________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः 147 नमस्पुरसोः गतेः कखपफि रः सः // 2 // 3 // 1 // [नमस्पुरसोरित्याद्यारभ्य ‘रोः काम्ये' (2 / 3 / 7) इति सूत्रं यावत् सप्तसूत्राणि रेफस्य सकारादेशे ज्ञातव्यानि] गतिसंज्ञकयोर्नमस् पुरस्-इत्येतयोः सम्बन्धिनो रेफस्य [रकारस्य] कखपफेषु परेषु सकारादेशः स्यात् / नमस्कृत्य नमस्करोति, पुरस्कृत्य पुरस्करोति, पुरस्खादः [पुरः स्खदनं पुरस्खादः] पुरस्पातः [पुरस्पतनं पुरस्पातः], पुरस्फकः / गतेरिति किम् ? नमः करोति-नमः शब्दमुच्चारयतीत्यर्थः // 1 // __ अ० नमस्कृत्येत्यादौ सर्वत्र सूत्रोदाहरणे ‘सो रुः' (2 / 1 / 72) इत्यनेन रकारं कृत्वा पश्चात् रकारस्य सकारः // नमस्कृत्येति-नमस् 'डुकंग करणे' कृधातुः 'साक्षादादिश्च्च्य र्थे' (3 / 1 / 14) इति सूत्रेण नमस्शब्दस्य गतिसंज्ञा, गतिसंज्ञत्वेन धातोः पूर्वं प्रयुज्यते; नमस् इत्यस्याग्रे प्रथमासिः ‘गतिः' (1 / 1 / 36) इति सूत्रेण गतिसंज्ञकस्य अव्ययसंज्ञा भवति, ततः ‘अव्ययस्य' (3 / 2 / 7) इति सिलुक् / अनमो नमः करणम् / पूर्वं नमस्कृत्येति वाक्ये 'प्राक्काले' (5 / 4 / 47) क्त्वा 'अनञः क्त्वो यप्' (3 / 2 / 154) / / एवं पुरस्कृत्यस्य साधनिका, नवरमत्र 'पुरोऽस्तमव्ययम्' (3 / 1 / 7) इति सूत्रेण गतिसंज्ञा, पूर्वपर्यायोऽग्रतःपर्यायो वा पुरस्शब्दः // नमः करोतीत्यत्र नमःशब्दान्तरम्, न त्वव्ययमिति ‘अनतो लुप्' (1 / 4 / 59) इति सूत्रेण अम् लुप्यते / नमः करोतीत्यस्याग्रे तिस्रः पुरः करोति इति-पुरस्शब्दस्य ज्ञेयम् / त्रि. शस्. 'त्रिचतुरस्तिसृ०' (2 / 1 / 1) इति तिसृ आदेशः 'पृश् पालनपूरणयोः' पृ, पालय(तीति ?) पुर् नगरम् 'दिद्युद्ददृ०' (5 / 2 / 83) इति भ्राजादिद्वारेण क्विप् 'ओष्ठ्यादुर्' (4|4|117) इति उर् ततः शस् पुरस् इति सिद्धम् / 'पृश् पालनपूरणयोः' पृणाति इत्येवंशीलः इत्येव ज्ञेयं न तु 'पृक् पालने'ऽदादिः / पुर्-त्रिलिङ्गः // 1 // तिरसो वा // 2 // 3 // 2 // गतिसंज्ञकस्य तिरःशब्दस्य सम्बन्धिनो रेफस्य कखपफेषु सकारादेशो वा स्यात् / तिरस्कृत्य तिरःकृत्य, तिरस्करोति तिरःकरोति // 2 // अ० तिरस्कृत्येत्यत्र 'कृगो नवा' (3 / 1 / 10) इति सूत्रेण गतिसंज्ञा तिरस्शब्दस्य // 2 / / पुंसः // 2 // 2 // 3 // पुम्स्शब्दसम्बन्धिरेफस्य कखपफेषु सो भवति / पुंस्कोकिलः, पुंस्खननम्, पुंस्पाकः, पुंस्फलम् // 3 // अ० पुम्स्. कोकिल. पुमांश्चासौ कोकिलश्च पुं० 'पदस्य' (2 / 1 / 89) इति सकारस्य लोपः 'पुमोऽशिट्यघोषेऽख्यागिरः' (1 / 3 / 9) इति मकारस्य रकारः अनुस्वारपूर्वकः, 'पुंसः' इत्यनेन रेफस्य सकारः / एवं पुंस्खननं पुंस्पाकः पुंस्फलमिति सिद्धिः / पुंसः खननम्, पुंसः पाकः, पुंसः फलमिति वाक्यानि कार्याणि // 3 // शिरोऽधसः पदे समासैक्ये // 2 // 3 // 4 // शिरस्-अधस्-सम्बन्धिरेफस्य पदशब्दे परे सः स्यात्, समासैक्ये-तौ चेनिमित्तनिमित्तिनावेकत्र समासे