________________ 130 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते प्रतिना योगे यतः [यस्मात्] प्रतिनिधि यतश्च प्रतिदानं तद्वाचिनो [गौणात्] नाम्नः पञ्चमी स्यात् / प्रद्युम्नो वासुदेवात्प्रति [वासुदेवसदृशः प्रद्युम्नः] / अभयकुमारः श्रेणिकतः प्रति // प्रतिदानेतिलेभ्यः प्रति माषानस्मै प्रयच्छति, तिलान् गृहीत्वा माषान् दत्ते इत्यर्थः / प्रतिनिधिप्रतिदाने इति किम् ? वृक्षं प्रति विद्योतते विद्युत् // 72 // ___अ० प्रतिनिधीयते इति प्रतिनिधिः-मुख्यसदृशोऽर्थः / प्रतिदीयते प्रतिदानम्-गृहीतस्य प्रत्यर्पणं विशोधनमिति यावत् / श्रेणिकसदृशोऽभयकुमारः / श्रेणिकात् श्रेणिकतः ‘प्रतिना पञ्चम्याः' (7 / 2 / 87) इति तस् 'तुल्याथै - स्तृतीयाषष्ठ्यौ' (2 / 2 / 116) इति प्राप्ते वचनमिदम् // 72 // / आख्यातर्युपयोगे // 2 / 2 / 73 // आख्याता प्रतिपादयिता / तत्र वर्तमानानाम्नः पञ्चमी स्यादुपयोगे-नियमपूर्वकविद्याग्रहणविषये। उपाध्यायदधीते, आचार्यादागमयति / उपयोग इति किम् ? नटस्य शृणोति / उपयोगविवक्षायां त्वत्रापि स्यात् [भवति]-नटाद्भारतं शृणोति / अपादानत्वेनैव सिद्धे उपयोग एव यथा स्यादित्येवमयं वचनम् // 73 // अ० विद्यादिदाता आख्यातरि / अमद्रमहम्ममीमृगम्लं गतौ आङ्पूर्वः / आगम्यते इत्यागमः 'युवर्णवृदृवशरणगमृद्ग्रहः' (5 / 3 / 28) इति अल् / आगमं गृह्णाति आगमयति ‘णिज्बहुलं०' (3 / 4 / 42) इति णिज् ‘त्र्यन्त्यस्वरादेः' (7 / 4 / 43) // 73 // गम्ययपः कर्माधारे // 2 / 2 / 74 // [गम्यस्य यपः] गम्यस्याप्रयुज्यमानस्य यपो यबन्तस्य यत्कर्म आधारश्च तत्र वर्तमाना[गौणात्] नाम्नः पञ्चमी स्याम्हिती. यासप्तम्योरपवादः [योगोऽयम्] / प्रासादात्प्रेक्षते, आसनात्प्रेक्षते, प्रासादमारुह्य आसने चोपविश्य प्रेक्षते इत्यर्थः / गम्यग्रहणं किम् ? प्रासादमारुह्य शेते, आसने उपविश्य भुङ्क्ते / यग्रहणं किम् ? प्रविश पिण्डीम् [भक्षय] / प्रविश तर्पणम् [कुरु], वृक्षे शाखा [आस्ते], ग्रामे चैत्रः [वसति], अत्र हि भक्षय-कुरु-आस्ते-वसतीनां गम्यता न तु यपः // 7 // ___ अ० प्रासादमारुह्य शेते आसने उपविश्य भुङ्क्ते–अत्र यबन्तस्याप्रयोगे-यप्प्रयोगं विना प्रासादमारुह्य शेतेऽयमर्थो न गम्यते अतो यप्योगोऽवश्यं प्रयोज्य एव / / 74 / / प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः // 2 / 2 / 75 // [आरात्] प्रभृत्यर्थैरन्या/र्दिक्शब्दैहिस् आरात् इतर इत्येतैः शब्दैर्युक्ता[गौणात्] नाम्नः पञ्चमी भवति / प्रभृत्यर्थततः [तस्मात् ] प्रभृति / कार्तिक्याः प्रभृति, ग्रीष्मादारभ्य / अन्य भिन्न अर्थान्तर व्यतिरिक्त विलक्षण पृथग् हिरुक् एते शब्दा अन्यार्थाः / अन्यो मैत्रादित्यादि / दिक्शब्द-ग्रामात्पूर्वस्यां दिशि वसति / दिशि दृष्टाः शब्दा दिक्शब्दा इति देशकालादिवृत्तिनाऽपि [दिक्शब्देन] पञ्चमी भवति-पूर्व उज्जयिन्या गोनर्दः, पूर्वो ग्रीष्माद्वसन्तः, पश्चिमो रामायुधिष्ठिरः / एतदर्थमेव शब्दशब्दोपादनं तेन गम्यमानेनापि दिक्शब्देन पञ्चमी / क्रोशाल्लक्ष्यं विध्यति कमेर्णिङ्, प्राग्ग्रामात्, +प्राचीनं ग्रामादाम्राः, दक्षिणाहि ग्रामात्, उत्तराहि ग्रामात् दक्षिणा ग्रामात्, उत्तरा ग्रामात् / बहिस्-बहिर्गामात् / आरात् ग्रामात् क्षेत्रम् / इतरश्चैत्रात् [चैत्रेतरः चैत्रात् इतरो मैत्रः] तस्य द्वितीयो मैत्रादिरित्यर्थः // 7 // अ० सूत्रे इतरशब्दो द्वयोरुपलक्षितयोर्दश्यमानयोरन्यतरवचनः तेनान्यशब्दार्थादितरशब्दो भिद्यते / अन्यशब्दस्य