________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 125 यवानम्, श्लेष्मणे जायते दधि, तद्विकाररूपमापद्यते इत्यर्थः / विकार इति किम् ? चैत्रस्य कल्पन्ते धनानि+ सिम्पद्यन्ते शालयः] / धारिणोत्तमणे-मैत्राय शतं धारयति // 55 // ... अ० रुचिकृप्येत्यत्र वचनसाम्यं यथासङ्ख्यार्थम् / बहुवचनं तु एकद्विबहाविति यथासङ्ख्याऽभावार्थं ज्ञातव्यम् / उत्तम! धनिको द्रव्यपतिर्द्रव्यदाता उच्यते, अधमर्णो ग्राहको व्याजार्पक उच्यते / प्रेयसम्बन्धादभिलाषकरणार्थस्य रुचेर्ग्रहणम् तेनेह न भवति-सर्वेषामेतद्रोचते तव कथम् ? अत्र रोचते कोऽर्थः-प्रतिभाति / किं तव विचार आयातीत्यर्थः / तथा शृणाति पित्तमिति शरम्-सतरं दधि / ईदृशं सतरं दधि मम रोचते / अथवा कुकुरा अर्द्धस्विनमापादयो मम रोचन्ते / ‘रोचते कविकथा सुविचित्रा लम्बहेमवसनाश्च युवत्यः' इति काव्यं सम्पूर्णम्, क्वापि रोचते कापि रोचन्ते इति ज्ञेयम् / अथवा 'घृतमेव ममापि रोचते शृत (पक्कम्) शीतं च सशर्करं पयः' इत्यपि ज्ञेयम् / कल्पते 'कृपौङ् सामर्थ्य' कृप वर्तमानातेः शव् 'लघोरुपा०' (4 / 3 / 4) गुणः 'ऋरल्लं कृपोऽकृपीटादिषु' (2 / 3 / 99) इति सूत्रेण रेफस्य लकारः / यत्र क्लृप्यते इति क्रिया तत्र 'ऋरल्लं०' इत्यनेन ऋकारस्य लुकारः / तथा मूत्रं सम्पद्यते यवागूः, शृङ्गाच्छरो जायते, गोमयाद्वृश्चिकः प्रभवतीत्यादयः / कृप्यर्थत्वाच्चतुर्थ्यां प्राप्तायामपि विवक्षातः कारकानीति वचनादपायविवक्षायां पञ्चम्या कृत्वा सिद्धयन्तीति भावः / इयमवचूरिः *तद्विकाररूपमापद्यते इत्यत्र ज्ञातव्या / गौणादित्येव-मूत्रमिदं सम्पद्यते यवागूः / इयं व्यावृत्ति+र्धनान्यग्रे ज्ञेया / अत्र मूत्रस्य विशेष्यार्थम्, क्रियया सह मूत्रं प्रथमं सम्बन्धनीयमिति मूत्रस्य मुख्यता न गौणता // 55|| . प्रत्याङः श्रुवार्थिनि // 2 // 2 // 56 // प्रत्याङ्मयां परेण शृणोतिना युक्तादर्थिन्यभिलाषुके वर्तमाना [गौणात्] नाम्नश्चतुर्थी स्यात् / द्विजाय गां प्रतिशृणोति आशृणोति वा // 56 // . अ० द्विजाय गां प्रतिशृणोति, द्विजाय गामाशृणोति / कोऽर्थः ? दाता, याचितो वा अयाचितो वा, याचकद्विजनिमित्तं गोदानमङ्गीकरोतीत्यर्थः / 'श्रृंट् श्रवणे' श्रु, वर्तमानातिव् ‘स्वादेः भुः' (3 / 4 / 75) 'श्रौतिकृवु०' (4 / 2 / 108) इत्यादिना श्रुस्थाने श्रृआदेशः // 56 / / - प्रत्यनोगुणाख्यातरि // 2 / 2 / 57 // . प्रत्यनुभ्यां परेण गृणातिना योगे आख्यातरि वर्तमानानाम्न [गौणात्] चतुर्थी भवति / गुरवे प्रतिगृणाति अनुगृणाति वा, गुरूक्तमनुवदति, प्रशंसन्तं वा प्रोत्साहयतीत्यर्थः // 57 // अ० 'गृश् शब्दे' गृधातुः, गृणाति ‘प्वादेर्हस्वः' (4 / 2 / 105) इति ह्रस्वः // 57 // यद्वीक्ष्ये राधीक्षी // 2 / 2 / 58 // - वीक्ष्यं विमतिपूर्वकं निरूपणीयम् / विप्रश्नविषय [लाभालाभादिविचार इत्यभिप्रायः] इति यावत् / तद्विषया क्रियापि [पर्यालोचनादिका क्रियापि वीक्ष्यमित्युच्यते] वीक्ष्यम् / यत्सम्बन्धिनि वीक्ष्ये राधि-ईक्षी वर्तेते, तस्मिन्नर्थे वर्तमानानाम्नः [गौणात्] सामर्थ्याद्राधीक्षीभ्यामेव युक्ताचतुर्थी स्यात् / मैत्राय राध्यति, मैत्रायेक्षते / यद्ग्रहणं किम् ? मैत्रस्य शुभाशुभमीक्षते / वीक्ष्यग्रहणं किम् ? मैत्रमीक्षते // 58 // अ० यत्सम्बन्धिनि इत्यादि-यस्य कस्य देवदत्तमैत्रादेः सम्बन्धे लाभादिकं वीक्ष्यं दैवज्ञस्य प्रवर्त्तते / तस्मिन्नर्थे वीक्ष्यार्थे कोऽर्थः ? शुभाशुभविचारे इत्यर्थः / एतेन मैत्रादिशब्दात् परतश्चतुर्थी भवति न शुभाशुभात् परतः / मैत्रा