________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः मावरूपः स्वस्वामिभावादिः सम्बन्धविशेषः शेष उच्यते / शेष[गौणात्]नाम्नः षष्ठी स्यात् / राज्ञः पुरुषः, उपगोरपत्यम्, पशोः पादः, क्षीरस्य विकारः, गवां समूहः, कुम्भस्य समीपम्, भुवः स्वामी, न माषाणामभीयात् (अशश् भोजने], सुभाषितस्य शिक्षते, अक्षाणां दीव्यति, घ्नतः पृष्ठं ददाति, वृक्षस्य पर्ण पतति, महतां विभापते, प्रथमापवादो योगः // 8 // ... अ० घ्नतः 'हनंक हिंसागत्योः' हन्, हन्तीति वाक्ये 'शत्रानशावेष्यति०' (5 / 2 / 20) इति शतृ 'गमहनजनखन०' (4 / 2 / 44) इति हनोऽकारस्य लोपः, ह्र इति रूपम् / 'हनो हो घ्नः' (2 / 1 / 112) इति घ्न आदेशः / शेषे इति सूत्रे कर्मादिकारके प्राप्ते षष्ठी विधीयते पर आह-कर्मादयः कथं न विवक्ष्यन्ते ? सूरिराह-सतामपि कर्मादीनां न विवक्षा यथाऽनुदरा कन्या, अलोमिका एडका / तथा गौणादिति किम् ? राज्ञः पुरुषः-अत्र सम्बन्धस्य उभयस्थभावेऽपि प्रधानपुरुषशब्दान्न षष्ठी। पुरुषस्य प्राधान्यं च आख्यातपदसामानाधिकरण्यम् / तेन पुरुषात् प्रथमैव भवति / पदा तु पुरुषो राजानं प्रति गुणत्वं प्रतिपद्यते तदा पुरुषस्य राजा इति भवत्येव / कथं राज्ञः पुरुषस्य कम्बल इति ? राजापेक्षया पुरुषस्य प्राधान्येऽपि कम्बलापेक्षया पुरुषस्य गौणत्वमेव इति पुरुषशब्दात् षष्ठी भवत्येव // 81 // रिरिष्टात्स्तादस्तादसतसाता // 2 // 2182 // .. 'रि-रिष्टात्-स्यात्-अस्तात्-अस्-अतस्-आत्प्रत्ययान्तैर्युक्ताद्गौणानाम्नः षष्ठी स्यात् / उपरि ग्रामस्य [रिप्रत्ययस्योदाहरणम्] / रिष्टाल-उपरिष्टाद्ग्रमस्य / स्तात्-परस्तात् / अस्तात्-पुरस्तात् ग्रामस्य / अस्-पुरो ग्रामस्य / अतस्-दक्षिणतो ग्रामस्य, उत्तरतो ग्रामस्य, परतो ग्रामस्य / आत्-अधराद्ग्रामस्य, दक्षिणात् उत्तरात् पश्चात् ग्रामस्य / पञ्चम्यपवादो योगः // 82 // ___ अ० पुरस्तात् इत्यादिषु पश्चात् ग्रामस्य इत्यन्तेषु 'अवर्णेवर्णस्य' (7 / 4 / 68) इति अकारलोपः / उपरि उपरित् इत्यादि-ऊर्ध्वशब्दः, ऊर्ध्वा दिक् ऊों देशो वा ऊर्ध्वः कालो वा रमणीय इति वाक्ये 'उद्ध्वादिरिष्टावुपश्चास्य' (7 / 2 / 114) इति सूत्रेण रिप्रत्ययः रिष्टात्प्रत्ययश्च ऊर्ध्वशब्दस्य च उप आदेशः, उपरि उपरिष्टात् इति गद्धम् / सिः / 'अव्ययस्य' (3 / 2 / 7) इति लोपः / अथवा ऊद्ध्वादागत ऊर्श्वे वसति इति वाक्येऽपि रिरिष्टा त्ययौ ऊर्ध्वाद्रीतिसूत्रेण कार्यों / / परस्ताद्ग्रामस्य एवं अवरस्ताद्ग्रामस्येति पर, अवर, शब्द / परा दिक्, परो देशो वा, परः कालो वा / एवं अवराभिलापेन / वाक्ये रमणीयः परस्मात् अवरस्मात् आगतः / परस्मिन् अवरस्मिन् वसतीति वाक्ये 'परावरात्स्तात्' (7 / 2 / 116) इति सूत्रेण स्तात्प्रत्ययः, परस्तात् अवरस्तात् इति प्रयोगः / पुरस्तात् इत्यादि-पूर्व, अवर-अधर-शब्द. / पूर्वा दिक् रमणीया, अथवा पूर्वो देशः पूर्वः कालो वा रमणीयः / यदि वा पूर्वस्मादागतः; पूर्वस्यां दिशि देशे काले वा ग्रामस्य वसति / ___ एवं अवर अधर अभिलापेन वाक्यं कार्यम् 'पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम्' (7 / 2 / 115) इति सूत्रेण अस्तात्प्रत्ययः, पूर्वस्य पुर् अवरस्य अव् अधरस्य अध् आदेशः; पुरस्तात् अवस्तात् अधस्तात् ग्रामस्य रमणीयमिति। पुरो ग्रामस्य अवो ग्रामस्य अधो ग्रामस्येत्यत्रापि प्राग्वद्वाक्यानि, पूर्वावरेति अस्प्रत्ययः, पुर् इत्याद्यादेशाश्च / दक्षिणत इत्यादि-दक्षिण. उत्तर. पर. अवर. / दक्षिणा दिग्, दक्षिणो देशो वा रमणीयो ग्रामस्य; कालविषयं वाक्यं न कार्यमसम्भवात् / एवं उत्तरा दिग्, देशो कालो वा इति / एवं पर अवरवाक्यमपि / 'दक्षिणोत्तराच्चातस्' (7 / 2 / 117) इति सूत्रेण अतस्प्रत्ययः ‘सर्वादयोऽस्यादौ' (3 / 2 / 61) पुंवद्भावः / दक्षिणत आगतः दक्षिणस्या दिशि वसति