________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 129 ___ अ० यत् कर्मकरपरगृहादिकं कियत्कालं द्रव्यदानेन क्रीयते स्ववशं क्रियते तत्परिक्रयणमित्युच्यते, सर्वथास्वीकारस्तु क्रय इति उच्यते / परिक्रयणे इति-परि कोऽर्थः ? समन्तात्क्रीयते स्वीक्रियते नियतकालं येन तत्परिक्रयणम् / वेतनं मूल्यं भाटकादिकमुच्यते // 67 / / शक्तार्थवषड्नमःस्वस्तिस्वाहास्वधाभिः // 2 / 2 / 68 // . शक्तार्थैर्वषडादिभिश्च शब्दैर्युक्ता गौणात् नाम्नश्चतुर्थी स्यात् / पृथग्योगाद्वेति [वा इति] निवृत्तम् / शक्तार्थेशक्तो मैत्रश्चैत्राय, प्रभुमल्लो मल्लाय, एवमलं मल्लो मल्लाय, समर्थो मल्लो मल्लाय, प्रभवति मैत्रश्चैत्राय, वषट्वघडग्नये / नमस्-नमोऽर्हद्भ्यः, नमः सिद्धेभ्यः / स्वस्ति प्रजाभ्यः / इन्द्राय स्वाहा / पितृभ्यः स्वधा / तृतीयया योगाभिधानादिह न भवति-नमो जिनानामायतनेभ्यः, नात्र जिनानां नमसा योगः / नमस्यति जिनानित्यत्रापि नमस्यधातुना योगो न नमसा // 68 // _____ अ० स्वस्तिशब्दः क्षेमार्थः / स्वस्तियोगे आशीर्विषयेऽपि परत्वान्नित्यमेव चतुर्थी भवति-स्वस्ति सङ्घाय भूयात्, स्वस्ति प्रजाभ्यो भूयात् / नमः करोति नमस्यति 'नमोवरिवश्चित्रकोऽर्चासेवाश्चर्ये' (3 / 4 / 37) इति क्यन् / यदि नमसा सह योगे सति चतुर्थी तदा 'स्वयम्भुवे नमस्कृत्य' इत्यत्र कथं चतुर्थी ? सूरिराह-अत्र शक्तार्थवषडित्यनेन न चतुर्थी किन्तु नमस्कृतिलक्ष(ण)या क्रिययाऽभिप्रेयमानत्वात्सम्प्रदानत्वे 'चतुर्थी' (2 / 2 / 53) इति सूत्रेणैव चतुर्थी भवति / 'स्वयम्भुवं नमस्कृत्य' अत्र तु क्रियाभिप्रेयत्वाविवक्षायां द्वितीया एव भवति / इयमवचूरिनमस्यधातुना योगो न नमसा इत्यक्षर अग्रे ज्ञातव्या // 68 / / पञ्चम्यपादाने // 2 / 2 / 69 // [पञ्चम्यपादाने इति सूत्रादारभ्य स्तोकाल्पकृच्छ्रकतिपयेति यावत् पञ्चमी विभक्ति-अधिकारे एकादशसूत्राणि ज्ञातव्यानि] अपादाने कारके गौणानाम्नो यथासङ्ग्यमेकद्विबही उसि-भ्यां-भ्यस्लक्षणा पञ्चमीविभक्तिर्भवति // ग्रामादागच्छति, गोदाभ्यामागच्छति, यवेभ्यो गां वरायति // 69 // अ०. गोद इति द्विवचनान्तं ह्रदविशेषनाम // 69 / / आङावधौ // 2 / 2 / 70 // अवधौ वर्तमानादाङायुक्तागौणानाम्नः पञ्चमी स्यात् / आ पाटलिपुत्रादृष्टो मेघः-पाटलिपुत्रमवधीकृत्य तद्व्याप्य वा वृष्ट इत्यर्थः / आकुमारेभ्यो [अभिविधौ अर्थे] यशो गतं गौतमस्य // 70 // अ० अवधिर्मर्यादा / अभिविधिरप्यवधिविशेष एवेति अभिविधिरप्यत्र गृह्यते / अभिविधिरभिव्याप्तिरुच्यते // 70 // ___ पर्यपाभ्यां वर्षे // 2 / 271 // वर्ये वर्जनीयेऽर्थे [अपपरी वर्जनेऽर्थे] पर्यपाभ्यां युक्ता[गौणात्] नाम्नः पञ्चमी भवति / परि पाटलिपुत्रादृष्टो (मेघ]देवः / परि परि पाटलिपुत्राद्वृष्टो देवः / अप पाटलिपुत्रादृष्टः, पाटलिपुत्रं वर्जयित्वेत्यर्थः / वर्ण्य इति किम् ? अपशब्दो मैत्रस्य // 7 // अ०. 'वाक्यस्य परिवर्जने' (74 / 88) इति सूत्रेण परिशब्दस्य द्वित्वम् / अपगतः शब्दात् अपशब्दः // 71 / / यतः प्रतिनिधिप्रतिदाने प्रतिना // 2 // 2 // 72 //