________________ 132 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते न्यथानुपपत्त्या सर्वं वस्तु अनेकान्तात्मकं प्रतिपत्तव्यमिति भावः // 77 // . आरादर्थैः // 2 / 2 / 78 // आरादूरान्तिकयोः, तन्त्रेणोभयग्रहणम् [आरात् इति शब्दो दूरेऽन्तिके वा वर्त्तते / सूत्रेण द्वयस्याप्यर्थस्य ग्रहणम्] / दूरार्थैरन्तिकाथैः [समीपाथैः] शब्दैर्युक्ता [गौणात् ]नाम्नः पञ्चमी वा स्यात् / दूरं ग्रामात् / दूरं ग्रामस्य / अन्तिकं ग्रामात् [समीपे] अन्तिकं ग्रामस्य / एवं विप्रकृष्टं [दूरे] सन्निकृष्टं [समीपे] ग्रामादित्यादि / आराच्छब्दयोगे तु [पत्र आरादिति शब्दः प्रयज्यते तत्र] 'प्रभृत्यन्यार्थ०' (2 / 2 / 75) इत्यादि सूत्रेण नित्यमेव पञ्चमी // 78 // स्तोकाल्पकृच्छ्रकतिपयादसत्त्वे करणे // 2 // 2 // 79 // यतो द्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणोऽसत्त्वम् / तेनैव वा रूपेणाभिधीयमानं द्रव्यादि तस्मिन् [असत्त्वे सति] करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा भवति / स्तोकान्मुक्तः स्तोकेन मुक्तः। एवं अल्पात् कृच्छ्रात् कतिपयान्मुक्त [कतिपयेन मुक्तः] इति। असत्त्व इति किम् ? स्तोकेन विषेण हतः, अल्पेन मधुना मत्तः, विषादिद्रव्यसामानाधिकरण्यादत्र सत्त्ववृत्तिता / करण इति किम् ? क्रियाविशेषणे मा भूत्-स्तोकं चलति / इह च +स्तोकादीनामसत्त्ववाचित्वात् द्वित्वबहुत्वासम्भवे एकवचनमेव // 79 // ___ अ० यतो यस्मात् स्तोकत्वादेनिमित्तात् द्रव्ये विशेष्ये स्तोकादिशब्दप्रवृत्तिर्भवति सगुणोऽसत्त्वं शब्दप्रवृत्तिनिमित्तमित्यर्थः / तेनैवेत्यादि, तेनैवेव कोऽर्थः ? असत्त्वरूपेण, अयमर्थः-तिरोहितधनादि विशेष्यं स्तोकादिरूपेणैव सामान्यात्मनाऽभिधीयमाणं धनादिरूपव्यावृत्तं स्तोकादिरूपापन्नं द्रव्यं गुणः क्रिया वायदा प्रतीयते तदा द्रव्यादिकम् असत्त्वमुच्यते इत्यर्थः / विषादिद्रव्येत्यादि-विषमधुलक्षणद्रव्येण सह यत् सामानाधिकरण्यं कोऽर्थः ? विशेष्यविशेषणभावः, तस्मात् / विषेण कीदृशेन ? स्तोकेन / मधुना मद्येन कथम्भूतेन ? अल्पेन / एवं सामानाधिकरण्यम्, तेन सामानाधिकरण्येन स्तोकादयः शब्दाः सत्त्ववृत्तयो भवन्ति / असत्त्वे न वर्त्तन्ते / +स्तोकादिक्रियाविशेषणशब्दानामित्यर्थः / एतेन क्रियाविशेषणशब्दानामेकत्वं कर्मत्वं नपुंसकत्वं च ज्ञातव्यमित्यर्थो घटते // 79 / / अज्ञाने ज्ञः षष्ठी // 2 // 2 // 80 // [अस्मात्सूत्रादारभ्य 'एष्यदृणेन' इति यावत् षष्ठी अधिकारे सूत्राणि पञ्चदश] अज्ञानार्थे वर्तमानस्य जानातेः सम्बन्धिनि करणे वर्तमानाद्गौणानाम्न एकद्विबही यथासङ्ग्यं उस्ओस्-आम्-लक्षणा षष्ठी विभक्तिर्भवति / वेति निवृत्तम् / सर्पिषो जानीते एवं सर्पिषोः सर्पिषां जानीते। तृतीयापवादो योगः // 8 // अ० भिन्नविभक्तिविदानादत्र सूत्रे वा इति निवृत्तम् / जानीते 'ज्ञांश् अवबोधने' ज्ञा, वर्तमानाते 'क्यादेः' (3 / 4 / 79) ना 'जा ज्ञाजनोत्यादौ' (4 / 2 / 104) जा आदेशः / 'एषामीळञ्जनेऽदः' (4 / 2 / 97) जानीते कोऽर्थः ? प्रवर्त्तते इत्यर्थः / सर्पिषा करणभूतेन प्रवर्त्तते / ज्ञाधातुरत्र न ज्ञाने वर्त्तते / अथवा सर्पिषि घृते रक्तो विरक्तो वा चित्तभ्रान्त्या सर्वमेव जलादिकं सीरूपेण प्रतिपद्यते इति मिथ्याज्ञानवचनोऽत्र जानातिधातुः / मिथ्याज्ञानं च अज्ञानमेव भवति अतोऽज्ञानेऽर्थे जानाति // 8 // . शेषे // 2 / 2 / 81 // कर्मादिभ्योऽन्यः क्रियाकारकपूर्वकः कर्मायविवक्षालक्षणोऽश्रूयमाणक्रियः श्रूयमाणक्रियो वा अस्येदं