________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 141 स्यात् तत् एकार्थ्यम् / तस्मात् सप्तरन्जुरूपात् शब्दात् ऐकार्थ्यात्सामानाधिकरण्यात् परतो द्वितीयाविभक्तिर्भवतीति भावः / यदा एकविभक्तिर्न स्यात्तदा ऐकार्थ्यं न घटते / पक्षे लोकमध्याल्लोकान्तमुपर्यधश्च सप्तरजुषु आमनन्ति इति प्रयोगो ज्ञातव्यः / आग्रहायणी इति अग्रहायनस्य अग्रहायणम् 'पूर्वपदस्थानाम्न्यगः (2 / 3 / 64) इति सूत्रेण नकारस्य णत्वम् अग्रहायण एव आग्रहायणम् इति वाक्ये स्वार्थे 'प्रज्ञादिभ्योऽण्' (7 / 2 / 165) इति सूत्रेण अण् 'वृद्धिः स्वरेष्वा०' (74 / 1) इति वृद्धिः, आ ‘अवर्णेवर्णस्य' (7 / 4 / 68) अकारलोपः ‘गौरादिभ्यो मुख्यान्डीः' (2 / 4 / 19) इति सूत्रेण डी, आग्रहायणी मार्गशीर्षमासस्यान्त(अन्त्य)तिथिः पूर्णमासी उच्यते / मासे इत्यत्र ऐकायाभावात् 'यद्भावो भावलक्षणम्' (2 / 2 / 106) इति सूत्रेण सप्तमी भवति / गव्यूतिरत्रास्ति इति वाक्ये 'अभ्रादिभ्यः' (7 / 2 / 46) इति सूत्रेण मत्त्वर्थे अप्रत्ययः ‘अवर्णेवर्णस्य' गव्यूतं क्रोशमेकम् // 107 / / - षष्ठी वाऽनादरे // 2 // 2 // 108 // भावे वर्तमाना[गौणात्] नाम्नोऽनादरे गम्यमाने षष्ठी वा स्यात्, पक्षे पूर्वसूत्रेण [यद्भावेत्यनेन] सप्तमी / रुदतो लोकस्य रुदति लोके वा प्राब्राजीत् / रुदन्तं गोत्रजनमनादृत्य प्रव्रजित इत्यर्थः // 108 // ___ अ० प्राव्राजीत् 'धृजध्रजवजव्रजषस्ज गतौ' व्रज् / प्रपूर्वम्, अद्यतनीदि ‘सिजद्यतन्याम्' (3 / 4 / 53) इति सूत्रेण सिच् ‘स्ताद्यशितो०' (4 / 4 / 32) इत्यादिना इट् ‘वदव्रजरः' (4 / 3 / 48) इति सूत्रेण वृद्धिः आ ‘सः सिजस्तेर्दिस्योः' (4 / 3 / 65) इति सूत्रेण सिच ईत् ‘इट ईति' (4 / 3 / 71) इति सूत्रेण सिच्लोपः 'अड्धातो.' (4 / 4 / 29) अट्; प्राव्राजीत् इति सिद्धम् / / 108 / / सप्तमी चाविभागे निर्धारणे // 2 // 2 // 109 // जातिगुणक्रियादिभिः समुदायादेकदेशस्य [पुरुषलक्षणात्क्षत्रियादेः] बुद्धया पृथकरणं निर्धारणम् / तस्मिन् / निर्धारणे] गम्यमाने [गौणात्] नाम्नः षष्ठी सप्तमी च स्यात् / अविभागे- निर्यमाण-स्यैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद्गम्यमाने / क्षत्रियः पुरुषाणाम् पुरुषेषु वा शूरः, कृष्णा गवां गोषु वा बहुक्षीराः, भवन्तो गच्छतां गच्छत्सु शीघ्रतमाः, युधिष्ठिरः श्रेष्ठतमः [अति उत्तमः] कुरूणाम् कुरुषु / अविभाग इति किम् ? माथुराः पाटलिपुत्रकेभ्य आढ्यतराः, मैत्रश्चैत्रात्पटुः; अत्र हि शब्दाढ़ेद एव प्रतीयते नतु कथञ्चिदैक्यमिति न षष्ठी // 109 // ___ अ० आदिशब्दात् युधिष्ठिरप्रभृतिसंज्ञया च / अविभागे-कोऽर्थः ? ऐक्ये गम्यमाने सति / अविभागस्वरूपं दर्शयति निर्येत्यादि / मथुरायां भवा माथुराः 'भवे' (6 / 3 / 123) इति सूत्रेण अण् वृद्धिः / पाटलिपुत्रे भवाः पाटलिपुत्रकाः 'रोपान्त्यात्' (6 / 3 / 42) इति सूत्रेण अकञ् / पाटलिपुत्रादिशब्दात् / पटुः इत्यग्रे, अयमस्मादधिक इत्यपि ज्ञेयम् 'सप्तमी चाविभागे निर्धारणे' इति सूत्रं पञ्चमीबाधनार्थं कृतम्गोभ्यः कृष्णाः सम्पन्नक्षीराः इति प्रयोग प्राप्ते सति // 109 // क्रियामध्येऽध्वकाले पञ्चमी च // 2 // 2 // 110 // ___क्रिययोर्मध्ये योऽध्वः कालश्च तस्मिन्वर्त्तमाना[गौणात्] नाम्नः पञ्चमी चकारात् सप्तमी च स्यात् / अध्वनिइहस्थोऽयमिष्वासः [धनुः] क्रोशात् क्रोशे वा लक्ष्यं विध्यति / काले-अद्य भुक्त्वा मुनिद्वर्यहात् द्वयहे वा भोक्ता // 110 //