________________ 143 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 143 कुतः सुखम् // 114 // अ० ऋते इति शब्दोऽव्ययो वर्जनार्थो ज्ञेयः // 114 / / - विना ते तृतीया च // 2 / 2 / 115 // - विनाशब्देन युक्ता[गौणात् ] नाम्नः ते-द्वितीयापञ्चम्यौ, तृतीया च भवति / विना वातं विना वातात् विना चातेन // 115 // तुल्यार्थस्तृतीयाषष्ठ्यौ // 2 / 2 / 116 // __तुल्यार्थैर्युक्ताद्गौणानाम्नस्तृतीयाषष्ठ्यौ भवतः। मात्रा तुल्यः मातुस्तुल्यः / पित्रा समानः पितुः समानः। अर्थग्रहणं पर्यायार्थम् / उपमा नास्ति कृष्णस्य, तुला नास्ति सनत्कुमारस्य इत्यादौ उपमादयो न तुल्यार्था इति न भवति / तृतीयामविकल्प्य षष्ठीविधानं सप्तमीबाधनार्थम्, तेन गवां तुल्यः स्वामी, गोभिस्तुल्यः; 'स्वामीश्वराधि०' (2 / 2 / 98) इत्यादिना न. सप्तमी // 116 // अ० तुल्यसमानसदृशादयो हि धर्मिदेवदत्तवाचकाः, उपमातुलासमतादयस्तु शब्दा धर्मवचनाः; एतावता धर्मिवाचकैः शब्दैस्तुल्यादिभिः तृतीयाषष्ठयौ भवतः, न धर्मवाचकैरुपमानादिभिरिति भावः / तुल्यार्थेस्तृतीया वा इति सूत्राकरणात् 'तृतीयाषष्ठयौ' इति विधानं यत्, तत्सप्तमीबाधनार्थमित्यर्थः / उपमादयो न तुल्यार्था इति न भवति इत्यस्याग्रेगौणाधिकाराच्च गौरिव गवयः इत्यादौ न भवति // 116 / / _ द्वितीयाषष्ठयावेनेनानश्चेः // 2 / 2 / 117 // एनप्रत्ययान्तेन युक्ताद्गौणानाम्नो द्वितीयाषष्ठ्यौ भवतः, चेत् स एनोऽश्चेः परो न कृतः स्यात् / पूर्वेण ग्रामं पूर्वेण ग्रामस्य, दक्षिणेन विजयाई विजयार्द्धस्य, उत्तरेण हिमवन्तं हिमवतः / अनश्चेरिति किम् ? प्राग्ग्रामात् प्रत्यग्ग्रामात् उदग्ग्रामात् // 117 // . अ० पूर्व = अस्मात् पूर्वा दिग् अदूरे रमणीया / अथवा अस्मात् ग्रामात् पूर्वो देशः कालो वा अदूरे रमणीयः। पूर्वेण- ‘अदूरे एनः' (7 / 2 / 122) इति सूत्रेण एनप्रत्ययः स च अव्ययः ‘अवर्णेवर्णस्य' (7 / 4 / 68) सिः 'अव्ययस्य' (3 / 2 / 7) इति लुक् / अस्मात् दक्षिणा दिग् दक्षिणो देशः कालो वाऽदूरे रमणीया रमणीयो दक्षिणेन 'अदूरे एनः' / अस्मात् हिमवतः पर्वतात् उत्तरा दिग् अदूरे रमणीया उत्तरो देशः कालो वा अदूरे रमणीयः ‘अदूरे एनः' / अञ्च प्रः पूर्व प्राञ्चतीति प्राङ् 'क्किप्' (5 / 1 / 148) 'अञ्चोऽनर्चायाम्' (4 / 2 / 46) नस्य लोपः स्त्री चेत् प्राची 'अचः' (1 / 4 / 69) इति सूत्रेण ङी, प्राच्यामदूरायां वसति / एवं प्रतीच्याम् उदीच्यामदूरायां वसति 'अदूरे एनः' इति एनप्रत्ययः 'लुबञ्चेः' (7 / 2 / 123) इति सूत्रेण नस्य लोपः, लोपे कृते ‘ड्यादेर्गौणस्याक्विपस्तद्वितलुक्यगोणीसूच्योः' (2 / 4 / 95) इति सूत्रेण ङीप्रत्ययस्य लोपः, प्राच् इति पुनःशब्दः, सिः, 'अव्ययस्य' इति लुप् / प्राग्ग्रामात् इत्यत्र च 'प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः' (2 / 2 / 75) इति सूत्रेण पञ्चमी भवति // 117 / / हेत्वर्थेस्तृतीयाद्याः // 2 / 2 / 118 // हेतुर्निमित्तं कारणमिति पर्यायाः, एतदर्थैः शब्दैर्युक्तात् प्रत्यासत्तेस्तैरेव समानाधिकरणा[गौणात्]नाम्नस्तृतीयाद्याः-तृतीयाचतुर्थीपञ्चमीषष्ठीसप्तम्यो भवन्ति / धनेन हेतुना धनाय हेतवे धनाद्धेतोः धनस्य हेतोः धने हेतौ वसति / एवं धनेन निमित्तेन, धनेन कारणेन इत्यादयोऽपि / प्रत्यासत्तेस्तैरेव समानाधिकरणादिति किम् ?