________________ 138 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते ___अ० एष्यच्च ऋणं च एष्यदृणम्, एष्यदृणेऽर्थे इन् एष्यदृणेन् तस्य एष्यदृणेनः / गमी-अत्र गम् गमिष्यतीति गमी 'गमेरिन्' (919) उणादिसूत्रेण इन्, आगामी इत्यत्र च गम् आगमिष्यतीति आगामी 'आङश्च णित्' (920) उणादिसूत्रेण णिन्, णकारो वृद्धयर्थः; गमी आगामी इति सिद्धः / शतं दायी दास्यतीति दायी ‘णिन् चावश्यकाधमर्थे' (5 / 4 / 36) इति सूत्रेण आधमर्थेऽर्थे णिन् 'आत ऐः कृौ ' (4 / 3 / 53) धातु आकारस्य ऐ। करिष्यतीति कारी हरिष्यतीति हारी-अत्रापि ऋणेऽर्थे णिन् णकारो वृद्धयर्थः / अवश्यम् इति शब्दो मकारान्तः, अथवा अवश्य इति अकारान्तोऽप्यस्ति, स च अनव्ययः, तत्र अवश्यकारी; मकारान्ते तु अवश्यङ्कारी / अवश्यं करोतीति वाक्ये 'णिन् चावश्यकाधमर्ये' इति सूत्रेण णिन् / साधु ददातीति साधुदायी ‘साधौ' (5 / 1 / 155) इति सूत्रेण णिन् // 94 // सप्तम्यधिकरणे // 2 / 2 / 95 // [सप्तम्यधिकरणे इति सूत्रादारभ्य ‘गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा' (2 / 2 / 107) इति यावत् सप्तमी अधिकारसूत्राणि त्रयोदश] . गौणानाम्न एकद्विबही यथासङ्ग्यं ङि-ओस्-सुप्लक्षणा सप्तमीविभक्तिरधिकरणे स्यात् / दिवि देवाः, तिलेषु तैलम्, गुरौ वसति // 15 // नवा सुजथैः काले // 2 / 2 / 96 // सुचोऽर्थो वारलक्षणो येषां प्रत्ययानां ते सुजाः] तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्तमाना[गौणात् नाम्नःसप्तमी वा स्यात् / द्विरह्नि भुङ्क्ते द्विरह्रो भुङ्क्ते / पञ्चकृत्वो मासे मुक्त] मासस्य [पञ्चकृत्वो] भुङ्क्ते / बहुधाहि अह्नो भुङ्क्ते / सुजथैरिति किम् ? अह्नि भुङ्क्ते / काल इति किम् ? द्विः कांस्यपात्र्यां भुङ्क्ते / अधिकरण इत्येव-द्विरह्ना भुङ्क्ते // 96 // ____ अ० अधिकरणे आधारकारके सप्तमी नित्यं सिद्धैवास्ति, पक्षे षष्ठीविधानार्थमिदं नवासुज^ति सूत्रं कृतम् / द्वौ वारावस्य द्विः 'द्वित्रिचतुरः सुच्' (7 / 2 / 110) इति सूत्रेण सुच् / अहन् सप्तमीङि षष्ठीङस् ‘अनोऽस्य' (2 / 1 / 108) इति सूत्रेण अनोऽकारलोपः / पक्षे शेषे षष्ठी। पञ्च वारा अस्य पञ्चकृत्वः 'वारे कृत्वस्' (7 / 2 / 109) / बहव आसन्ना वारा अस्य बहुर्धा 'बहोर्धाऽऽसन्ने' (7 / 2 / 112) इति सूत्रेण धाप्रत्ययः // 16 // कुशलायुक्तेनासेवायाम् // 2 / 2 / 97 // कुशल आयुक्ताभ्यां युक्ता[गौणात्] नाम्न आधारे [वर्तमानात्] सप्तमी वा स्यात्, आसेवायां तात्पर्ये गम्यमाने। कुशलो [निपुणः] विद्याग्रहणे विद्याग्रहणस्य वा। आयुक्त[सोद्यमः]स्तपसि तपसो वा / आसेवायामित्येवकुशलचित्रकर्मणि न च करोति / आयुक्तो गौ शकटे आकृष्ट युक्त इत्यर्थः // 9 // अ० 'युजृम्पी योगे' युज् / आङ्पूर्वम् / आयुङ्क्ते 'गत्यर्थाऽकर्मक०' (5 / 1 / 11) इति क्तः / अथवा 'युजिंच् समाधौ' युज् / युज्यते स्म 'क्तक्तवतू' ( / 1 / 174) / कुशलो निपुणः, आयुक्तो व्यापृत्त उच्यते / / 97|| स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः // 2 / 2 / 98 // एभिर्युक्ताद्गौणानाम्नः सप्तमी वा स्यात्, पक्षे शेषे षष्ठी / गोषु स्वामी गवां स्वामी / एवं गोषु गवां ईश्वरः अधिपतिः दायादः साक्षी प्रतिभूः प्रसूतः / षष्ठ्येव भवति / सप्तम्यर्थं वचनम् // 98 //