________________ 123 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः किं गतेन / कृतं भवतु अलं किं इत्यादि कृतादयः // 47 // ____ अ० सर्वत्र कृतादीनां सृतमित्यर्थः // 47 // काले भानावाधारे // 2 // 2 // 48 // - काले वर्तमानानक्षत्रवाचिनो गौणानाम्न आधारे तृतीया स्यात्, नवा / पुष्येण पुष्ये पायसमश्रीयात् / काले इति किम् ? पुष्येऽर्कः / भादिति किम् ? तिलपुष्पेषु यत्क्षीरम् / तिलच्छेदेषु यद्दधि / आधार इति किम् ? अद्य पुष्यं विद्धि // 48 // __ अ० पुष्ये-पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः ‘चन्द्रयुक्तात्काले लुप्त्वऽप्रयुक्ते' (6 / 2 / 6) इति सूत्रेण अण्प्रत्ययः / ‘चन्द्रयुक्ता' दित्यनेनैव सूत्रेण कृतस्य अणो लोपः कार्यः, पुष्य इति सिद्धम् / पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात् / पयस्शब्दः-पयसि ‘संस्कृते भक्ष्ये' (6 / 2 / 140) इति सूत्रेण अण्प्रत्ययः वृद्धिः / अश्नीयात् 'अशश् भोजने' अश् सप्तमीयात् 'क्यादेः' (3 / 4 / 79) इति ना 'एषामीय॑ञ्जनेऽदः' (4 / 2 / 97) इति ना इत्यस्य ईकारः, अश्नीयात् / / स्थाल्या पचते इत्यादिवत् आधारस्य करणविवक्षायां तृतीया सिद्धयत्येव किं सूत्रेण ? सम्बन्धषष्ठयपि प्राप्ता इति षष्ठी मा भूदिति वचनम् / काले भेति सूत्रं कृतमिति भावः / तिलपुष्पेषु इत्यादि-अत्र स्वेनात्मनाऽवच्छिद्यते विशिष्यते यस्तिलच्छेदतिलपुष्पविशिष्टः कालः कोऽर्थः 1 यत्र काले तिलाः पुष्पन्ति तिलानामुच्छेदाश्च भवन्ति स कालः तिलपुष्प इति तिलच्छेद इत्युच्यते / कालो वाच्योऽस्ति परं नक्षत्रं वाच्यम् / 48|| प्रसितोत्सुकावबद्धैः / / 2 / 2 / 49 // एतैर्युक्तादाधार वर्तमानाद्गौणांनाम्नस्तृतीया वा स्यात् / केशैः प्रसितः, केशेषु प्रसितः / एवं गृहेणोत्सुकः, गृहे उत्सुकः / केशैः केशेषु वावबद्धः / आधार इत्येव-मनसा प्रसितः उत्सुकः अवबद्धः // 49 // ___ अ० इदमपि सूत्रं षष्ठीबाधनार्थं कृतम् / सूत्रे बहुवचनम् एकद्विबहाविति यथासङ्ख्यनिवृत्त्यर्थमिति भावः / / प्र. प्रकर्षेण सितो बद्धः प्रसितः नित्यप्रसक्त इत्यर्थः / प्रसितशब्दस्य शुक्लगुण. क्रियार्थ. उभयार्थवाचित्वेऽपि, अत्र सूत्रे अवबद्धोत्सुकसाहचर्यात् क्रियार्थो बद्धलक्षण एव प्रसितो गृह्यते न शुक्लवाची // 49 // . व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् // 2 // 2 // 50 // व्याप्ये वर्तमानेभ्यो द्विद्रोणादिभ्यो गौणनामभ्यो वीप्सायां तृतीया वा स्यात् / द्विद्रोणेन धान्यं क्रीणाति, द्विद्रोणं द्विद्रोणं क्रीणाति / द्विद्रोणादयः प्रयोगगम्याः // 50 // अ० द्विद्रोणेनेत्यादि-वीप्सायां तृतीयाविभक्तिः कृता इति तृतीयान्तस्य पदस्य द्विर्वचनं न भवति / द्विद्रोणं द्विद्रोणमत्र तु कर्मणि द्वितीया कृता न वीप्सायाम्, अतो द्वितीयान्तस्य द्विर्वचनं भवति-द्विद्रोणं द्विः क्रीणाति इति भावः। द्विद्रोणौ मानमस्य धान्यस्य द्विद्रोणं 'मानं' (6 / 4 / 169) इति सूत्रेण इकण्, 'अनाम्न्यद्विः प्लुप्' (6 / 4 / 141) इति सूत्रेण इकण लुप्यते / अथवा द्वौ द्रोणौ मेयावस्य धान्यस्य, कोऽर्थः ? अनेन धान्येन द्वौ द्रोणौ मीयेते इति वाचित्वाद् द्रोणस्य / अथवा द्वयोनॊणयोः समाहारो द्विद्रोणम् / पात्रादित्वात्स्त्रीत्वाभावः / सहस्रेणाश्वान् क्रीणाति सहस्रं क्रीणातीत्यपि ज्ञेयम् // 50 // समो ज्ञोऽस्मृतौ वा // 2 // 2 // 51 // अस्मृतौ वर्तमानस्य सम्पूर्वजानातेर्यव्याप्यं तत्र वर्तमानानाम्नः [गौणात्] तृतीया वा स्यात् / मात्रा