________________ 134 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते ग्रामस्य / एवमन्येऽपि / अधरात् ग्रामस्य दक्षिणात् ग्रामस्य, उत्तरात् ग्रामस्य, पश्चात् ग्रामस्य-अत्र अधर-दक्षिण -उत्तर-अपर-अधरादिदेशः कालो वा ग्रामस्य रमणीय इति वाक्ये 'अधरापराच्चात्' (7 / 2 / 118) इति सूत्रेण आत्प्रत्ययः / एवं दक्षिणात् उत्तरादत्रापि / अपरशब्दात् आत्प्रत्यये कृते ‘पश्चोऽपरस्य दिक्पूर्वस्य चाति' (7 / 2 / 124) इति सूत्रेण अपरशब्दस्य पश्च इति आदेशः, पश्चाद्ग्रामस्य इति प्रयोगः / / 82 / / कर्मणि कृतः // 2 / 2 / 83 // कृतः कोऽर्थः] कृदन्तस्य सम्बन्धिनि कर्मणि गौणानाम्नः षष्ठी भवति, +द्वितीयापवादः / अपां स्रष्टा, पुरां भेत्ता, पुत्रपौत्राणां दर्शकः, ओदनस्य भोजकः, विश्वस्य ज्ञाता, तीर्थस्य कर्ता, ग्रामस्य गमनम्, गवां दोहः / कर्मणीति किम् ? शस्त्रेण भेत्ता / क्रियाविशेषणस्यापि कर्मत्वाभावान भवति-साधु ब्रुते, स्तोकं पक्ता / कृत इति किम् ? कटं करोति, कृतपूर्वी कटम्; त्यादितद्धितयोः कर्मणि [कृतः पूर्वमनेन इति वाक्ये 'पूर्वमनेन सादेश्चेन्' (7 / 1 / 167) इन् / 'अवर्णेवर्णस्य' (74 / 68) कृतपूर्वी कटं कृति कर्म भवति] मा भूत् षष्ठी / कथं अर्थस्य त्यागी, सुखस्य भोगी, विषयाणां जयी वीराणां प्रसविनी ? अत्र ताच्छीलिकयोर्घिनणिनोः कर्म इति भवति // 83 // ___ अ० पुत्रस्यापत्यमनन्तरं पौत्रः ‘पुनर्भूपुत्रदुहितृननान्दुरनन्तरेऽञ' (6 / 1 / 39) इति सूत्रेण अञ् / पुत्रस्य पौत्राः पुत्रपौत्राः / अथवा पुत्रसहिताः पौत्राः पुत्रपौत्राः इति कार्यम्, न द्वन्द्वः, / / कर्मणि (2 / 2 / 40) इत्यनेन प्राप्ताया +द्वितीयायाः // अर्थस्य त्यागी इत्यादि 'त्यजं वयोहानौ' त्यज्, 'भुजंप पालनाभ्यवहारयोः' भुज्, त्यजतीत्येवंशीलस्त्यागी, भुनक्तीत्येवंशीलो भोगी 'युजभुजभजत्यजरञ्जद्विषदुषद्रुहदुहाभ्याहनः' (5 / 2 / 50) इति सूत्रेण घिनण, घकारः कत्वगत्वार्थः णकारो वृद्धयर्थः / जयीति-'जिंजिं अभिभवे' जि, जयतीत्येवंशीलो जयी / प्रसविनीतिषूत् प्रेरणे' षु 'षः सोऽष्टयैः' (2 / 3 / 98) सु, प्रसुवतीत्येवंशीला प्रसविनी 'प्रात्सूजोरिन्' (5 / 2 / 71) इति सूत्रेण इन्, गुणः ङी च / अत्र त्याग इत्याद्यस्यास्तीति वाक्ये तद्भित इनि सति अर्थस्येत्यादौ षष्ठी न प्राप्नोति कृतोऽभावात् इति पराशङ्का / तत्राह सूरिः-अत्र ताच्छीलिकेति / / 83 / / द्विषो वाऽतृशः // 2 / 2 / 84 // अतृश्प्रत्ययान्तस्य द्विषः कर्मणि [गौणात्] नाम्नः षष्ठी वा स्यात् / चौरस्य द्विषन् द्विष्ठीति] चौरं द्विषन् // 84 // __अ० 'सुद्विषार्हः सत्रिशत्रुस्तुत्ये' (5 / 2 / 26) इति अतृश्प्रत्ययः / चौरं द्विषन् कोऽर्थः ? शत्रुरित्यर्थः / 'तृनुदन्ता०' (2 / 2 / 90) इत्यादि सूत्रेण प्रतिषेधे प्राप्ते विकल्पार्थोऽयं द्विषो वेति योगः // 84 // वैकत्रद्वयोः // 2 // 2 // 85 // द्विकर्मकेषु धातुषु द्वयोः कर्मणोरेकत्रैकस्मिन् [कर्मणि] षष्ठी वा स्यात् / अन्यत्र पूर्वेण नित्यमेव [षष्ठी] / पयसो दोहको गाम्, पयसो दोहको गोः; यदि वा गोर्दोहकः पयः, गोर्दोहकः पयसः // 85 // . अ० अन्यत्र पूर्वेणेति कोऽर्थः ? अन्यत्र विकल्पपक्षे पूर्वेण 'कर्मणि कृतः' इति सूत्रेण नित्यं षष्ठी / गो अग्रे पयोऽग्रे च षष्ठी वा भवति / / 85 / / कर्तरि // 2 // 2 // 86 //