________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य द्वितीयः पादः 145 सम्पनो व्रीहिः सम्पन्ना व्रीहयः / जातिग्रहणं किम् ? चैत्रः / आख्यायामिति किम् ? काश्यपप्रतिकृतिः सदृशः] काश्यपः / एक इति किम् ? *सम्पन्नौ व्रीहियवौ / असङ्ख्य इति किम् ? +एको व्रीहिः सम्पन्नः सुभिक्षं करोति // 121 // ____ अ० काश्यपोऽयं जातिशब्दोऽस्ति परं अनेन जाति ख्यायते किं तर्हि ? प्रतिकृतिः ख्यायते / *सम्पन्नौ व्रीहियवौ इति उदाहरण अग्रे- 'मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे / बाहू प्रलम्बावङ्गेषु, वङ्गेषु चरणौ दृढौ' // 1 // इत्यत्र सव्येतरलक्षणाऽवान्तरत्वजातिद्वयोपाधियोगादेकत्वं नास्ति इति बहुवद्भावो न भवति / जातिमात्रविवक्षायां तु बहुवद्भावो भवत्येव-मगधेषु स्तना पीनाः स्तनः पीनः / कलिङ्गेषु अक्षीणि शुभानि अक्षि शुभम् इत्यादि / +एको व्रीहिः सम्पन्नः सुभिक्षं करोतीत्यत्र विशेषणभूत एक इति सङ्ख्याप्रयोग उदाहरणमध्येऽस्तीति एके व्रीहयः सम्पन्नाः सुभिक्षं कुर्वन्तीति प्रयोगो न भवति / / 121 / / __ अविशेषणे द्वौ चास्मदः // 2 // 2 // 122 // [दः-षष्ठी] ___ अस्मदो द्वावेकश्वार्थो बहुवद्वा स्यात्, अविशेषणे-यद्यस्मदो विशेषणं न प्रयुज्यते / आवां ब्रूवः, वयं ब्रूमः / अविशेषण इति किम् ? आवां गार्यो ब्रूवः, अहं पण्डितो ब्रवीमि / कथं नाट्ये च दक्षा वयं, 'त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः', 'सा बाला वयमप्रगल्भे' त्यादि ? दक्षत्वादीनां विधेयत्वेनाविशेषणत्वाद्भविष्यति // 122 // ___अ० एकानेकस्वभावस्यात्मनोऽनेकस्वभावविवक्षायां बहुवचनं युष्मदस्मदः सिद्धमेव, परं अष्मदः सविशेषणस्य प्रतिषेधार्थं 'अविशेषणे द्वौ चास्मदः' इति सूत्रं कृतमिति भावः / ब्रू वर्तमानामिव् / 'ब्रूतः परादिः' (4 / 3 / 63) इति सूत्रेण ईत् / 'नामिनो गुणोऽक्डिति' (4 / 3 / 1) इति गुणः / श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी, लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् / वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनर्मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः / / 1 / / त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः, ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः / इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं, यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निस्पृहाः / / 2 / / सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः, सा पीनोन्नतिमत्कुचद्वयभरं धत्ते सखेदा वयम् / साऽऽक्रान्ता जघनस्थलेन गुरुणा, गन्तुं न शक्ता वयम्, दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्' // 3 // नटानामिदं नृत्तं नाट्यम् ‘नटान्नृत्ते ज्यः' (6 / 3 / 165) इति सूत्रेण ज्यप्रत्ययः, ञो वृद्धयर्थः ‘वृद्धिः स्वरे०' (7 / 4 / 1) / दक्षाः के ? वयम्, इति दक्षा विशेष्यपदं वयमिति विशेषणम् / अज्ञातज्ञापनीयत्वेन = यत् अनूद्यमानमवच्छेदकं तत् विशेषणमुच्यते / / 122 / / - फल्गुनीप्रोष्ठपदस्य भे // 2 / 2 / 123 // [पूर्वफाल्गुनी पूर्वाभद्रपदानक्षत्रद्वयम्] फल्गुनीप्रोष्ठपदाशब्दयोर्भे नक्षत्रे वर्तमानयोञवौँ वा बहुवद्भवतः / कदा पूर्वे फाल्गुन्यौ, कदा पूर्वाः फल्गुन्यः / कदा पूर्वे प्रोष्ठपदे,कदा पूर्वाः प्रोष्ठपदाः / उदिते पूर्वे फल्गुन्यौ, उदिताः पूर्वाःफल्गुन्यः / उदिते पूर्वे प्रोष्ठपदे, उदिताः पूर्वाः प्रोष्ठपदाः / भ इति किम् ? फल्गुनीषु जाते फाल्गुन्यौ कन्ये / द्वावित्येव +दृश्यते फल्गुनी // 123 // अ० फल्गुनीप्रोष्ठपदस्य इति शब्दपरो निर्देशः किमर्थं कृतः ? सूरिराह-तत्पर्यायस्य मा भूत्, अद्य पूर्वे भद्रपदे