________________ 122 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते ___ अ० फलसाधनयोग्यः पदार्थो हेतुरुच्यते / कर्त्ता क्रियाकारकः / करणं कार्यसाधने प्रकृष्टोपकारकम् / इमं किश्चित् छात्नत्वादिप्रकारम्भूत आपन्न इत्थम्भूत उच्यते, स इत्थम्भूतो येनाभिज्ञानेन लक्ष्यते स इत्थम्भूतलक्षण इत्यर्थः / अपिः सम्भावने / कमण्डुलना उपलक्षितं छात्रम्, चूलया उपलक्षितं परिव्राजकमद्राक्षीदित्यर्थः / छात्रत्वादिकं प्रकारमापन्नस्य मनुष्यस्य कमण्डल्वादिलक्षणम्, छात्रहस्ते कमण्डलुभवति इति कमण्डलुना, छात्र उपलक्ष्यते / / अथवा कर्तृकारके करणकारके वा / +समेन मार्गेण ग्रामं धावतीत्यर्थः +विषममार्गेण धावति ग्राममित्यर्थः // 44 // सहार्थे // 2 // 2 // 45 // सहार्थे तुल्ययोगे शब्दादर्थाद्वा गम्यमाने विद्यमानताया च सत्यां गौणानाम्नुस्तृतीया स्यात् / [सहायें] पुत्रेण सहागतः / पुत्रेण सह स्थूलः [पुत्रसमान इत्यर्थः] पुत्रेण सह गोमान् / सहैव दशभिः पुत्रैर्भार वहति गर्दभी / अर्थग्रहणात्-पुत्रेण साकम्, समम्, सार्धम्, अमा। पुत्रेण युगपत् / अर्थाद्गम्यमाने-पुत्रेणागतः, तथा सुखेनास्ते, दुःखेन जीवति, अनायासेन करोतीत्यादौ आस्यादिक्रियाभिः सह सुखादेः सहार्थोऽस्ति। गौणादित्येव-सहोभी चरतो धर्मम् / चैत्रमैत्राभ्यां सह कृतम्, अत्र तु कर्तर्येव तृतीया // 46 // अ० सहार्थस्तुल्ययोगो विद्यमानता च उच्यते / विद्यमानतायाम्-पुत्रेण समम्, पुत्रेणामा। 'आसिक् उपवेशने' आस् / जीवत्यादिभिः क्रियाविशेषणत्वविवक्षायां तु द्वितीयैव भवति-यथा सुखमास्ते, दुःखं जीवति, अनायासं करोतीत्यादि // 45 // यद्भेदैस्तद्वदाख्या // 2 // 2 // 46 // : ___ यस्य भेदिनः प्रकारवतोऽर्थस्य भेदैः प्रकारैर्विशेषैस्तद्वतस्तत्प्रकारवदर्थयुक्तस्य आख्या [कोऽर्थः] निर्देशो भवति, तद्वाचिनो गौणानाम्नस्तृतीया स्यात् / अक्ष्णा काणः, पादेन खञ्जः, हस्तेन कुणिः [टूटउ], शिरसा खल्वाटः [टालीउ], प्रकृत्या दर्शनीयः, प्रायेण वैयाकरणः, गोत्रेण काश्यपः, जात्या विप्रः, स्वभावेनोदारः, निसर्गेण प्राज्ञः, वर्णेन गौरः, बाहुभ्यां दृढः / एषु सर्वत्र पुरुषः [स काणादिः] तद्वान् सम्बद्धयते / यद्ग्रहणं प्रकृतिनिर्देर्शार्थ तत इत्याक्षेपात् / भेदग्रहणं किम् ? यष्टीः प्रवेशय, कुन्तान् प्रवेशय / तद्भहणं किम् ? अक्षि काणं पश्य / आख्याग्रहणं प्रसिद्धिपरिग्रहार्थम् / तेन अक्ष्णा दीर्घ इति न भवति // 46 // ___ अ० यस्य भेदिनश्चक्षुरादेः, प्रकारवतः काणत्वादियुक्तस्य अर्थस्य, भेदैः काणत्वादिभिः, तद्वतः चक्षुरादिमतः पुरुषादेः कीदृशस्य तत्प्रकारवदर्थयुक्तस्य / कोऽर्थः ? स प्रसिद्धः प्रकारः काणत्वादिर्विद्यतेऽस्य चक्षुरादेः / स प्रकारवान् / तत्प्रकारवांश्वासावर्थश्च / तेन युक्तः / तस्य सकाणचक्षुषो मैत्रादेः, कोऽभिप्रायः ? येन भेदिना चक्षुरादिना कृत्वा स काणः पुरुष आख्यायते, तस्य चक्षुरादिशब्दवाचिनोऽक्षिपादहस्तादिरूपस्य नाम्नः परतो विभक्तिः तृतीया भवतीत्यर्थः / ननु अक्ष्णा काण इत्यादिषु यथासम्भवं कृतभवत्यादिक्रियाध्याहारेण कर्तृकरणयोस्तृतीया भविष्यति, किमनेन य दैरिति सूत्रेण ? सत्यम् / सम्बन्धे षष्ठयपि प्रापुयात् इति सम्बन्धषष्ठीनिवृत्त्यर्थमिदं वचनं कृतम् ? यदि पुनर्भेदग्रहणं न क्रियेत तदा 'येन तद्वदाख्या' इति सूत्रे क्रियमाणे यष्टीः प्रवेशय, कुन्तान् प्रवेशय इत्यत्रापि स्यात् / अत्र हि यष्टयादिना तद्वान् उपचारेणाख्यायते / / 46 / / कृतायैः // 2 / 2 / 47 // कृत इत्येवं प्रकारैर्निषेधार्थैर्युक्ताद्गौणानाम्नस्तृतीया स्यात् / कृतं तेन, भवतु तेन, अलमतिप्रसङ्गेन,