________________ 146 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते इत्येव प्रयोगः, पूर्वा भद्रपदाः इति न भवति; इयमवचूरिः +दृश्यते फल्गुनी इत्यस्याग्रे ज्ञातव्या // 123 / / गुरावेकश्च // 2 / 2 / 124 // गुरौ गौरवार्हेऽर्थे वर्तमानस्य शब्दस्य द्वावेकश्वार्थो वा बहुवत् स्यात् / त्वं गुरुः यूयं गुरवः, युवां गुरू यूयं गुरवः / एष मे पिता एते मे पितरः / अयं तपस्वी इमे तपस्विनः / गुरुशिष्यौ +गुरुशिष्याः / आपः, दाराः, गृहाः, वर्षाः, पञ्चालाः जनपदः, गोदौ ग्रामः, खलतिकं वनानि, हरीतक्यः फलानि, पञ्चालमथुरे चञ्चाभिरूपो मनुष्य इति सर्वलिङ्गसङ्ग्ये वस्तुनि स्याद्वादमनुपतति / मुख्योपचरितार्थानुपातिनि च शब्दात्मनि रूढितस्तत्तल्लिङ्गसङ्ख्योपादानव्यवस्थानुसतव्या // 124 // द्वितीयस्याध्यायस्य द्वितीयः पादः ॥ग्रं० 451 // ____ अ० +गुरुशिष्या इत्यस्याग्रे इमे विशेषप्रयोगा ज्ञातव्याः, यथा इह भवान् आह, इह भवन्त आहुः / तत्र भवान् आह, तत्रभवन्तः आहुः / अत्रभवानाह, अत्रभवन्त आहुः / इहायुष्मानाह अत्रायुष्मानाह, इहायुष्मन्तः आहुः अत्रायुष्मन्तः आहुः / इह दीर्घायुः अत्र दीर्घायुः अत्र दीर्घायुराह, इह दीर्घायुषः अत्र दीर्घायुषः आहुः / एते सर्वेऽपि गुरौ पूज्यजने वर्तन्ते / इहशब्दः ‘क्ककुत्रात्रेह' (7 / 2 / 93) इति सूत्रेण इदम अकारादेशः, त्रप् प्रत्ययस्य च हकारादेशः, अस्मिन्निह इति वाक्यम् / / तत्र-तस्मिन् तत्र 'त्रप् च' (7 / 2 / 92) इति सूत्रेण त्रप् / अत्रएतद् एतस्मिन् अत्र 'ककुत्रात्रेह' इति निपातः / / एवं इह भवन्तौ, तत्र भवन्तौ, अत्र भवन्तौ इहायुष्मन्तौ इत्यादि, पक्षे इह भवन्तः अत्र भवन्तः तत्र भवन्तः आहुः / / आप इत्यादिषु कथं बहुवचनं, पश्चाला जनपद इत्यादिषु कथं वचनव्यत्ययः, खलतिकं वनानि हरीतक्यः फलानि इत्यत्र कथं लिङ्गव्यत्ययः इति पराशङ्का / सर्वलिङ्गेत्यादिसर्ववस्तुनि स्याद्वादमनुपतति स्याद्वादमवतरति / 'सिद्धिः स्याद्वादात्' इति मुनीन्द्रवचनात् स्याद्वादादनेकान्तवादात् सर्वनयमयात् एक एव शब्द एकलिङ्गं द्विलिङ्गं त्रिलिङ्गं वा भजते, एक एव शब्द एकवचन द्विवचनं बहवचनं वा आश्रयति / लिङ्गसङ्ख्याव्यत्ययोऽपि स्याद्वादात्, अत एव वैयाकरणैः प्रामाणिकलोकैश्च लोकरूढः शब्दस्वभाव आश्रीयते / एतच्च हैमव्याकरणारम्भे बृहद्वृत्तौ ‘सिद्धिः स्याद्वादात्' (1 / 1 / 2) 'लोकात्' (1 / 1 / 3) इति सूत्रद्वये . दर्शितमस्ति / अपशब्दः स्वभावात् स्त्रीलिङ्गो बहुवचनान्तः, गृहशब्दोऽपि बहुवचनान्तः, एवमन्येऽपि / चीयते उपचीयते तृणैरिति चञ्चा, अभिमतं रूपं यस्य सोऽभिरूपः / अकिञ्चित्करः पुरुषः चञ्चा उच्यते उपचारात् / लिङ्गानि च सङ्ख्याश्च लिङ्गसङ्ख्याः ताश्च ता लिङ्गसङ्ख्याश्च / तासामुपादानं ग्रहणम् / तत्र या व्यवस्था मर्यादा / मुख्यश्च उपचरितश्च स चासौ अर्थश्च तत्रानुपातिनि // 124 / / इति श्रीसिद्धहेमशब्दानुशासने द्वितीयस्याध्यायस्य मध्यमवृत्त्यवचूरिभ्यामलङ्कृतो द्वितीयः पादः समाप्तः // 2 / / व्याउ परिउर्मित वयन लोडने रंशन आपे छे, वैराग्य परिउर्मित भन आत्भाने रंशन आपे छ: व्यारा डाव्यने भठारे छे, वैराग्य मात्भाने भठारे छे.