________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः ____ अ० स्वामीश्वरेति सूत्रे स्वामीश्वराधिपतीति एकपर्यायशब्दग्रहणात् पतिराजनाथादिपर्यायान्तरयोगे सप्तमी न भवतीति विशेषार्थः; तेन ग्रामस्य पतिः, ग्रामस्य राजा-अत्र षष्ठयेव भवति / / 98 // व्याप्ये तेनः // 2 / 2 / 99 // , - क्तप्रत्ययान्ताद् य इन् तदन्तस्य व्याप्ये [कर्मकारके वर्तमाना[गौणात्]नाम्नः सप्तमी स्यात् / वेति निवृतम् / अधीती व्याकरणे, परिगणिती ज्योतिषे / क्तेन इति किम् ? कटं करोति / क्तग्रहणं किम् ? कृतपूर्वी कटम् / व्याप्य इति किम् ? मासमधीती व्याकरणे [मासान् मा भूत् // 19 // अ० तद्धिते 'इष्टादेः' (7 / 1 / 168) इति सूत्रेण क्तप्रत्ययान्तइष्टादिशब्दाद् इन् वक्ष्यते, तस्मात् क्तान्तात् य इन् तदन्तस्येत्यर्थः / अधीतं व्याकरणमनेनाधीती 'इष्टादेः इति सूत्रेण इन् / परिगणितं ज्योतिरनेन परिगणिती 'इष्टादेः' इन्, प्रथमासिः, ‘इन्हन०' (1 / 4 / 87) इति दीर्घः / अत्र कृतपूर्वी कटमित्यादिवत् व्याकरणस्य द्वितीयायां प्राप्तायां द्वितीयाया बाधनार्थं सप्तमी विहितेत्यर्थः / कृतं पूर्वमनेन इति वाक्ये 'पूर्वमनेन सादेश्चन्' (7 / 1 / 167) इति सूत्रेण इन् / मासस्य न कर्मत्वं, द्वितीया तु 'कालाध्वनोाप्तौ' (2 / 2 / 42) इति सूत्रेण भवतीत्यर्थः // 99 / / तद्युक्ते हेतौ // 2 // 2 // 10 // हेतुर्निमित्तं कारणम्, तेन व्याप्येन युक्ते संयुक्ते हेतौ वर्तमाना[गौणात् ] नाम्नः सप्तमी स्यात् / हेतुतृतीयापवादः / चर्मणि द्वीपिनं [चित्रकम्] हन्ति, दन्तयोर्हन्ति कुञ्जरम् / केशेषु चमरी हन्ति, सीम्नि पुष्पलको / हतः // 1 // तयुक्त इति किम् ? +वेतनेन धान्यं लुनाति, धनेन वसति // 10 // ___अ० तेन व्यापेन युक्तं तद्युक्तम्, तस्मिन् / पुष्प. 'लांक् आदाने' ला / पुष्पं लातीति पुष्पलः 'आतो डोऽहावामः' (5 / 1 / 76) इति सूत्रण डप्रत्ययः / अज्ञातः पुष्पलः पुष्पलकः 'कुत्सिताल्पाज्ञाते' (7 / 3 / 33) इति सूत्रेण कप् / पुष्पलक आरण्यको बिलाडः, तस्य सीमा वृषणस्तत्र / अथवा पुष्पलको मर्यादायां कीलक उच्यते // +अत्र वेतनं धान्येन न. संयुक्तम् // 10 // . अप्रत्यादावसाधुना // 2 / 2 / 101 // आसाधुशब्देन युक्ता[गौणात्नाम्नोऽप्रत्यादौ प्रत्यादिप्रयोगाभावे सप्तमी स्यात् / असाधुमैत्रो मातरि / अप्रत्यादाविति किम् ? असाधुमैत्रो मातरं प्रति परि अनु अभि // 101 // ___अ० मातरं परि, मातरमनु, मातरमभि // 101 / / साधुना // 2 / 2 / 102 // * साधुयुक्ता[गौणात्] नाम्नोऽप्रत्यादौ सप्तमी भवति / साधुमैत्रो राजनि [मातरि] / अप्रत्यादाविति किम् ? साधुर्मैत्रो मातरं प्रति / कथं साधु त्यो राज्ञ इति ? भृत्यापेक्षात्र षष्ठी न साध्वपेक्षा, साध्वपेक्षायां च सप्तम्येव // 102 // अ० राजानं प्रति,-राजानं परि / षष्ठयपवादो योगः // 102 // . निपुणेन चार्चायाम् // 2 // 2 // 103 // निपुणेन साधुना च युक्ता(गौणात्)नाम्नोऽप्रत्यादौ सप्तमी स्यात्, अर्चायां गम्यमानायाम् / मातरि निपुणः, पितरि साधुः / अर्चायामिति किम् ? निपुणो मैत्रो मातुः, साधुः पितुः / मातैव निपुणं मन्यते,