 // 43 // ['सिद्धौ तृतीया' इत्यारभ्य ‘दामः सम्प्रदानेऽधर्म्य आत्मने च' - (2 / 2 / 52) इत्यन्तं यावत् दशसूत्राणि तृतीयाविभक्त्यधिकारे ज्ञातव्यानि] सिद्धौ क्रियाफलनिष्पत्तौ द्योत्यायां कालाध्ववाचिनो गौणानाम्नो यथासङ्ग्यमेकद्विबही टाभ्याम्-भिस्लक्षणा तृतीया [विभक्ति] भवति / व्याप्ती गम्यमानायाम् / मासेन मासाभ्यां मासैर्वाऽऽवश्यकमधीतम् / क्रोशेन क्रोशाभ्यां क्रोशैर्वा प्राभृतमधीतम् / सिद्धाविति किम् ? मासमधीत आचारो नचानेन गृहीतः / द्वितीयापवादो योगः // 43 // __ अ० ‘वशक् कान्तौ' वश्, वशनं वशः 'युवर्णवृदृवशरण गमृद्ग्रहः' (5 / 3 / 28) इत्यनेनाल् / वशं गतं वश्यम् 'हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम्' (7 / 1 / 11) इति तद्धितसूत्रेण वश्यमिति निपातः, निपातनाद् यः / न वश्यमवश्यम् 'नञत्' (3 / 2 / 125) अवश्यस्य भाव आवश्यकम् ‘योपान्त्याद्गुरूपोत्तमादसुप्रख्यादकञ्' (7 / 1 / 72) इति सूत्रेण, अथवा 'चौरादेः' (7 / 1 / 73) इति सूत्रेण अकञ्प्रत्ययः 'प्रायोऽव्ययस्य' (7/4/65) इति अन्त्यस्वरादिलोप इति आवश्यकशब्दसिद्धिः / अध्ययनविशेषम् / / मासमधीते इत्यत्र व्याप्तिमात्रमेव गम्यते न सिद्धिः / पठितः, परमार्थो न गृहीतो न शिक्षितः / / 43 / / _ हेतुकर्तृकरणेत्थम्भूतलक्षणे // 2 // 2 // 44 // हेत्वादिष्वर्थेषु वर्तमानाद्गौणानाम्नस्तृतीया भवति / हेतौ-धनेन कुलम्, अन्नेन वसति विद्यया यशः। कर्त्तरि-चैत्रेण कृतम्, मैत्रेण भुज्यते / करणे-दात्रेण लुनाति, मनसा मेरुं गच्छति / +समेन धावति, +विषमेण धावति, आकाशेन याति / आधारविवक्षायां तु सप्तम्यपि-समे धावति, विषमे धावति, आकाशे याति / इत्थम्भूतलक्षणे-अपि भवान् कमण्डलुना छात्रमद्राक्षीत्, चूलया पब्रिाजकमपश्यत् / तता धान्येनार्थः, धान्येनार्थी, मासेन पूर्वः वाचा निपुणः, गुडेन मिश्रः, गिरिणा काणः इत्यादी हेतौ [अर्थे] कृतभवत्यादिगम्यमानक्रियापेक्षया कर्तरि करणे वा तृतीया // 44 //