________________ 144 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते अन्नस्य हेतुः // 118 // अ० आदिशब्दात् धनेनोपदेशेन धनेन प्रयोजनेन इत्यपि ज्ञेयम् / तत्सामानाधिकरण्याच्च हेत्वर्थशब्देभ्योऽपि ता एव तृतीयाद्या भवन्ति इति भावः // 118|| सर्वादेः सर्वाः // 2 / 2 / 119 // हेत्वधैर्युक्तात् प्रत्यासत्तेस्तत्समानाधिकरणात् सर्वादेर्गीणानाम्नः सर्वा विभक्तयो भवन्ति / को हेतुः, कं हेतुम्, केन हेतुना, कस्मै हेतवे वसतीत्यादयः / एवं यो हेतुः यं हेतुम् इत्यादि / स हेतुः तं हेतुम् / सर्वो हेतुः, सर्व हेतुम् / भवान् हेतुः भवन्तं हेतुम् / एवं किं कारणम्, किं निमित्तम्, किं प्रयोजनमित्यादयः // 119 // ____ अ० कस्माद्धेतोः, कस्य हेतोः, कस्मिन् हेतौ वसति चैत्रः / हेत्वर्थैः सह = वसति चैत्रः / को हेतुरित्यादिसर्वोदाहरणेषु केन हेतुना, केन कारणेन इत्येवार्थः सर्वत्र ज्ञातव्यः / यो हेतुरित्यादिष्वपि येन हेतुना कारणेन इत्यर्थः सम्भावनीयः / स हेतुः तेन हेतुना कारणेन वसति चैत्र इत्यर्थः / भवता हेतुना भवता कारणेन इत्यर्थः / उभौ हेतू, उभाभ्यां हेतुभ्यामित्यपि ज्ञातव्यम् // 119 / / असत्त्वारादर्थाट्टाङसिङ्यम् // 2 / 2 / 120 // [असत्त्वे आरादर्थः असत्त्वारादर्थः, अथवा ___ असत्त्वश्चासावारादर्थश्च असत्त्वारादर्थः तस्मात्] सत्त्वं द्रव्यम्, ततोऽन्यदसत्त्वम् / आरादूरान्तिकयोः / तन्त्रेणोभयोर्ग्रहणम् / गौणादिति निवृत्तम् / असत्त्ववाचिनो दूरार्थादन्तिकार्थाच्च टा-सि-ङि-अम् इत्येते [प्रत्ययाः] 'स्युः / दूरार्थे-दूरेण दूरात् दूरे दूरं वा ग्रामस्य ग्रामाद्वा वसति / एवं विप्रकृष्टेन [दूरे] ग्रामस्य ग्रामाद्वा तिष्ठति / अन्तिकार्थे अन्तिकेन ग्रामस्य ग्रामाद्वा वसति / [एवं] अभ्याशेनेत्यादि / असत्त्वे इति किम् ? दूरः पन्थाः, अन्तिमः पन्थाः / दूराय पथे, दूरस्य पथः स्वम् / कथं चिरं चिरेण चिराय चिरात् चिरस्येति ? विभक्तिप्रतिरूपका निपाता एते-यथा परस्परं परस्परेण परस्परस्येत्यादयः // 120 // अ० लिङ्गसङ्ख्यावद्रव्यं गोत्वादि, 'इदंतदित्यादिपदैर्यदन्यद्वापदिश्यते / गुणजात्यादिकं सर्वं द्रव्यं स्यात् पारिभाषिकम् / / 1 / / इदं तत् इत्यादि सर्वनामव्यपदेश्यं सत्त्वमित्युच्यते, ततोऽन्यत् असत्त्वमुच्यते / आराद्रेति-आरात् इति शब्दोऽव्ययो दूरार्थे अन्तिकार्थे च वर्त्तते / तन्त्रेण कोऽर्थः ? सूत्रेण / आरादर्थ इति शब्देन उभयोरपि ग्रहणं विहितम् / कोऽभिप्रायः ? दूरार्थ-शब्दात् अन्तिकार्थशब्दाच्च परतः टा-सि-ङि-अम्-विभक्तयो भवन्ति इति सूत्रे आरात् इति शब्देन द्वयेऽपि दूरार्थ-अन्तिकार्थाः शब्दाः गृह्यन्ते इत्यर्थः / ग्रामात् इत्यत्र ‘आराद! H' (2 / 2 / 78) इति सूत्रेण विकल्पेन पञ्चमी, पक्षे षष्ठी-ग्रामस्य / ग्रामस्य त्वं दूरे इत्यर्थे षष्ठी / अभ्यश्यते इत्यभ्याशम् ‘भावाकोंः' (5 / 3 / 18) इति पञ् / क्लीबे चायं शब्दः तालव्यशकारान्तः / यस्तु दन्त्यसकारान्तोऽभ्यासः स पुंल्लिङ्गे वर्त्तते / आरादर्थत्वाऽभावात् चिरंशब्दात् कथं द्वितीयाद्या विभक्तय इति पराशङ्का ? सूरिराह-विभक्तीत्यादि / / 120 // जात्याख्यायां नवैकोऽसङ्ख्यो बहुवत् // 2 / 2 / 121 // . जातेरेकत्वादेकवचन एव प्राप्ते पक्षे बहुवचनार्थ बहुवद्भाव उच्यते / जातेराख्याऽभिधानं जात्याख्या, तस्यामेकोऽर्थो जातिलक्षणोऽसङ्ग्यः सङ्ख्यावाचिविशेषणरहितो बहुवरा भवति / सम्पन्नो यवः सम्पन्ना यवाः,