________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 137 च निपात्यते चक्रि इति सिद्धम् / + क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्ती' (5 / 3 / 13) च् इति निर्देशात् णकप्रत्ययस्य न भवतीत्यर्थः / ईषत्कर इति ईषत् कृ ईषत् अनायासेन क्रियते ईषत्करः 'दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात्खल्' (5 / 3 / 139) खकारो मागमार्थः लकारो विशेषणार्थः अकारस्तिष्ठति // 90 // क्तयोरसदाधारे // 2 // 29 // [न सत् असत् असच आधारश्च तस्मिन्] ... सतो वर्तमानादाधाराचऽन्यस्मिन्नर्थे विहितौ यो क्तक्तवतू तत्सम्बन्धिनोः कर्मकोंः षष्ठी न स्यात् / कटः कृतो मैत्रेण कटं कृतवान्, गतो गतवान् ग्रामं चैत्रः [गतवान् / असदाधार इति किम् ? राज्ञां ज्ञातः, बुद्धः / [राज्ञां] मतः [राज्ञां] इष्टः [राज्ञां], राज्ञां पूजितः। आधारे-इदमोदनस्य भुक्तम्, इदमेषामासितम्, इदं सक्तूनां पीतम् / कथं शीलितो मैत्रेण ? भूतेऽयं क्तः // 11 // अ० क्रियतेस्म 'क्तक्तवतू' (5 / 1 / 174). इति सूत्रेण क्तक्तवतू / करोति स्म कृतवान् / गत इत्यत्र ‘यमिरभिनमिगमिहनिमनिवनतितनादेधुटि क्डिति' (4 / 2 / 55) इत्यनेन अन्त्यमकारस्य लोपः / ज्ञायते ज्ञातः, बुद्धयते बुद्धः, मन्यते मतः, 'यमिरमिनमिग़मिहनिमनिवनतितनादेधुटि क्डिति' इति अन्त्यलोपः / इष्यते इष्टः / सर्वत्र ‘ज्ञानेच्छार्थिनीच्छील्यादिभ्यः क्तः' (5 / 2 / 92) इति सूत्रेण सत्यर्थे क्तः / पूज्यते स्म 'ज्ञानेच्छा० इति क्तः / भुज्यते अस्मिन् भुक्तम् / आस्यतेऽस्मिन्नासितम् / पीयतेऽस्मिन् ‘अद्यर्थाच्चाधारे' (6 / 1 / 12) इति सूत्रेण आधारे क्तः पीतम् अत्र 'ईर्व्यञ्जनेऽयपि' (4 / 3 / 97) इति सूत्रेण आकारस्य ईकारः / शील्यते स्म इति वाक्ये भूतेऽर्थे 'क्तक्तवतू' इति सूत्रेण क्तप्रत्ययः / शीलितोऽभ्यस्तो ग्रन्थादिरित्यर्थः // 11 // . वा क्लीबे // 2 / 2 / 92 // क्लीवे यः क्तस्तस्य कर्तरि षष्ठी वा भवति / च्छात्रस्य च्छात्रेण हसितम्, मयूरस्य नृत्यम् [नृत्यते क्लीबे क्तः नृत्तम्] मयूरेण / क्लीब इति किम् ? चैत्रेण कृतम् [क्रियते स्म / क्तक्तवतू इति भावे क्तः / पूर्वेण निषेधे प्राप्ते विकल्पोऽयम् // 92 // ___अ० पूर्वेण क्तयोरसदेत्यनेन प्रतिषेधे प्राप्ते 'वा क्लीबे इति सूत्रं विकल्पार्थं कृतमिति भावः / च्छात्रस्य हस्यते हसितं. 'क्लीबे क्तः'. (5 / 3 / 123) इति सूत्रेण क्तप्रत्ययः // 92 / / अकमेरुकस्य // 2 / 2 / 93 // कमेरन्यस्य उकप्रत्ययान्तस्य कर्मणि षष्ठी न भवति / भोगानभिलाषुकः / अकमेरिति किम् ? दास्याः कामुकः // 13 // अ० कमौधातुं उक्तप्रत्ययान्तं वर्जयित्वाऽन्यधातोरुकप्रत्ययान्तस्य कर्मणीत्यर्थः / 'लषी कान्तौ' लष् अभिपूर्वम् / अभिलषतीत्येवंशीलः 'लषपतपदः' (5 / 2 / 41) इति सूत्रेण उकण् / 'कमौङ् कान्तौ' 'कमेर्णि' (3 / 4 / 2) कामयते इत्येवंशीलः 'कमगमहनवृषभूस्थ उकण्' (5 / 2 / 40) // 93 / / एष्यदृणेनः: // 2 / 2 / 94 // एष्यत्यर्थे ऋणे च कृतस्य [विहितस्य] इनः कर्मणि षष्ठी न स्यात् / इन इति इन्णिनोर्ग्रहणम् / [एष्यत्यर्थे] ग्रामं गमी, ग्राममागामी / [ऋणेऽर्थे] शतं दायी, कारी मेऽसि कटम् [कारी मे शकटमसि इति वा] / हारी मेऽसि भारम् / एष्यदृणेति किम् ? अवश्यङ्कारी कटस्य / साधुदायी वित्तस्य // 9 //