________________ 128 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते कोऽर्थः ? परेण स्वेच्छयाभिमतं स्थानं परायत्तवृत्तित्वात् प्रकर्षेण नीयते इति परप्रणेयः, तस्य भावः परप्रणेयता, अतोऽतिकुत्सनत्वम् / कुत्स्यतेऽनेनेति करणाश्रयणात् न त्वां तृणाय मन्ये इत्यादौ युष्मदः परतश्चतुर्थी न भवति। मन्वे इत्यत्र 'मनूयि बाधने' मन् वर्तमानाए ‘कृन्तनादेरुः' (3 / 4 / 83) न त्वा रत्नं मन्ये इत्यादिनाऽतिप्रशंसा प्रख्यायते तथाहि-त्वां रत्नादप्यधिकगुणं मन्ये / रत्नं हि पाषाणप्रायं नच त्वं पाषाणः इति प्रशंसा / चन्द्रादपि त्वन्मुखं निष्कलङ्क निर्मलं मन्ये / रत्नं हि पाषाणप्रायं नच त्वं पाषाणः इति प्रशंसा / चन्द्रादपि त्वन्मुखं निःकलई निर्मलं मन्ये / चन्द्रो हि सकलङ्कः कदाचिन्मेघादिना विच्छाय इति रत्नचन्द्रादिभ्यस्त्वां गुणाधिकं मन्ये इति प्रशंसा। उक्तकर्मणि तु न त्वं बुसो मन्यसे मया, न चैत्र, श्वा मन्यते मया / अत्र विशेष्यविशेषणभावेन उभयमपि कर्म उक्तम् / यथा कटः क्रियन्ते वीरणानि-इयमवचूरिः परत्वात्षष्ठी इत्यक्षर अग्रतो ज्ञातव्या // 64 // हितसुखाभ्याम् // 2 // 2 // 65 // हितसुखाभ्यां युक्ता [गौणात् नाम्नश्चतुर्थी वा स्यात् / आतुराय [रोगातय] आतुरस्य वा हितम् / चैत्राय चैत्रस्य वा सुखम् // 65 // तद्भद्रायुष्यक्षेमार्थार्थेनाशिषि // 2 // 2 // 66 // ___ अर्थशब्दः प्रत्येकमभिसम्बध्यते / तच्छब्देन हितसुखपरामर्शः / हिताद्यधैर्युक्ता[गौणात्]नाम्न आशिषि गम्यमानायां चतुर्थी वा भवति / हितार्थ.-हितं जीवेभ्यो भूयात् [आशीर्यात् ] हितं जीवानां भूयात् / एवं पथ्यं मैत्राय मैत्रस्य भूयात् / सुखार्थ. सुखं प्रजाभ्यो भूयात् सुखं प्रजानाम्, शर्म भवताद्भव्येभ्यः भव्यानां वा। भद्रार्थ. भद्रं भद्रं कल्याणमस्तु जिनशासनाय जिनशासनस्य वा। आयुष्यार्थ.-आयुष्यं दीर्घमायुः चिरञ्जीवितमस्तु मैत्राय मैत्रस्य वा / क्षेमार्थ. क्षेमं शिवं कुशलं भूयात्सङ्घाय सङ्घस्य वा / अर्थार्थ.-अर्थः प्रयोजनं कार्य भूयाच्चैत्राय चैत्रस्य वा / आशिषीति किम् ? आयुष्यं प्राणिनां घृतम् // 66 // ____ अ० तच्च भद्रं च आयुष्यं च क्षेमं च अर्थश्च तद्भद्रायुष्यक्षेमार्थाः तेषामर्थो यस्य सः, तेन हितार्थ-सुखार्थभद्रार्थ-आयुष्यार्थ-क्षेमार्थ-अर्थार्थशब्दोंगे इत्यर्थः / हितसुखाभ्यां पूर्वेण विकल्पः सिद्ध एव, अत्र तु सूत्रे तदर्थार्थहितार्थैः सुखार्योगैरित्युक्त्या हितसुखशब्दग्रहणं कृतमिति भावः / भद्रक्षेमार्थयो ममालायामेकार्थत्वेऽपि क्षेममापदोऽभावः भद्रं तु सम्पदामुत्कर्ष इत्यर्थभेदात् सूत्रे द्वयोरपि पृथगुपादानम् / पथानपेतं पथ्यम् 'हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम्' (7 / 1 / 11) इति निपातः / दीर्घमायुर्देवदत्ताय देवदत्तस्य वा, आयुष्यमस्तु मैत्राय मैत्रस्य वा, क्षेमं भूयात्सङ्घाय सङ्घस्य वा, एवं शिवमस्तु जगते जगतः इति, भद्रमस्तु जिनशासनाय जिनशासनस्य, अर्थो भूयाद्भव्याय भव्यानाम् / भूधातुः पञ्चमी तु 'आशिषि तुह्योस्तातङ्' (4 / 2 / 119) / आयुष्यमिति / आयुस्शब्दः / आयुः प्रयोजनमस्येति वाक्ये 'स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ' (6 / 4 / 123) इति सूत्रेण यप्रत्ययः / आयुष्यं घृतादि-उपचारादायुरपि घृतमुच्यते / यदा तु आयुरेवायुष्यं 'भेषजादिभ्यष्टयण' (7 / 2 / 164) इति युक्त्या आयुष्यं निष्पाद्यते तदा निर्विवादं सिद्धमेव.। अत्र तत्त्वाख्यानमात्रमस्ति इति न भवति चतुर्थी // 66|| परिक्रयणे // 2 / 2 / 67 // परिक्रयणे वर्तमाना(गौणात्)नाम्नश्चतुर्थी वा स्यात् / शताय शतेन वा परिक्रीतः / शतादिना नियतकालं स्वीकृत इत्यर्थः // 17 //