________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलते अ० क्रिययोर्मध्यं क्रियामध्यम् तस्मिन् / अध्वा च कालश्च अध्वकालः तस्मिन् / इहस्थोऽयमित्यादि-इह धानुष्कावस्थानम् इषुमोक्षो वा, एका क्रिया लक्ष्यव्यधश्च द्वितीया क्रिया, तयोर्मध्ये क्रोशोऽध्वा / अद्य भुक्त्वा मुनीत्यादिअत्र द्वयोर्भुक्तिक्रिययोर्मध्ये ब्यहः कालः / 'व्यधंच ताडने' व्यध् / वर्तमानाति 'दिवादेः श्यः' (3 / 4 / 72) इति सूत्रेण श्यः प्रत्ययः ‘शिदऽवित्' (4 / 3 / 20) इति सूत्रेण ङित् भावे इति (अस्माद्) हेतोः 'ज्याव्यधःक्ङिति' (4 / 1 / 81) इत्यनेन वृत् इकारः विध्यतीति सिद्धम् / ननु क्रोशे स्थितं लक्ष्यं विध्यति, व्यहे पूर्णे सति भुङ्क्ते इत्यधिकरण एव सप्तमी प्राप्नोति, क्रोशान्निसृत्य स्थितं लक्ष्यं विध्यति इति अपादाने पञ्चमी 'गम्ययपः कर्माधारे' (2 / 2 / 74) इत्यनेनापि पञ्चमी सिद्धैव ‘क्रियामध्येऽध्वकाले' इति सूत्रं कथं कृतम् ? सत्यम्- यदा तु अपादानस्य आधारस्य च क्रियाकारकसम्बन्धस्य यल्लक्ष्यं क्रोशे तिष्ठति तल्लक्ष्यं क्रोशसम्बन्धि, या च पूर्णे द्वये भुजिः सा व्यहस्य कालस्य सम्बन्धि, तथा क्रोशान्निसृत्य यल्लक्ष्यं स्थितं तत्क्रोशस्यैव, यावद्वयतिक्रमेण भुजिः सापि द्वयहस्येव इति युक्त्या फलभूता उत्तरावस्था शेषसम्बन्धलक्षणा विवक्ष्यते, यथा द्विरह्रो भुङ्क्ते, योजनस्य शृणोतीति, तदापि क्रियामध्ये षष्ठी मा भूदिति सूत्रम् / द्वि अहन्, द्वयोरहोः समाहारः व्यहः 'द्विगोरनहोऽट्' (7 / 3 / 99) इति सूत्रेण अट्समासान्तः ‘नोऽपदस्य तद्धिते' (7 / 4 / 61) इत्यन्त्यस्वरादिलोपः / अत्र अद्य भुक्त्वोदाहरणे द्वयोर्भुक्तिक्रिययोर्मध्ये द्वयहः कालः / द्वयहे पूर्णो दिनद्वये गते सति भुङ्क्ते इत्यर्थः // 110 // __ अधिकेन भूयसस्ते // 2 / 2 / 1111. अधिरूढ इत्यर्थेऽधिकशब्दो निपात्यते, तत्र सामर्थ्यादल्पीयोवाचिनाऽधिकशब्देन युक्ताद् भूयसो भूयों [प्रभूत] वाचिनो गौणानाम्नः ते सप्तमीपञ्चम्यौ भवतः / अधिको द्रोणः खार्याम् अधिको द्रोणः खार्याः [द्वितीयाषष्ठयोरपवादोऽयम् // 111 // ____ अ० अधिरूढ इत्यत्र अधिरोहति स्म इति कर्त्तरि, अधिरुह्यते स्म इति कर्मणि 'ज्ञानेच्छार्चा०' (5 / 2 / 92) इति क्तप्रत्ययः / तत्र यदा कर्तरि अधिरूढः तदाऽधिक इति शब्देन अल्पीयान् उच्यते; यदा तु कर्मणि अधिरूढस्तदाऽधिक इत्यनेन भूयान् उच्यते तत्र सामर्थ्यादित्यादिसूत्रार्थः-खारी मध्ये द्रोणोऽधिकः कोऽर्थः ? अल्पीयान् इत्यर्थो घटते सम्भाव्यते // 111 / / तृतीयाल्पीयसः // 2 / 2 / 112 // ___ अधिकशब्देन [सामर्थ्यात्] भूयोवाचिना युक्तादल्पीयोवाचकाद्गौणानाम्नस्तृतीया स्यात् / अधिका खारी द्रोणेन [द्रोणेन कृत्वा खारी अधिका कोऽर्थः ? प्रभूता बह्वी इत्यर्थः] // 112 // __ पृथग् नाना पञ्चमी च // 2 / 2 / 113 // पृथग्नानाशब्दाभ्यां युक्ता[गौणात् ]नाम्नः पञ्चमी तृतीया च भवति / पृथग्मैत्रात् पृथग्मैत्रेण / नाना चैत्रात् [नाना] चैत्रेण वा // 113 // __अ० यदा पृथग्नानाशब्दौ अन्यार्थी विवक्ष्येते तदा 'प्रभृत्यन्यार्थ०' (2 / 2 / 75) इति सूत्रेण पञ्चमी सिद्धैवास्ति, तृतीतैवानेन सूत्रेण भवति / यदा पुनः पृथग्नानाशब्दौ असहायार्थौ तदा पञ्चमीविधानार्थं सूत्रमिदम् // 113 // ऋते द्वितीया च // 2 // 2 // 114 // ऋते इति शब्देन युक्ता[गौणात्]नाम्नो द्वितीया पश्चमी च स्यात् / नाङ्गं विक्रियते रोगमृते, ऋते धर्मात्