________________ 140 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्वरिभ्यामलङ्कृते पितैव साधुः [मन्यते], नान्य इत्यनर्चायां न भवति // 10 // स्वेशेऽधिना // 2 / 2 / 104 // स्वे ईशितव्ये ईशे च स्वामिनि वर्तमानादधिशब्देन युक्ता[गौणात्] नाम्नः सप्तमी स्यात् / स्वेअधि मगधेषु श्रेणिकः / अध्यवन्तिषु [उज्जयिन्याम्] प्रद्योतः / ईशे-अधिश्रेणिके मगधाः // 10 // ____ अ० यथेष्टं विनियोज्ये / अधिशब्दः स्वस्वामिसम्बन्धं द्योतयति / तत्र स्वस्वामिवाचिनोः शब्दयोर्मध्ये यत् गौणत्वेन विवक्ष्यते ततः परात् सप्तमी भवतीति भावः / षष्ठीबाधनार्थोऽयं योगः // 104 // उपेनाऽधिकनि // 2 / 2 / 105 // उपेन युक्तादधिकिनि वर्तमानानाम्नः सप्तमी स्यात् / उपखार्या द्रोणः-द्रोणोऽधिकः खार्या इत्यर्थः / उपेनेति किम् ? खार्या उपरि द्रोणः [अधिकः // 10 // . अ० उप इतिशब्दोऽधिकाधिकिसम्बन्धं द्योतयति // 10 // यद्भावो भावलक्षणम् // 2 / 2 / 106 // भावः क्रिया, प्रसिद्धं लक्षम्, अप्रसिद्धं लक्ष्यम् / यस्य सम्बन्धिना भावेन क्रियया भावो[कोऽर्थः]ऽपरा क्रिया लक्ष्यते तस्मिन् भाववति वर्तमानागौणानाम्नः सप्तमी स्यात् [तृतीयापवादोऽयं योगः] / गोषु दुह्यमानासु गतः, दुग्धास्वागतः / गम्यमानेनापि भावेन [क्रियया भावलक्षणे भवति / आमेषु कलायमात्रेषु गतः, पकेष्वागतः, [आम्रफलेषु सम्पूर्णजातेषु / अत्र जातेष्विति गम्यते / भाव इति किम् ? यो जटाभिः [उपलक्षितः]तस्य भोजनम् // 106 // __ अ० गोषु दुह्येत्यत्र कालतः प्रसिद्धेन गवां दोहेन भावेन अन्यगमनमप्रसिद्धं लक्ष्यते / एवं देवार्चनायां क्रियमाणायां गतः कृतायामागत इत्यप्युदाहरणं ज्ञातव्यम् / कलायो मालवप्रसिद्धोऽधमधान्यविशेषः / कलायो मानमेषां ‘मात्रट्' (7 / 1 / 145) इति सूत्रेण मात्रट् / कलायमात्रेषु कोऽर्थः ? काचेषु कयरीरूपेषु जातेषु आम्रफलेषु इत्यर्थः / / 106 // गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा // 2 / 2 / 107 // कतश्चिदवधेर्विवक्षितस्याध्वनोऽन्तः [प्रान्तः] / 'यद्भावो भावलक्षणम्' तस्याध्वनोऽध्ववाचिशब्दस्याध्वन एवान्तेन अन्तवाचिना सह [शब्देन सप्तरज्जुरूपेण सह] ऐकायें सामानाधिकरण्यं वा स्यात्तद्विभक्तिः द्वितीयाविभक्तिः] तस्माद्भवतीत्यर्थः / गते गम्ये [गतशब्दो गम्यो भवति]-गतशब्देऽप्रयुज्यमाने इत्यर्थः / लोकमध्याल्लोकान्तमुपरि [ऊर्ध्वम्] अधश्च सप्तरज्जूः [द्वितीया शस्] आमनन्तिसप्तरज्जुषु गतेषु भवतीत्यर्थः / पक्षे पूर्वेण सप्तमी / अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे / अन्तेनेति किम् ? अद्य नश्चतुर्पु गव्यूतेषु भोजनम् // 107 // ___ अ० कुतश्चिदवधेर्लोकमध्यादित्यादिरूपात् विवक्षितस्य इयत्तापरिच्छेदाद्यगृहीतस्य लोकान्त इति रूपस्य अध्वनप्रान्तः = यस्य लोकमध्यस्य अध्वनः सप्तरज्जुरूपस्य भावेन गमनरूपेण अपरो भावो लोकान्तभवनरूपो लक्ष्यते इति परिणा सूत्रार्थो व्याख्येयः / गम्यते इत्यस्याग्रेऽयं विशषः-गम्यमानमपि हि विभक्तेर्निमित्तं भवति, यथा वृक्षे शाखा, ग्रामे चैत्रः, अत्र भवति वसति चेत्याधारनिमित्तं गम्यते / एकोऽर्थोद्रव्यम् अनेकभेदाधिष्ठानं यस्य स एकार्थः, तस्य भाव ऐकार्यम् / कोऽर्थः ? सामानाधिकरण्यम् / ययोर्द्वयोः शब्दयोरेका विभक्तिः एका सङ्ख्या एकं लिङ्गं 1. 'पुरुमगध०'... / 6 / 1 / 116 / अनेन विहितअण्प्रत्ययस्य ‘बहुष्वत्रियाम्' / 6 / 1 / 124 // इति अनेन लोपः /