________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते / सञ्जानीते, मातरं सञ्जानीते। ज्ञ इति किम् ? मातरं संवेत्ति / अस्मृताविति किम् ? मातरं सञ्जानाति मातुः सञ्जानाति-स्मरतीत्यर्थः // 51 // अ० सञ्जानीते / 'ज्ञांश् अवबोधने' ज्ञा सम्पूर्वः / 'सम्प्रतेरस्मृतौ' (3 / 3 / 69) इत्यात्मनेपदम्, वर्तमानाते 'क्यादेः' (3 / 479) ना 'एषामीळञ्जनेऽदः' (4 / 2 / 97) इति ई, 'जाज्ञाजनोऽत्यादौ' (4 / 2 / 104) इत्यस्य जा इत्यादेशः / व्याप्येति किम् ? मातरं स्वरेण सञ्जानीते-करणे विकल्पो न भवति / मातुः संज्ञाता इत्यत्र परत्वात् कृति षष्ठयेव / नवाधिकारे पुनर्वाशब्दकरणमुत्तरत्र वानिवृत्त्यर्थम् // 51 // दामः सम्प्रदानेऽधर्ये आत्मने च // 2 // 2 // 52 // सम्पूर्वस्य दामः सम्प्रदानेऽधर्म्यरूपे वर्तमानानाम्न [गौणात्] स्तृतीया भवति / तत्सन्नियोगे च दाम आत्मनेपदं स्यात् / दास्या सम्प्रयच्छते, कामुकः सन्द्रव्यं दास्यै ददातीत्यर्थः / दाम इति किम् ? दास्यै सन्ददाति / अधर्म्य इति किम् ? पत्न्यै सम्प्रयच्छति // 52 // अ० 'दामः सम्प्रदाने०' इति सूत्रे प्रशब्दोपसर्ग विना केवलसम्पूर्वकस्य दामः प्रयोगो न घटते अतः सम् प्र इति उपसर्गद्वयपूर्वको दाम् गृह्यते, तस्यैव दामः सम्पूर्वस्य अधर्म्यरूपं सम्प्रदानं प्रवर्त्तते इत्यर्थः / धर्म. धर्मेण प्राप्यं धर्म्यम्, अथवा धर्मादनपेतं धयं 'हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम्' इति निपातः, निपातनात् यः / अथवा न धर्म्यम्, अधर्म्यम् / तस्मिन् / 'दाम् दाने' सम्प्रपूर्वः, ते, 'श्रौतिकृवुधिवुपा०' (4 / 2 / 108) इति दामस्थाने यच्छ आदेशः // 52 // __चतुर्थी // 2 // 2 // 53 // [चतुर्थी विभक्ति अधिकारे सूत्राणि 16] सम्प्रदानकारके गौणानाम्न एकद्विवहौ यथासङ्ग्यं डे-भ्यां-भ्यस्-लक्षणा चतुर्थी विभक्तिः स्यात् / द्विजाय गां दत्ते / शिष्याभ्याम् धर्ममुपदिशति / मुनिभ्यो भिक्षां ददाति / पत्ये शेते। राज्ञे विज्ञपयति // 53 // अ० दत्ते 'डुदांग्क् दाने' दा, वर्तमानाते ‘हवः शिति' (4 / 1 / 12) द्वित्वम्, ‘ह्रस्वः' (4 / 1 / 39) 'भश्चातः' (4 / 2 / 96) इति धातोराकारलोपः 'अघोषे प्रथमोऽशिटः' (1 / 3 / 50) दस्य त् / शेते- 'शी स्वप्ने' 'शीङ ए: शिति' (4 / 3 / 104) इति एकारः / विज्ञपयति- 'ज्ञांश् अवबोधने' विपूर्वम्, विजानन्तं प्रयुङ्क्ते 'प्रयोक्तृ०' (3 / 4 / 20) णिग् 'अतिरीब्ली.' (4 / 2 / 21) इति पोऽन्तः ‘मारणतोषणनिशाने ज्ञश्च' (4 / 2 / 30) इति ह्रस्वः // 53 // तादर्थे // 2 // 2 // 54 // तस्मै इदं यत् प्रवृत्तं तत्तदर्थम् तस्य भावे तादर्थ्य सम्बन्धविशेषे द्योत्ये गौणानाम्नः षष्ठ्यपवादश्चतुर्थी स्यात् / यूपाय दारु / रन्धनाय स्थाली // 54 // अ० अथवा कार्यस्य कारणं प्रति प्रयोजकता तादर्थ्यमुच्यते // 54 // - रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु // 2 // 2 // 55 // रुच्यर्थः कृप्यर्थैर्धारिणा च धातुना योगे यथाक्रमं प्रेये विकारे उत्तमणे च वर्तमानानाम्न चतुर्थी स्यात्। रुच्यर्थेः प्रेये [कोऽर्थः] प्रीयमाणे-मैत्राय रोचते धर्मः, च्छात्राय स्वदते दधि / [मैत्रादेः] / तस्याभिलाषमुत्पादयती. त्यर्थः / कथं रोचते मम घृतं सह मुद्रैः, शालयो [रोचन्ते शालयः] दधिशरं कुकुराश्च' ? [विवक्षातः कारकानि भवन्तीति वचनात्] सम्बन्धमात्रविवक्षायां षष्ठ्येव / कृप्यर्थैर्विकारे-मूत्राय कल्पते यवागूः, उच्चाराय सम्पयते