________________ 126 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलते येक्षते शुभाशुभम् इति प्रयोगः, न तु मैत्रस्य शुभाशुभाय ईक्षते // ‘राधं साधं च संशुद्धौ' 'ईक्षि दर्शने' इति धातुद्वयम् / मैत्राय राध्यति मैत्राय ईक्षते कोऽर्थः ? मैत्रस्य दैवं शुभाशुभं कर्म दैवज्ञः पर्यालोचयतीत्यर्थः / मैत्राय ईक्षते / अत्र स्त्रीभ्य ईक्षते इत्यपि उदाहरणं ज्ञातव्यम् / अस्यार्थः-स्त्रीणां कीदृशोऽभिप्राय इति विमतिपूर्वकं रागी निरूपयति / राधीक्ष्यर्थधातुयोगेऽपि चतुर्थीमिच्छन्त्येके / मैत्राय राधयति साधयति पश्यति जानाति इति प्रयोगं दर्शयन्ति / अयं विशेषो ज्ञातव्यः-शुभाशुभशब्दात् चतुर्थी मा भूत् तर्हि मैत्रशब्दात् चतुर्थी कथं न भवति ? उच्यते राधीक्षीभ्यां योगाभावात् / एवं तर्हि मैत्राय राध्यतीत्यादावपि सम्बन्धाभावाचुतुर्थी न / न / सूत्रोदाहरणे मैत्रेणैव सह राधीक्ष्योः सम्बन्धो विवक्षितः / अन्यस्य शुभाशुभादेरनुक्तत्वात् // 58 // उत्पातेन ज्ञाप्ये // 2 / 2 / 59 // ___उत्पातं आकस्मिकं निमित्तम्, तेन ज्ञाप्ये ज्ञाप्यमानेऽर्थे गौणानाम्नश्चतुर्थी भवति / वाताय कपिला [अतिरिक्ता] विद्युदातपायातिलोहिनी / पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् // 59 // ____ अ० वातायेत्यादि-वात-आतप-वर्षा-दुर्भिक्षाणि स्वकारणेभ्यः स्वभावादेवोत्पद्यन्ते / परं विद्युता उत्पातनिमित्तेन ज्ञाप्यन्ते इति तादर्थ्यं नास्त्येव अत उत्पातेनेति सूत्रं कृतम् / इदमपि सूत्रं षष्ठयपवादकमित्यर्थः / ज्ञाप्यज्ञापकलक्षणसम्बन्धविवक्षया षष्ठी प्राप्नोति इति भावः / / 59|| श्लाघहस्थाशपा प्रयोज्ये // 2 // 2 // 6 // ज्ञाप्ये इत्यनुवर्तते / श्लाघादिभिर्धातुभिर्युक्तात् ज्ञाप्ये प्रयोज्येऽर्थे वर्तमानानाम्नश्चतुर्थी स्यात् / मैत्राय श्लाघते, मैत्राय हुते, मैत्राय तिष्ठते, मैत्राय शपते / प्रयोज्य इति किम् ? मैत्रायात्मानं श्लाघते // 6 // ___ अ. 'श्लाघृङ् कत्थने' 'हुंङ् अपनयने' मैत्राय श्लाघति इत्यादीनामयमर्थः-श्लाघाह्रवस्थानशपथान् कुर्वाणो देवदत्तः स्वं परं वा जानन्तं ज्ञापनीयं मैत्रं ज्ञापयति प्रवर्त्तयति प्रयोजयतीत्यर्थः / कः परमार्थः ? किश्चिद्वस्तु गोप्यादिकं जानन्तमपि मैत्रं तत्सूचकेन स्थानेन देवदत्तो ज्ञापयतीत्यर्थः / आत्मशब्दात्परतश्चतुर्थी न भवति / मैत्रमात्मने श्लाघते इति प्रयोगो मा भूत् // 60 // तुमोऽर्थे भाववचनात् // 2 // 2 // 6 // तुमोऽर्थे ये भाववाचिनो घञादयः प्रत्यया विधास्यन्ते, तदन्ताद्गौणानाम्नः स्वार्थे चतुर्थी भवति। पाकाय व्रजति / एवं पक्तये [ब्रजति] पचनाय [व्रजति] इज्यायै व्रजति पक्तुं यष्टुं वा व्रजतीत्यर्थः / तुमोऽर्थ इति किम् ? पाकस्य पाकेन वर्तते अध्ययनेन वसति [अत्र तुमो विषयता नहि व्रजतीत्युपपदाभावात्] भाववचनादिति किम् ? पक्ष्यतीति पाचकस्य / गां दास्यतीति गोदायस्य परिसर्या / तुम् इति व्यस्तनिर्देश उत्तरार्थः // 61 // ' अ. भावं वक्तीति भाववचनः 'रम्यादिभ्यः कर्त्तरि' (5 / 3 / 126) इति अनट् / 'क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्ती' (5 / 3 / 13) इति सूत्रेण तुम्. वक्ष्यते / तुमोऽर्थे सति यत्र प्रयोगे पाकाय व्रजतीत्यादिवत् भावप्रत्ययान्तशब्दात्परतो व्रजति याति पचति भवति इत्यभिप्रायः सूच्यते तत्रैव भावप्रत्ययान्तशब्दाच्चतुर्थी भवति इत्यभिप्रायः आदिशब्दात् क्ति अनट् क्यप् इति = तीत्यादिकं उपपदं भवति / तत्र तुमोऽर्थो भवति / तत्र तुम्प्रत्ययार्थो गम्यते / पाकाय व्रजति-अत्र पच् पक्ष्यते इति व्रजति इति वाक्ये 'भावाऽकोंः ' (5 / 3 / 18) घञ् / पक्तये अत्र पचा पक्ष्यते इति व्रजति इति वाक्ये ‘गापापचो भावे' (5 / 3 / 95) इति सूत्रेण क्तिः / पचनाय व्रजति अत्रापि पक्ष्यते इति