________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 135 * कृदन्तस्य कर्तरि [गौणात्] नाम्नः षष्ठी भवति, तृतीयापवादः / भवत आसिका, भवतः शायिका, वतः स्वापः, भवत आसना, भवतोऽग्रगामिका // 86 // IF अ० आसना आस्-आसनं आसना ‘णिवेत्त्यासश्रन्थघट्टवन्देरनः' (5 / 3 / 111) इति अन्प्रत्ययः स्त्रियामाप् / कर्तरीति किम् ? गृहे शायिका / आसिका- 'आसिक् उपवेशने' आस्, आसितुं पर्यायः आसिका / ‘शीङ्क स्वप्ने' शी, शयितुं पर्यायः शायिका 'पर्यायाहणोत्पत्तौ च णकः' (5 / 3 / 120) इत्यनेन णकप्रत्ययः, णो वृद्धयर्थः ‘आत्' / (2|4|18) इति आप् ‘अस्यायत्तत्०' (2 / 4 / 111) इति इकारः / अग्रगामिका अग्रे गमनं अग्रगामिका 'पर्याय.' इति णक् // 86 // दिहेतोरस्त्र्यणकस्य वा // 2 / 2 / 87 // स्त्र्यधिकारविहिताभ्यामकारणकाभ्यामन्यस्य द्वयोः कर्तृकर्मषष्ठयोः प्राप्तिहेतोः कृत कर्तरि षष्ठी वा / स्यात् / नित्यं प्राप्ते विभाषेयम् / विचित्रा सूत्रस्य कृतिराचार्यस्य, विचित्रा सूत्रस्य कृतिराचार्येण / साधुः प्रधानं] खल्विदं शब्दानामनुशासनं [व्याकरणं] आचार्यस्याचार्येण वा / साध्वी प्रधाना] सङ्ग्रहिण्याः कृतिः समाश्रमणस्य [जिनभद्रगणिक्षमाश्रमणस्य] क्षमाश्रमणेन वा / गम्यमानेऽपि कर्मणि-अन्तर्बी येनादर्शनमिच्छति यस्या-दर्शनमिच्छतीति वा / अत्रात्मन इति कर्म गम्यते। अस्त्र्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम्, मेदिका चैत्रस्य काष्ठानाम्, णिगन्तभिदेसु भेदिका चैत्रस्य मैत्रस्य काष्ठानाम् // 87 // . अ० कर्तुमिच्छति 'तुमर्हादिच्छायां०' (3 / 4 / 21) 'स्वरहन०' (4 / 1 / 104) दीर्घः ‘सन्यडश्च' (4 / 1 / 3) द्वित्वम् 'अतोऽत्' (4 / 1 / 38) ['सन्यस्य' (4 / 1 / 59) इति अनेन अभ्यासे इत्वम् / ] 'कश्चञ्' (4 / 1 / 46) 'ऋतां डितीर्' (4 / 4 / 116) ईर् चिकीर्षणं चिकीर्षा 'शंसि प्रत्ययात्' (5 / 3 / 105) इति सूत्रेण आप्रत्ययः आप् 'कर्मणि कृतः' (2 / 2 / 83) 'कर्तरि' (2 / 2 / 86) इति सूत्रद्वयेन नित्यं प्राप्तौ सत्यामियं विभाषा विकल्पसूत्रम् / भेदनं भेदिका 'भावे' (5 / 3 / 122) इति सूत्रेण णकप्रत्ययः / / 87 // कृत्यस्य वा // 2 // 2 // 88 // कृत्यस्य कर्तरि गौणानाम्नः षष्ठी वा स्यात् / भवतः कार्य्यः कटः, भवता कार्य्यः कटः / एवं कर्तव्यः करणीयः कृत्यो वा / कर्तरीति किम् ? प्रवचनीयो गुरुभदशाङ्गस्य // 8 // . अ० ध्यण तव्य अनीय य क्यप् इत्येताः पञ्च प्रत्यया कृत्यप्रत्यया इत्युच्यन्ते / ऋवर्णव्यञ्जनान्ताद् घ्यण्' (5 / 1 / 17) इत्यादि बहुसूत्रैर्ध्यण् / 'तव्यानीयौ' (5 / 1 / 27) इति सूत्रैण तव्य-अनीयौ / “य एच्चातः' (5 / 1 / 28) इत्यादि बहुसूत्रैर्यप्रत्ययः 'नाम्नो वदः क्यप् च' (5 / 1 / 35) इत्यादि बहुसूत्रैः क्यप् प्रत्ययः / एवं 5 कृत्यप्रत्ययसंज्ञा भवन्ति / क्रियते इति कृत्यः / ‘कृवृषिमृजिशंसिगुहिदुहिजपो वा' (5 / 1 / 42) इति क्यप् कृत्यः। कार्य इत्यत्र ऋवर्णव्यञ्जनान्ताद् घ्यण' / प्रवक्ति प्रब्रूते प्रवचनीयः 'प्रवचनीयादयः' (5 / 1 / 8) इति सूत्रेण अनीयप्रत्ययः कर्तरि / / 88 / / नोभयोर्हेतोः / / 2 / 2189 / / उभयोः कर्तृकर्मणोः षष्ठीहेतोः कृत्यस्य सम्बन्धिनोरुभयोरेव षष्ठी न भवति / नेतव्या ग्राममजा मैत्रेण // 89 // तृन्नुदन्ताव्ययकस्वानातृश्शतृङिणकच्खलर्थस्य // 2 / 2 / 90 //