________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः व्रजति इति वाक्ये अनट् / इज्यायै अत्र पक्ष्यते इति व्र० आस्यटि व्रजयजक्यप् / / परिसरणं परिसर्या ‘परेः सृचरेर्यः' (5 / 3 / 102) इति यः / पाकेनेत्यादौ तु भावमात्रमस्ति परं क्रियार्थोपपदप्रत्ययो नहि / क्रिया सह सम्बन्धोऽपि पश्चाद्भवति इति हेतौ तृतीयाऽत्र भवति / / ‘क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्ती' इति तुम्प्रत्ययेनैव तादर्थ्यस्योक्तत्वाच्चतुर्थी न प्राप्नोतीति शेषषष्ठीप्रसङ्गः, हेतुहेतुमद्भावादिविवक्षायां वा हेतुतृतीयाऽपि प्राप्नोति इति चतुर्थ्यर्थं तुमोऽर्थो भावेति सूत्रं कृतम् // 61 / / गम्यस्याप्ये // 2 // 2 // 12 // यस्य [तुमः] अर्थो गम्यते न च शब्दः प्रयुज्यते स गम्यः, तस्य तुमो यदाप्यं तन्याप्यम्, आप्ये [व्याप्ये] वर्तमाना [गौणात्] नाम्नश्चतुर्थी स्यात्; द्वितीयापवादः / एधेभ्यो ब्रजति फलेभ्यो ब्रजति, एधादीनाहर्तु ब्रजतीत्यर्थः [एधान् फलानि चाहत्तुं व्रजतीत्यर्थः] / गम्यस्येति किम् ? एधानाहतुं व्रजति / तुम इत्येव-प्रविश पिण्डी द्वारम् // 62 // ___ अ० प्रविश पिण्डीमित्यस्यार्थोऽयम्-गृहे प्रविश पिण्डी भक्षय द्वारं पिधेहि इति गम्यपदानि ज्ञातव्यानि अत्रोदाहरणे // 62 / / गतेर्नवाऽनाप्ते // 2 / 2 / 63 // . गतिः पादविहरणम् [पदाभ्यां चङ्कमणम्] / गतेराप्येऽनाप्ते [कोऽर्थः]ऽसम्प्राप्ते वर्तमानानाम्नश्चतुर्थी वा स्यात् / ग्रामाय गच्छति ग्रामं गच्छति / नगराय व्रजति, नगरं व्रजति / उत्पथेन पथे पन्थानं वा गच्छति। गतेरिति किम् ? रविं पश्यति, तथा स्त्रियं गच्छति [जानातीत्यर्थः] मनसा मेरुं गच्छति [जानातीत्यर्थः] इत्यत्र गमिर्ज़ापनार्थः / आप्य इत्येव-ग्रामादागच्छति / अनाप्त इति किम् ? पन्थानं गच्छति / कृयोगे परत्वात्पठयेव-ग्रामस्य गन्ता // 63 // अ० उत्क्रान्तः पन्थानमुत्पथः 'ऋक्तः पथ्यपोऽत्' (7 / 3 / 76) इति अत्समासान्तः // 63 // मन्यस्यानावादिभ्योऽतिकुत्सने // 2 // 2 // 6 // अतिकुत्सने मन्यतेराप्ये वर्तमानानाम्नो नावादिगणवर्जिताचतुर्थी वा भवति / न त्वा तृणाय मन्ये [न मन्ये] न त्वां तृणं मन्ये / एवं न त्वा बुसाय बुसम्. न त्वा लोष्टाय लोष्टम्, न त्वा शुने श्वानं मन्ये / तृणादपि न मन्ये / तृणादेरपि निकृष्टं मन्ये इति कुत्सयते / मन्यस्येति किम् ? न त्वा तृणं चिन्तयामि। श्यनिर्देशः किम् ? न त्वा तृणं मन्चे / अनावादिभ्य इति किम् ? न त्वां नावं मन्ये, न त्वा अनं मन्ये, न त्वा शुकं शृगालं काकं मन्ये / कुत्सन इति किम् ? न त्वा रत्नं मन्ये, न ते मुखं चन्द्रं मन्ये / तथा न त्वा तृणस्य मन्ता-अत्र कृयोगो परत्वात्पष्ठी // 6 // - अ० कुत्सयते 'कुत्सिण अवक्षेपे निन्दायाम्' कुत्स् 'चुरादिभ्यो णिच्' (3 / 4 / 17) / अति कोऽर्थः ? अतीव अतिशयेन कुत्स्यते अनेन इति अतिकुत्सनम् अतिनिन्दायामित्यर्थः / मन्ये इत्यत्र 'बुधिं मनिं च ज्ञाने' वर्तमानाए 'दिवादेः श्यः' (3 / 4 / 72) 'लुगस्यादेत्यपदे' (2 / 1 / 113) 'बुसच् उत्सर्जने' बुस्यति त्यजति उपादेयभावमिति बुसः 'नाम्युपान्त्य०' (5 / 1 / 54) इति कप्रत्ययः / ननु नावानयोरत्यन्तोपकारकत्वात् कथं नावानयोरतिकुत्सनत्वं गम्यते इत्याह-नावानयोरपि परप्रणेयताऽनायासोच्छेद्यताऽचेतनताविनश्वरत्वैरतिकुत्सनत्वं भवति / परप्रणेयता