________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 131 प्रकृतिविलक्षणोऽर्थः, इतरशब्दस्तु दृश्यमानप्रतियोगी स्पर्धी / यथा शुभेतरः शुभादितरोऽशुभः, धर्मेतरः धर्मादितरः पापः इत्यादि, अतोऽन्य-इतरयोर्मियो विशेष इति सूत्रे पृथगुपादानमन्य-इतरयोः / अन्यो मैत्रात्, भिन्नो मैत्रात्, अर्थान्तरं घटात्, व्यतिरिक्तः पटात्, विलक्षणोऽश्चात् पृथग्गजात्, हिरुक् चैत्रात्; एवं प्रयोगा ज्ञातव्या अन्यार्थे / पूर्वो देशः, पूर्वः कालः, पश्चिमः पुरुष इति प्रकारेण दिगा कृत्वा देशकालादिग्रहणार्थं सूत्रे दिक् अग्रे शब्द इति शब्द-उपादानं ग्रहणमं कृतम् / 'व्यधत् ताडने' व्यध् वर्तमानाति 'दिवादेः श्यः' (3 / 4 / 72) 'ज्याव्यधः डिति' (4 / 1 / 81) इति य्वृत् इकारः / क्रोशाल्लक्ष्यमिति कोऽर्थः ? क्रोशात्परेण लक्ष्यं वेध्यं विध्यति, अत्र परशब्दो गम्यः / 'कर्मेणिङ्' (3 / 4 / 2) अत्र कमेः परो णिङ् भवतीति परशब्दो गम्यः / प्राग्ग्रामात् प्रत्यग्ग्रामात् उदग्ग्रामादित्युदाहरगानि ज्ञेयानि / +प्राचीनम्-प्रागेव प्राचीनं इति वाक्ये ‘अदिस्त्रियां वाञ्चः' (7 / 1 / 107) इति सूत्रेण ईनः / अत्र कोऽर्थः ? पूर्वदिशि ग्रामात् आम्रा वर्त्तन्ते / नपुंसकत्वं सामान्यभावेन, तथा च वर्त्तते किं तत्कर्तृ ? प्राचीनम्, किं तत् ? आम्रा इति / दक्षिणाशब्दः अथवा दक्षिणं इति-ग्रामाद्दूरे दक्षिणा दिग् रमणीया, ग्रामाद्दूरे दक्षिणो देशो वा रमणीयः, 'आही दूरे' (7 / 2 / 120) इति सूत्रेण आहिप्रत्ययः, स चाव्ययः, प्रथमासिः ‘अव्ययस्य' (3 / 2 / 7) इति लुक् / उत्तरशब्दः-उत्तरो देशो रमणीयो ग्रामात् इति वाक्ये 'वोत्तरात्' (7 / 2 / 121) इति सूत्रेण आहिप्रत्ययः स च अव्ययः / उत्तरशब्दः उत्तरो ग्रामात् रमणीय इति वाक्ये 'वोत्तरात्' इत्यनेन आप्रत्ययः स चाव्ययः / दक्षिणा ग्रामातू-अत्र दक्षिणा अथवा दक्षिण इति शब्दः / ग्रामाद्दूरे दक्षिणा दिग् रमणीया, ग्रामाद्दूरे दक्षिणदेशो वा रमणीयः ‘आही दूरे' इत्यनेन आप्रत्ययः स चाव्ययः / आरात् इति शब्दोऽव्ययो दूरसमीपयोर्वाचकः, तेन आरात् इति शब्दयोगे नित्यं पञ्चमी भवति / 'आरादर्थं' (2 / 2 / 78) इति उत्तरसूत्रेण आरात्शब्दस्य ये पर्याया अन्तिकादयः तेषु सत्सु विकल्पेन पञ्चमी भवतीत्यर्थः // 7 // ऋणाद्धेतोः // 2 / 2 / 76 // [तृतीयापवादो योगः] फलसाधनयोग्यः पदार्थो हेतुः, हेतुभूतं यदृणं तद्वाचिनो नाम्नः पञ्चमी स्यात् / शताबद्धः, सहस्राबद्धः। हेतोरिति किम् ? शतेन बद्धः, शतेन बन्धितः, शतेन चैत्रेण बन्धित इत्यर्थः // 76 // अ० तृतीयापवादो योगः शत-सहस्र द्रम्मऋणबद्धः / बन्धित इति 'बन्धश् बन्धने' बन्ध्, बध्नाति शतं देवदत्तः, तत् बध्नन् चैत्रः प्रयुङ्क्ते / / 76 / / गुणादस्त्रियां नवा // 2 / 2 / 77 // अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनो[गौणात्] नाम्नः पञ्चमी वा स्यात् / जाड्याद्रद्धः [जडस्य भावो जाड्यम् ‘वर्णदृढादिभ्यष्टयण च वा' (7 / 1 / 51)] / जाड्येन बद्धः / ज्ञानात् ज्ञानेन मुक्तः, मोहात् मोहेन बद्धः / गुणादिति किम् ? धनेन कुलम् / अस्त्रियामिति किम् ? बुद्ध्या मुक्तः, प्रज्ञया मुक्तः, विद्यया यशः // 77 // . अ० 'अत्रास्ति अग्निः धूमात्' / अत्र प्रयोगे गुणरूपो हेतुर्नास्ति / तथा इह नास्ति अनुपलब्धे-अत्र गुणोऽपि अस्त्रियां न वर्त्तते / तथा 'सर्वं वस्तु अनेकान्तात्मकम् सत्त्वान्यथानुपपत्तेः' कोऽर्थः ? अर्थक्रियाकारित्वानुपपत्तेः; इत्यादि प्रयोगत्रयेऽग्न्यादेर्न धूमादिर्हेतुः, कस्य तर्हि हेतुः ? अग्न्यादिज्ञानस्य, तस्मात् / अत्र प्रयोगत्रये कथं पञ्चमी ? सूरिराह- 'गम्ययपः कर्माधारे' (2 / 274) इत्यनेन पञ्चमी भविष्यति, तताहि धूमादिकमुपलभ्य अग्न्यादितिव्यः इति हि अत्रार्थः / ज्ञानहेतुत्वविवक्षायां तु हेतुत्वलक्षणा तृतीया भवति / धूमेनाग्निः, अनुपलब्ध्या घटाभावः, सत्त्वा