________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते तृनः उदन्तस्य अव्ययस्य कसोः आनस्य अतृशः शतुः डेः णकचः खलर्थस्य च कृतः सम्बन्धिनोः कर्मकोंः षष्ठी न स्यात् / तृन्-वदिता जनापवादान् / उदन्त-कन्यामलङ्करिष्णुः ओदनं बुभुक्षुः देवान् वन्दारुः, श्रद्धालुस्तत्त्वम् / अव्यय-कटं कृत्वा [करणं पूर्वं 'प्राक्काले' (5 / 4 / 47)] पयः पायं पायं याति, ओदनं भोक्तुं व्रजति / कसु-ओदनं पेचिवान्, तत्त्वं विद्वान् / आन-कटं चक्राणः [कान] वचनमनूचानः; मलयं पवमानः [शान] कतीह वपुर्भूषयमाणः [भूषतसण् अलङ्कारे], ओदनं पचमानः, चैत्रेण पच्यमानः, कटं करिष्यमाणः / अतृश्-अधीयंस्तत्त्वार्थम्, धारयन्नाचाराङ्गम् / शतृ-कटं कुर्वन् / ङि-परीषहान् सासहिः, कटं चक्रिः / णकच-कटं कारको याति / खलर्थईषत्करः कटो भवता, सुज्ञानं तत्त्वं त्वया // 10 // अ० वन्दारुः ‘वदुङ् स्तुत्यभिवादनयोः' वद् ‘उदितः स्वरान्नोऽन्तः' (4 / 4 / 98) वन्द् वन्दते इत्येवंशीलः 'शृवन्देरारुः' (5 / 2 / 35) इति सूत्रेण आरुप्रत्ययः / श्रुतपूर्वो धा श्रद्धत्ते इत्येवंशीलः 'शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः' (5 / 2 / 37) इति सूत्रेण आलुः / 'भुजंप पालनाभ्यवहारयोः' भुज् / भोक्तुमिच्छति तुम इति सन् द्वित्वम् 'द्वितीयतुर्ययोः पूर्वी' (4 / 1 / 42) भस्य ब् बुभुक्षतीत्येवंशीलः ‘सन् भिक्षाशंसेरुः' (5 / 2 / 33) इति सूत्रेण उप्रत्ययः ‘अतः' (4 / 3 / 82) इति सूत्रेण अकारलोपः / वदिता 'वद व्यक्तायां वाचि' वद् / वदतीत्येवंशील इति वाक्ये 'तृन् शीलधर्मसाधुषु' (5 / 2 / 27) इति सूत्रेण तृन्प्रत्ययः / अलम्, कृधातुः, अलङ्करोतीत्येवंशीलः 'भ्राज्यऽलङ्कग्निराकृग्भूसहिरुचिवृतिवृधिचरिप्रजनापत्रप इष्णुः' (5 / 2 / 28) इति सूत्रेण इष्णुप्रत्ययः / पयः पायं. पायं याति पयस् अग्रे द्वितीयाऽम् ‘पां पाने' पा, आभीक्ष्णं पानं पूर्वं इति वाक्ये ‘ख्णं चाभीक्ष्ण्ये' (5 / 4 / 48) इति सूत्रेण ख्णम् खण् ‘अप्रयोगीत्' (1 / 1 / 37) अम् तिष्ठति ‘आत ऐः कृौ' (4 / 3 / 53) इति सूत्रेण धातु आकारस्य ऐ ‘एदैतोऽयाय' (1 / 2 / 23) पाय इति सिद्धम् 'भृशाभीक्ष्ण्याऽविच्छेदे द्विः प्राक्तमबादेः' (7 / 4 / 73) इति सूत्रेण पायं इति द्विरुच्यते पायं पायमिति सिद्धम् / वेत्तीति विद्वान् ‘वा वेत्तेः कसुः' (5 / 2 / 22) चक्रिकृ करोतीत्येवंशीलः चक्रिः ‘सनिचक्रिदधिजज्ञिनेमिः' (5 / 2 / 39) इति सूत्रेण डिप्रत्ययः द्विवचनं च निपात्यते चक्रि इति सिद्धम् / आनेति मुक्तानुबन्धनिर्देशात् कान-शान-आनशां ग्रहणम् / ' ___चक्रे चक्राणः 'तत्र कसुकानौ तद्वत्' (5 / 2 / 2) / अनूवाचेत्यनूचानः 'वेयिवदनाश्चदनूचानम्' (5 / 2 / 3) इति कानः / एवमानः-पवमानः- 'पूङ् पवने' पवते पवमानः 'पूयजः शानः' (5 / 2 / 23) 'अतो म आने' (4 / 4 / 114) इति मोऽन्तः / भूषयितुं शक्ताः इति वाक्ये 'वयःशक्तिशीले (5 / 2 / 24) इति सूत्रेण शानः ‘अतो म आने' आनश् पचतीति शत्रानशेति आनश्प्रत्ययोदाहरणम् / करिष्यते करिष्यमाणः ‘शत्रानशा०' (5 / 2 / 20) इति स्ययुक्त आनश् / सुखेन ज्ञायते सुज्ञानं 'शासूयुधिदृशिधृषिमृषातोऽनः (5 / 3 / 141) इति सूत्रेण अनप्रत्ययः। अधीते इति अधीयन् ‘धारीडोऽकृच्छ्रेऽतृश्' (5 / 2 / 25) धारयतीति ‘धारीङो०' अतृश् / 'षहि मर्षणे' षह 'षः सोष्टयै०' (2 / 3 / 98) सह, अत्यर्थं सहते 'व्यञ्जनादेरेकस्वराद्' (3 / 4 / 9) इति यङ्, द्वित्वम् ‘आगुणावन्यादेः' (4 / 1 / 48) आकारः, सासह्यते इत्येवंशीलः सासहिः ‘डौ सासहिवावहिचाचलिपापतिः' (5 / 2 / 38) इति सूत्रेण डिप्रत्ययः ‘अतः' (4 / 3 / 82) इति सूत्रेण यकारमध्येऽकारलोपः ‘योऽशिति' (4 / 3 / 80) इति सूत्रेण य्लोपः सासहिः / चक्रि कृ करोतीत्येवंशीलः चक्रि ‘सम्रिचक्रिदधिजज्ञिनेमिः' (5 / 2 / 39) इति सूत्रेण ङिप्रत्ययः, द्विवचनं